Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ टिप्पनक-व्याख्या-विवृतिविभूषिता मज्जकोशलविलासिनीनितम्बास्फालनस्फारिततरङ्गया गृहीतसरलमृणालयष्टिभिः पूर्वार्णववितीर्णैः वृद्धकन्चुकिमिरिवराजहंसैः क्षणमप्यमुक्तपार्श्वया कपिलकोपानलेन्धनीकृतसगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थितयासरिता सरय्वाख्यया कृतपर्यन्तसख्या ओ], 卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ) पुनः कथंभूताऽयोध्या कृतपर्यन्तसख्या कृतं परि समन्तादन्तेन सह सख्यं मैत्री यस्याः सा कृतपर्यन्तसख्या, कया मैत्री कृतेत्याह-सरितानद्या, कथंभूतया सरय्वाख्यया सरयूनाम्न्या, कथंभूतया सरय्वा नद्योपस्थितया, का भागीरथीं गङ्गाम् , किं कर्तुं प्रष्टुं प्रश्नयितुम् , कां कपिलेति, कपिलेन कपिलनाम्ना। देवेन कोपानले कोपाग्नाविन्धनीकृता ये सगरतनयाः सगरपुत्रास्तेषां स्वर्गवार्ता स्वर्गप्राप्तिवार्ता कथमिवेत्युत्प्रेक्षायाम् , अयोध्यापरिसरे किलैवंविधा सरयूनदी वहत इत्यर्थः । पुनः कथंभूतया सरय्या क्षणमपीति, क्षणमप्यमुक्तं पार्श्व समीपं यस्याः सा तया, कै राजहंसैः कथमिवोत्प्रेक्षते, इमे राजहंसा वृद्धाः कञ्चुकिपुरुषा एव सन्ति, कथमित्याह-कथंभूतै राजहंसैः, गृहीतसरलेति, गृहीता सरला मृणालरूपा यष्टियस्ते तथा तैः, पुनः कथंभूतया सरय्वा मजदिति, सुगममिति ॥ओ। ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? सरय्वाख्यया-सरयूनाम्न्या, सरिता-नद्या सह, कृतपर्यन्तसख्यं कृतं पर्यन्ते परिसरे सख्यं मिलनरूपा मैत्री यया सा तथा तया, अयोध्यापरिसरे सरयूनाम्नी नदी वहतीत्यर्थः । कीदृश्या सरिता ? मजकोशल०-मजन्तीनां मज्जनं कुर्वन्तीनां कोशलविलासिनीनां कोशलदेशनारीणां ये नितम्बास्तेषामास्फालनेन संघटनेनास्फालितास्ताडितास्तरङ्गाः कल्लोला यस्याः, सा तथा तया, नितम्बोऽप्यपरस्तस्याः श्रोणिभागः यडिस्तथा ।” इति शास्वतः । पुनः कीदृश्या सरिता ? राजहंसैः-हंसविशेषैः, क्षणमपि-कञ्चित्कालमपि, अमुकपार्श्वया-न मुक्तं पार्वं यस्याः सा तथा तया । कीदृशैरिव राजहंसः ? वृद्धकञ्चुकिभिरिव वृद्धा गतयौवना ये कञ्चुकिनो राज्ञा स्थापिता अन्तःपुररक्षकास्तैरिव, नद्या नारीलिङ्गत्वात् तद्रक्षाकरणाय रक्षकस्थानापन्ना राजहंसा इति भावः । कीदशै राजहंसः कीदृशेश्च कञ्चुकिभिः ? गृहीतसरलमृणालयष्टिभिः गृहीता सरला मृणालरूपा पक्षे कमलनालसदृशी यष्टियस्ते तथा तैः । पुनः कीदृशैः ? पूर्वार्णववितीर्णैः पूर्वार्णवः पूर्वसमुद्रस्तेनावितीर्णैः प्रदत्तैः, पूर्वसमुद्रेण सह सम्बन्धात्पूर्वसमुद्रादायातैरिति भावः । कञ्चकिपक्षे पूर्वः पूर्वदेशः स एवार्णवो विशालत्वात्समुद्रस्तेन प्रदत्तैः पूर्वदेशात्समायातैरित्यर्थः । पुनः कीदृश्या सरिता ? भागीरथीं गङ्गाम् , उपस्थितया-मिलितया, किमर्थम् ? प्रष्टुं-प्रश्नाय, कां प्रष्टुं ? कपिलकोपानलेन्धनी-कपिलस्य । ऋषः क्रोधाग्निना इन्धनीकृता भस्मीकृता ये सगरतनयाः सगरनुपपुत्रास्तेषां स्वर्गवाती देवलोकगमनादिसमाचारम । अत्राय जैनेतररामायणलेशः-आसीदयोध्यायां सूर्यवंशीयः सगरनामा भूपः । तस्य द्वे भार्ये केशिनी सुमतिश्च । केशिन्यामेक एव पुत्रो जातोऽसमजसनामा, सुमतौतु षष्ठिः सहस्राणि पुत्रा अभूवन् । अथ कृतनवनवतियज्ञ आरब्धशततमाश्वमेघाख्ययज्ञः सगरोऽश्वरक्षणाय निजतनयान् निरयुक्त। ततः स्वपदापहारशङ्कितेनेन्द्रेण सोऽश्वोऽपहत्य कपिलाश्रमे मुक्तः। अन्यत्राश्वमनवलोकमानाः सगरतनयाः नखाप्रैः पृथिवों विदार्य पातालस्थं कपिलाश्रम गताः तत्राश्वं मुद्रिताननं कपिलं च विलोक्य कटु क्वणन्तः कपिलकोपानले शलभायन्ते स्म। इमे च मृताः सगरतनया असमञ्जपुत्रांशुमत्पुत्र दिलीपपुत्रभगीरथानीतगंगया पावित्र्यमापाद्य दिवं गमिताः । अत्र पूर्णोपमोत्प्रेक्षारूपकातिशयोक्तीनां संकरः । ॥ ओ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84