Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। श्रीविजयनेमिसरिग्रन्थमाला-रत्नम्-२७ ।
परमाहत-महाकवि-श्री धनपाल' विदुषा विनिर्मिता
श्रीतिलकमंजरी.
तदुपरि
विवुधशिरोमणि श्रीशान्त्याचार्यनिर्मितं टीप्पनकम् ,
श्रीपद्मसागर-विबुधरचिता व्याख्या, श्रीविजयलावण्यसूरिनिर्मिता परागामिधा विवृतिश्च ।
Feeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeg
Seeeeeeeeeeeeeeeeeecccccccccccces
प्रकाशक:
श्रीजैनग्रन्थप्रकाशकसभायाः कार्यवाहकः श्रेष्ठी
ईश्वरदास मूलचन्द्रः।
प्रथमावृत्तिः
मूल्यं दाइश आणकाः।
वीर सं. २४६७ विक्रम सं. १९९७
प्रतयः ५२५
मुद्रकः- प्रियदर्शनमुद्रणालयाधिपतिः 'शाह पुनमचंद्' वालजी -अमदावाद,
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ॐ अर्ह नमः। श्रीजिनेन्द्रशासनैकरसिक--धाराधीशासादितसरस्वतीबिरुदकवीन्द्र-विप्रामणी-परमार्हत-श्रीधनपालेन धीमता रचिता
॥ तिलकमञ्जरी॥
सवः पातु जिनः कृत्स्न-मीक्षते यः प्रतिक्षणम् । रूपैरनन्तैरेकैक--जन्तोर्व्याप्तं जगत्रयम् ॥१॥ मविपुलावृत्तम् ॥
卐 विबुधशिरोमणिधीशान्त्याचार्यविरचितं टिप्पनकम् ॥ सम्यग् नत्वा महावीरं रागादिक्षयकारणम् । उत्पन्नानन्तविज्ञानं देवपूज्यं गिरीश्वरम् ॥ १ ॥ तिलकमञ्जरीनाम्न्याः कथायाः पदपद्धतिम् । श्लेषभङ्गादिवैषम्यं विवृणोमि यथामति ॥ २ ॥
॥ श्रीमत्पद्मसागरविबुधरचिता टीका ॥ श्रेयःसिद्धमतिर्वीर-स्तन्याद्धन्यार्चितक्रमः । यदंहिपावितां पृथ्वी-मिव मूर्नाऽहिराड् दधौ ॥ १ ॥ तं प्रणम्य महावीरं, नम्राखण्डलमण्डलम् । धनपालकृताख्यान--व्याख्यानं तन्यते मनाक् ॥ २ ॥ श्रीमद्विजयसेनाख्य-सूरीणामुपदेशतः । स्तम्भतीर्थपुरे व्याख्या, कुरुते पद्मसागरः ॥ ३ ॥ श्रीतपोगच्छाधिपति-सर्वतन्त्रस्वतन्त्र-शासनसम्राट्-जगद्गुरु--श्रीविजयनेमिसूरीश्वरपट्टालंकारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालंकृतेन श्रीविजयलावण्यसूरिणा
प्रणीता परागाभिधा विवृतिः । लोकालोकावलोके विलसति विमला केवलाचिर्यदीया, देवादेवाधिदेवररचि च चरणा-र्चा च नित्यं यदीया । गावो नावो नवीना धनभवजलधेस्तारणेऽरं यदीया, आप्ताः प्राप्ताः शिवं ते जिनवरप्रवरा नो नयन्तां शमालिम् ॥१॥ स्रग्धरा ॥ लब्धानल्पार्थसार्थो मकरधिमधरीकृत्य यः सत्तयाऽऽस्ते, उद्यत्कलोलमालाऽपि जडपरिणतिर्गाहते यं च नित्यम् । सद्वंशो वारिराशौ सदमृतसरणिं संसृतौ संश्रितोऽस्तु, पोतः श्रीनाभिसूतो विलसनवसतिर्धीवराणां नराणाम् ॥ २॥ स्रग्धरा ॥
