Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी [६३ मांशुशिखराग्रज्वलत्कनककलशैः सुधापधवलमाकारवलयितैरमरमन्दिरमण्डलैमण्डलितमोगमध्यप्रवेशितोन्मणिफणासहखं शेषाहिमुपहसद्भिरुद्भासितचखरा [ऋ, खरापतज्जलविसरसारणीसिक्तसान्द्रवालद्रुमर्दुमतलनिषादिना परिश्रान्तपथिकलोकेन प्रतिदि ॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या के ___पुनः कथंभूताऽयोध्या, उद्भासितचत्वरोद्भासितं प्रकाशितं चत्वरं यस्याः सा तथा, कैरमरमन्दिरमण्डलैर्देवगृहसमूहैरित्यर्थः, कथंभूतैः प्रांशुशिखराग्रज्वलत्कनककलशैः प्रांशून्युच्छ्रितानि यानि शिखराणि तेषामग्रेषु ज्वलन्तो दीप्तिमन्तः कनककलशा येषु ते तथा तैः । पुनःकथंभूतैः सुधापङ्कधवलप्राकारवलयितैः सुधापङ्केनाऽमृतकर्दमेन लिप्तत्वाद्धवला ये प्राकारास्तैबलयितैर्वलयाकारीकृतैरत एव तैः किं कुर्वद्भिपहसद्भिः, कं शेषाहि शेषनाग, कथंभूतं मण्डलितेति, मण्डलितस्य मण्डलीभूतस्य भोगस्य देहस्य मध्ये प्रवेशितमेवंविधं सत् , उद्ध्वं मणयो यत्र तदेवंविधं फणासहस्रं येन स तथा तमित्यर्थः ॥ ऋ॥ पुनः कथंभूताऽयोध्या श्यामायमानपरिसरा श्याम इवाऽऽचरन् श्यामायमानः परिसरो बहिर्भागो यस्याः सा तथा, कैरारामैः काननैः, कथंभूत रमरकाननानुकारिभिनन्दनवनानुकारिभिरित्यर्थः । पुनः कथंभूतैः प्रतिदिवसमिति प्रतिदिनमुन्मीलन्ती विकसन्ती नीला श्यामा कान्तिर्येषु ते तथा तैः । अत्रोत्प्रेक्षामाह-इवोत्प्रेक्ष्यते दिनकरण सूर्येणाऽऽकृप्य संचार्यमाणानि क्षेप्यमानानि सकलानि शर्वरीतिमिराणि रात्रिसम्बन्धिध्वान्तानि येषु ते तथा तैननु सूर्येणैतावानाक्षेपः किमर्थं क्रियत इत्याह-स्वसन्ततिप्रभवपार्थिवप्रीतये, इक्ष्वाकुवंशस्य सूर्यप्रभवत्वेन स्वसन्ततौ प्रभवा ये पार्थिवा इक्ष्वाकुराजास्तेषां प्रीतये । तर्हि तथाविधेषु वनेषु समायाताः सन्तः प्रीतिं प्राप्नुवन्तीति सूर्येणेव तानि तथा कृतानीति । पुनरारामैः कथंभूतैः क्षणमप्यमुच्यमानमनोभवभवानीभवनैः, क्षणमपि समयमप्यमुच्यमानो मनोभवः कन्दर्पो येषु तान्येवंविधानि भवानीभवनानि पार्वतीमन्दिराणि प्रासादा येषु ते तथा तैः । ननु मनोभवस्य केनाऽमुच्यमानत्वमित्याह भुज ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ मार्गणैर्वाणैराहतस्य ताडितस्य कौआद्रेः क्रौञ्चपर्वतस्य छिट्टैरिव विवरैरिव, “क्रुञ्चतीति क्रुञ्चः प्रज्ञाद्यणि क्रौञ्चः, कौखोऽपि " इत्यभिधानचिन्तामणिवृत्तिः। पुनः कीदृशोपुरैः ? उद्घान्तराजहंसैः-उद् ऊध्वं भ्रान्ताः पवनकम्पितहंससदृशधवलपताकाभिर्धान्तिविषया राजहंसा रक्तवर्णचरणचञ्चुयुक्ताः श्वेतवर्णा हंसविशेषा येषु ते तथा तैः, कौञ्जाद्रिच्छिद्रपक्षे उद्घान्ता उपरि भ्रमणं कृतवन्त इति । पुनः कीदृशैर्गोपुरैः ! आशानिर्गममार्गायमाणैः आशानां दिशा निर्गमेषु निष्क्रमणेषु मार्गायमाणैर्विशालतया चतुर्दिगवस्थिततया च मार्गसदृशाचरणकारिभिः, मार्गतुल्यैरिति भावः । पुनः कीदृशैर्गोपुरैः ? अत्युचैः-अतिशयेनोवं गतैः, कतिसंख्यकर्गोपुरैः ? चतुर्भिः चतुस्संख्यकैः । अत्रोत्प्रेक्षातिशयोक्त्योः संसृष्टिः ॥ ऊ ।। पुनः कीदृशी नगरी ! अमरमन्दिरमण्डलैः देवमन्दिरसमुदायैः, उद्भासितचत्वरा-उद्भासितानि प्रकाशितानि चत्वराणि अङ्गणानि यस्याः सा तथा । कीदृशैरमरमन्दिरमण्डलैः ? प्रांशुशिखराग्रज्वलत्कनककलशैः-प्रांशूनामुच्चानां शिखराणामग्रेषु ज्वलन्तो दीप्यमानाः कनककलशाः सुवर्णकुम्भा यत्र तानि तथा तैः । पुनः कीदृशैः ? सुधापङ्कधवलप्राकारवलयितैः=सुधापरून ताम्बूलचर्वणोपयोगिचूर्णाख्यद्रव्यलेपेन धवला ये प्राकारास्तैर्वलयितैः वेष्टितैः । अत एव किं कुर्वद्भिः ? शेषाहि-शेषनागम् , उपहसद्भिः-उपहास कुर्वद्भिः, कीदृशं शेषाहिं ! मण्डलितभोगमध्यप्रवेशितोन्मणिफणासहस्र-मण्डलितस्य वर्तुलाकार प्रापितस्य भोगस्य देहस्य मध्ये प्रवेशितम् उन्मणि उपरिभागस्था मणयो यत्र एवंविधं च फणासहस्रं यस्य स तथा तम् । वर्तुलदेहस्थानापन्ना धवलप्राकारवलयवेष्टिता मन्दिरभागाः, फणास्थानापन्नानि शिखराणि, मणिस्थानापन्नाः कनककलशाः, तत्र तत्र शोभातिरेकेण शेषनागस्योपहासः । अत्र काव्यलिङ्गमलङ्कारोऽतिशयोक्त्या संसूज्यते ॥ ऋ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84