Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
प्रतिगृहं स्वच्छधवलायताभिर्दृष्टिभिरिव दिदृक्ष। रसेन वसुधया व्यापारिताभिः क्रीडासरसीभिः संवलिता[ए],मृदुपवनचलितमृद्वीका लतावलयेषु वियति विलसतामगुरुधूपधूमयोनीनामासारवारिणेवोपसिच्यमानेष्वतिनीलसुरभिषु गृहोपवनेषु वनितासखैः विला सिभिरनुभूयमानमधुपानोत्सव [],
5 विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकम् 5 मृद्वीका - द्राक्षा | धूमयोनिः - मेघः ॥ ऐ ॥
श्रीमत्पद्मसागरविवुधरचिता व्याख्या फ
पुनरयोध्या कथंभूता संवलिता सं सम्यग् ' वलि वह्नि धारण' इति धातोवलिता व्याप्ता, काभिः क्रीडासरसीभिः केलिसरोवरैरित्यर्थः । इवोत्प्रेक्ष्यते, दृष्टिभिर्लोचनैः कथंभूताभिर्वसुधया पृथ्व्या व्यापारिताभिः, केन दिक्षारसेन द्रष्टुमिच्छा दिदृक्षा तद्रसेन, कथं प्रतिगृहं प्रतिमन्दिरमित्यर्थोऽयं भावः प्रतिमन्दिरस्थितसरसीछलेन जाने पृथ्व्या नगरदर्शनवाञ्छया दृष्टयः संचारिता इति । अथ सरसीदृष्टयोः साम्यं दर्शयति कथंभूताभिः सरसीभिर्दृष्टिभिश्च स्वच्छधवलायताभिः स्वच्छो निर्मलो धवलः श्वेत आयतो विस्तारो यासां तास्तथा ताभिरति ॥ ए ॥ पुनः कथंभूताऽयोध्या, अनुभूयमानमधुपानोत्सवाऽनुभूयमानो मधुपानस्योत्सवो यस्यां सा तथा कैर्विलासिभि भौगिभिः, कथंभूतैर्वनितासखैः, स्त्रीसहितैः केष्वतिनीलसुरभिगृहोपवनेषु गृहासन्नानि वनानि गृहोपवनानि नीलानि च सुरभीणि च तानि गृहोपवनानि च तानि तथा तेषु, नीलत्वमेवैतेषां द्रढयति, कथंभूतेषु गृहोपवनेषूपसिच्यमाने, केनाssसारवारिणा वेगवर्षिणा जलेन, कथमिवोत्प्रेक्ष्यते, वियत्याकाशे स्थितत्वेन विलसन्तो ये सितागुरुधूपाः कृष्ण गुरुधूपास्त एव धूमयोनयो मेघास्तेषामिति । " धूमज्योतिः सलिलमरुता संनिपातः क्व मेघ " इति वचनाद्भूमयोनिरिति मेघनाम संभाव्यते । अथा[न्या ] ऽर्थासंगतेरिति, अयं भावो नगरे किल दह्यमानकृष्णागुरुधूपधूमा गगनगताः सन्तो वेगवृष्टिमन्तो मेघा इव भान्ति तेनेत्थमुत्प्रेक्ष्यते, एतेषां वारिणोपसिच्यमानत्वेनैतानि वनानि नीलानि सन्तीति तात्पर्यम् । पुनरुपवनेषु कथंभूतेषु मृदुपवनेति, मृदुना पवनेन वायुना चलितानि कम्पितानि मृद्वीकालतानां द्राक्षावलीनां वलयानि येषु ते तथा तेष्विति ॥ ५ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः
पुनः कीदृशी नगरी ? क्रीडासरसीभिः = क्रीडार्थ निर्मितैस्तडागैः, संवलिता-सहिता, कुत्र ? प्रतिगृहं - गृहे गृहे । कीदृशीभिरिव क्रीडासरसीभिः ? वसुधया - पृथिव्या, दिदृक्षारसेन = अपूर्वदर्शनाभिलाषकुतूहलेन, व्यापारिताभिः=दर्शनकार्यनियोजिताभिः दृष्टिभिरिव - लोचनैरिव, कीदृशीभिः क्रीडासरसीभिः ? कीदृशीभिश्च दृष्टिभिः ? स्वच्छधवलायताभिः=स्वच्छाभिर्निमलाभिः, धवलाभिः शुभ्राभिः, आयताभिः दीर्घाभिः कर्मधारयसमासः । स्वच्छधवलेति पर्यायशब्दत्वात् पुनरुक्तवदाभासालङ्कारोऽतिशयोक्तिश्च ॥ ५ ॥
"
पुनः कीदृशी नगरी ? विलासिभिः - विलासप्रवृत्तजूनैः, अनुभूयमानमधुपानोत्सवा-अनुभूयमानः साक्षाक्रियमाणो मधुपानस्योत्सवो महो यस्यां सा तथा । " मधुश्चैत्रदैत्येषु जीवाशाकमधुकयोः । मधु क्षीरे जले मये क्षोद्रे पुष्परसेऽपि च । ” इत्यनेकार्थसंग्रहः । कीदृशैर्विलासिभिः ? वनितासखैः- वनितानां नारीणां सखायो मित्राणि वनितासखाः " राजन्सखे: [ ७.३.१०६ ] इति समासान्तो ऽह् प्रत्ययः तैस्तथा, नारीकलितैरिति भावः । कुत्रानुभूयमानमधुपानोत्सवा नगरी ? गृहोपवनेषु गृहाणामुपवनेषु कृत्रिमवनेषु । कीदृशेषु गृहोपवनेषु ! मृदुपवन०= मृदुना कोमलेन पवनेन चलितानि कम्पितानि मृदीकानां द्राक्षाणां लतावलयानि लतामण्डलानि यत्र ते तथा तेषु । पुनः कीदृशेष्विव गृहोपवनेषु ? वियति = आकाशे, विलसतां - विलासं कुर्वताम्, शोभमानानामिति भावः, अगुरुधूपधूमयोनिनाम् - अगुरुधूपस्य ये धूमास्त एवं योनिरुत्यत्तिस्थानं येषां ते तथा तेषाम्, मेघानामित्यर्थः, तेषां धूमत उत्पत्तेरङ्गीकारात्, आसारवारिणा = धारासम्पातजलेन, सिच्यमानेष्विव क्रियमाणसेचनेष्विव, उत्प्रेक्षा । अत एव arry गृहोपवनेषु ! अतिनीलसुरभिषु - अतिशयेन नीलवर्णयुतेषु सुगन्धयुतेषु च । उपवनानां नीलत्वं सुरभित्वं च स्वाभाविकं भवति तत्रेयमुत्प्रेक्षा- अस्यां नगर्यामगुरुधूपो दह्यते, तस्य धूमो नीलः सुरभिश्व भवति, एतादृशधूमाद्यो मेघो जातः सोऽपि नीलः सुरभिश्च एतादृशमेघधारा सम्पातेने मान्युपवनानि सिच्यमानानि सन्ति, अतस्तान्यपि अतिनीलसुरभीणि जातानि अत्रोत्प्रेक्षालङ्कारोऽतिशयोक्त्या संकीर्यते ॥ ऐ ॥
For Private And Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84