Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक-व्याख्या-विवृतिविभूषिता मङ्गीकृतसतीव्रताभिरप्यसतीव्रताभिरलसाभिनितम्बमारवहने तुच्छाभिरुदरे तरलामिश्चक्षुषि कुटिलाभिर्भुवोरतृप्ताभिरङ्गशोभायामुद्धताभिस्तारुण्ये कृतकुसङ्गाभिश्चरणयोर्न स्वभावे कोपेऽ प्यदृष्टमुखविकाराभिःळलीकेऽप्यनुज्झितविनयाभिः खेदेऽप्यखण्डितोचितपतिपत्तिभिः कलहेड प्यनिष्ठुरभाषिणीभिः सकलपुरुषार्थसिद्धिभिरिव शरीरबद्धाभिः कुलप्रसूताभिरलंकृता वधूमिः। [ औ],
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या पुनः कथंभूताभिरङ्गीकृतेति, अत्र विरोधालङ्कारमाहाऽङ्गीकृतं सत्याः शीलवत्या वत याभिस्तास्तथा ताभिरेवंविधाभिरप्यसतीव्रताभिरिति विरोधस्तत्परिहारस्तु सह तीव्रया कार्कइयेन वर्तन्ते यास्ताः सतीव्रता न सतीव्रता असतीव्रतास्ताभिरसतीनताभिरित्यर्थः। पुनः कथभूताभिर्वधूभिरलसेति, नितम्बरबहनेन नितम्बप्रौढ्या आलस्यवतीभिरित्यर्थः । पुनः कथंभूताभिवधूभिस्तुच्छेति, मुष्टिग्राह्यमध्यत्वात् तुच्छोदराभिरित्यर्थः । पुनः कथंभूताभिरतृप्तेति, शरीरशोभायां तृप्तिरहिताभिः । पुनः कथंभूताभिस्ताभिरुद्धतेति, यौवनोद्धताभिरित्यर्थः । पुनः कथंभूताभिस्ताभिः कृतेति, चरणयोः पादयोः कृतः कु कुत्सितेनाऽलक्तकादिना सङ्गो याभिस्तास्तथा ताभिने तु स्वभावे, उत्तमस्वभावत्वात्तासामिति । पुनः कथंभूताभिस्ताभिः कोपेऽपीति, कोपेऽप्यविकृतमुखाभिस्तासां कोपस्य बहिरदर्शनात् । पुनः कथंभूताभियंलीकेऽपीति, व्यसनेऽप्यमुक्तविनयाभिरित्यर्थः । पुनः कथंभूताभिः खेदेऽपीति, खेदेऽपिविषादेऽप्यखण्डितोचितप्रतिपत्तिाभिस्तास्तथा ताभिः । पुनः कथंभूताभिस्ताभिः कलहेऽपीति, राट्यवसरेऽप्यकर्कश वचनवादिनीभिरित्यर्थः । पुनः कथंभूताभिस्ताभिः सकलेति, इवोत्प्रेक्ष्यते शरीरबद्धाभिमूतिमतीभिः समस्तपुरुषार्थसिद्धिभिरित्यर्थः पुनः कथंभूताभिः कुलप्रसूताभिरुत्तमकुलोत्पन्नाभिरेवंविधाभिवधूभिरलङ्कृताऽयोध्येति ॥ औ ॥
श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ पुनः कीदृशीभिवधूभिः ? अङ्गीकृतसतीव्रताभिरपि अङ्गीकृतं सतीव्रतं शीलवतो धर्मो याभिस्तास्तथा ताभिरपि, असतीव्रताभिन्न विद्यते सतीनतं यासां तास्तथा ताभिरिति विरोधः, तत्परिहारश्च न सह तीव्रतया अत्यग्रतया वर्तन्त इति तथा ताभिरिति । अत्र विरोधाभासालङ्कारः । नितम्बभरवहने नितम्बस्य " नितम्बोऽप्यपरस्तस्याः श्रोणिभागस्तथा कटिः” इत्युक्तस्य यो भरो भारस्तद्वहने, नान्यत्र गृहकार्याहौ, अलसाभिः-मन्दाभिः । एतेन नितम्बविपूलता दर्शिता, सा च नारीणां भूषणम् । पुनः कीदृशीभिः ? उदरे-कुक्षौ, न तु स्वभावादी, तुच्छाभिः-मुष्टिग्राह्यत्वादुदरस्य कृशाभिः, एतेन कृशोदरीता सूचिता, सा च भूषणम् । पुनः कीदृशीभिर्वधूभिः ? चक्षषि-नेत्रे, न तु स्वभावादी, तरलाभिः-चञ्चलाभिः, एतेन नयनचञ्चलता ज्ञापिता, सा च नारीणां भूषणम् । पुनः कीदृशीभिर्वधूभिः ? भ्रवो नेत्रोस्थरोमराज्योः, न पु स्वभावादौ, कुटिलाभिः वक्राभिः, एतेन ध्रुवोः कुटिलता ज्ञापिता, सा च भूषणम् । पुनः कीदृशीभिर्वधूभिः ? अङ्गशोभायां-शरीरशोभाकरणे, न तु भोजनादौ, अतप्ताभिः-तृप्तिरहिताभिः । एतेन वधूत्वात् शरीरशोभाकरणतत्परता सूचिता। पुनः कीदृशीभिर्वधूभिः ? तारुण्ये यौवने, न तु गुरुजनानामग्रे वर्तनविधौ, उद्धताभिः अविनीताभिः, एतेन यौवनं दर्शितम् , तच्चोतं भवति, यदुक्तं"यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता । प्रत्येकमप्यनर्थाय किमुत यत्र चतुष्टयम् ॥ इति । अत्र नितम्बवर्णनादारभ्य यौवनवर्णनपर्यन्तमार्थी परिसंख्याऽलङ्कारः । पुनः कीदृशीभिर्वधूभिः १ चरणयोः पादयोः, कृतकुसंगाभिः कृतः कोः पृथिव्याः संगो याभिस्तास्तथा ताभिः, न स्वभावे-प्रकृतौ कृतः कुसंगो दुष्टजनसम्बधो याभिस्तास्तथा ताभिः । अत्रशाब्दी अप्रश्नपूर्विका परिसंख्याऽलङ्कारः । पुनः कीदृशीभिः ? कोपेऽपि%3D क्रोधदशायामपि, अदृष्टमुखविकाराभिः-न दृष्टो मुखविकारो यासां तास्तथा ताभिः, व्यलीकेऽपि-केनापि महता अप्रिये असत्ये वा प्रोक्तेऽपि, अनुज्झितविनयाभिः=न उज्झितस्त्यक्तो विनयो याभिस्तास्तथा ताभिः, खेदऽपि-परिश्रमेऽपि शोकेऽपि वा, अखण्डितोचितप्रतिपत्तिभिः न खण्डिता उचितानां योग्यानां महतां प्रतिपत्तिः सन्कारादिगौरवं याभिस्तास्तथा ताभिः कलहेऽपि-वचनयुद्धेऽपि, अनिष्ठुरभाषिणीभिः-न निष्ठुरं कठोरं भाषन्त इत्येवंशीलाभिः, शरीरबद्धाभिः शरीरयुक्ताभिः, सकलपुरुषार्थसिद्धिभिरिव= धमार्थकाममोक्षरूपपुरुषार्थसम्पत्तिभिरिव । अत्रोत्प्रेक्षालङ्कारः ॥ औ॥
For Private And Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84