Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमजरा गिरिशिखरततिनिमशातकुम्भप्रासादमालाध्यासितोभयविभागैः स्फुटविभाव्यमानमर तेन्द्रनीलवज्रवैडूर्यराशिभिश्चामीकराचलतटीव चण्डांशुरथचक्रमागैः पृथुलायतैर्विपणिप प्रसाधिता [ल], 5 विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ प्रसाधिता-मण्डिता ॥ ल॥ श्रीमत्पन्नसागरविबुधरचिता व्याख्या + अथ पुनःकथंभूताऽयोध्या, प्रासाधिता प्र प्रकर्षेण आ समन्तात् राधं साधंट् संसिद्धावितिधातोः साधि प्रतिष्ठा प्रापिता, कैर्विपणिपथैहट्टमार्गः, कथंभूतैर्विपणिपथैश्चडांशुरथेति, चण्डा अंशवः किरणा येषां तथैवंविधा रथास्तेषां चक्रमार्गो येषु ते तथा तैः । पुनः कथंभूतैर्विपणिपथैः स्फुटेति, स्फुटं प्रकटं विभा० मानानां विलोक्यमानानां मरकतरत्नानामिन्द्रनीलरत्नानां वज्ररत्नानां वैडूर्यरत्नानां राशिः पुञ्जो येषु ते तथा तैः । पुर कथंभूतैर्विपणिमागैगिरिशिखरेति, पर्वतशिखरसंनिभसुवर्णप्रासादश्रेण्याऽभ्यासितावधिष्टितावुभयविभागौ पार्श्वद्वयं येषां । तथा तैरेवंविधचतुष्पथप्रसाधिताऽयोध्येति । केव चामीकराचलतटीव मेरुपर्वततटभूमिरिव, तदर्थे तु विपणिपर विशेषणानि विशेषाण्येत्र वाच्यानि, तथाहि-यथा चण्डांशुरथेति, चण्डांशोः सूर्यस्य रथचक्रयोर्मामरुती प्रसाधित भवति तथैवविधैर्विपणिपथैरियमपि । स्फुटविभाव्यमानेत्येवंविधा, एतावता रत्नानां राशिभिर्यथा मेस्तटी प्रसाधिता तो वंविधैर्विपणिपथैरियमपि। गिरिशिखरेति, एवंविधप्रासादमालाधिष्ठितोभयविभागैर्यथा मेरुतटी प्रसाधिता तवविध विपणिपथैरियमपीति तात्पर्यार्थः ॥ ल ॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ ये पार्थिवा राजानस्तेषां प्रीतये, दिनकरेण-सूर्येण, आकृप्य सूर्यवंशजराजभूमावितस्तत आकर्षणं कृत्वा, संचार्य माणसकलशर्वरीतिमिररिव-संचार्यमाणं प्रवेश्यमानं सकलं शर्वरीतिमिरे रात्रेरन्धकारं यत्र ते तथा तैः । अर भावः-अयोध्यानगरीनृपा इक्ष्वाकुवंशजाः, इक्ष्वाकुवंशश्च सूर्यतो जात इति स्वसन्ततिप्रभवा राजानोऽयोध्यानृपाः, अथ योध्यानृपभूमौ निशान्धकारं प्रसृतम् , सूर्येण चेतस्तत आकृष्यैष्वारामेषु संचारितम् , तेनान्यत्र भूमावन्धकाराभावं जातः, एतेनामी राजानः प्रीतिं गता इति । अत्रोत्प्रेक्षालङ्कारः ॥ ऋ॥ पुनः कीदृशी नगरी ? विपणिपथैः हट्टमार्गः, प्रसाधिता-अलता, कीदृशैविपणिपथैः ? गिरिशिखर गिरिशिखराणां ततिनिभाः पलि सदृशा ये शातकुम्भस्य सुवर्णस्य प्रासादाः सुवर्गखचितप्रासादा इत्यर्थः, तेषां मालाभि श्रेणिभिरध्यासितौ सहितावुभयभागौ पार्श्वद्वयं येषां ते तथा तैः । पुनः कीदृशैविपणिपथैः ? स्फुटविभाव्यमानः स्फुटं प्रकटं यथा स्यात्तथा विभाव्यमाना ज्ञायमानाः, प्रत्यक्षं दृश्यमाना इत्यर्थः, एवंविधा मरकतानां हरिद्वर्णमणिविशेष णाम् इन्द्रनीलानां "क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां ब्रजेत् । इन्द्रनीलमिति ख्यातम्" इत्युक्तानां मणिविशेषाण वज्राणां हीरकाणां वैाणां मणिविशेषाणां च राशयः पुजा यत्र ते तथा तैः । पुनः कीदृशैविपणिपथैः ? पृथुला यतैः पृथुलैविस्तृतैरायतैर्दीधैः । कैः केव ? चण्डांशुरथचक्रमार्गः चण्डांशुः सूर्यस्तस्य यो रथस्तस्य ये चक्रे तन्मार्गः चामीकराचलतटीव-चामीकराचलः सुवर्णमयो मेरुस्तस्य तटीव तटप्रदेश इव । अत्रापि निरुक्तविशेषणानि योज्यानि पूर्णोपमालङ्कारः ॥ ल॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84