ॐ परागविवृतिमङ्गलाचरणटिप्पनिका ॥ आदिनाथपक्षे__लब्धानल्पार्थसार्थः गृहवासापेक्षया भूपालाग्रणीत्वाद् लब्धः प्राप्तोऽनल्पो विपुलोऽर्थसार्थो धनधान्याद्यर्थसंचयो येन स तथा, यद्वा गृहवासेऽपि ज्ञानत्रयकलितत्वाद् लब्धो ज्ञातोऽनल्पो विपुलोऽर्थसार्थो वाच्यनिकरो येन स तथा, यद्वा कैवल्यापेक्षया लब्धो ज्ञानदर्शनाभ्यां सम्यग ज्ञातोऽनल्पः सकलोऽर्थसार्थः पदार्थसमुदायो येन स तथा । मकरधि%3D मदनम् , अधरीकृत्य-हीनं कृत्वा, पराजित्येत्यर्थः, सत्तया-उत्तमतया, आस्ते=विराजते । उद्यत्कलोलमाला उद्यन्ती
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-टीका-विवृतिविभूषिता ॐ विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ भव्यग्रामानुशासी चरणजयकृतौ सिंहकल्पश्च शास्त्रविद्यादक्षः प्रदाता प्रतिदिनरजनि क्षेत्रभृद्राज्यभीतेः । यो नित्यं दान्तराजैविहरति च सदाचारलब्धखरूपः श्रीशान्ति तं क्षमाभृन्निकर उभयतश्चक्रिणं नन्नमीमि ॥ ३ ॥ स्रग्धरा ॥
卐 परागविवृतिमङ्गलाचरणटिप्पनिका ॥ कल्लोलस्य हर्षस्य माला पङ्क्तिर्यस्यां सा तथा, जडपरिणतिः-युगलजानाम् ऋजुजडत्वात् जडानां युगलजजनानां परिणतिर्मनोभावना । यद्वा जडानां मूर्खाणामास्तां विदुषाम् । गाहते-सेव्यतयाऽवगाहते, सद्वंशः सन् उत्तमो वंशोऽन्वयो यस्य स तथा। वारिराशौ वाशब्दः समुच्चये, अरीणां परस्परं भक्ष्यत्वादिना प्रतिपक्षभावमापनानां जीवानां राशौ निचयरूपायाम् , संसृतौ संसारे, सदमृतसरणि सद् उत्तमं यद् अमृतं मोक्षं तस्य सरणि मार्गम् , संश्रितः आश्रितः । श्रीनामिसूतः= आदिनाथः । धीवराणाम्-प्रवरमतिमताम्, नराणाम् जनानाम्, विलसनवसतिः-विलासस्थानम् , अस्तु भवतु ॥ पोतः प्रवहणं तत्पक्षे
लब्धानल्पार्थसार्थः लब्धः प्राप्त ऊढोऽनल्पो विपुलोऽर्थसार्थों धनधान्यादिसंचयो येन स तथा, मकरधिजलधिम्, अधरीकृत्य अधः कृत्वा, सत्तया स्थित्या, आस्ते विराजते । जडपरिणतिः डलयोरैक्यात् जलपरिणामरूपा, उद्यत्कल्लोलमाला-उद्यन्ती उद्यतां वा कल्लोलानां तरङ्गाणां माला पङ्क्तिः , गाहते अवगाहते । सद्वंशः सन्त उत्तमा विद्यमाना वा वंशा वेणवो यत्र स तथा । वारिराशौ-जलधौ, संसृतौ-संचरणक्रियायाम् , सदमृतसरणि सतीमुत्तमाममृतस्य जलस्य सरणिं मार्गम् , संश्रितः आश्रितः, धीवराणाम् मासिकानाम्, उपलक्षणत्वात् जलयात्रां चिकीकृणामित्यर्थः । विलसनवसतिः विलासवसतिः, अस्तु-भवतु ॥ २ ॥
उभयतः उभयस्मिन् द्विविधेऽपीत्यर्थः, क्षमाभून्निकरे क्षमाभूतो मुनयो राजानश्च तेषां निकरे समूहे, मुनिसमुदाये राजसमुदाये च । चक्रिण चक्रवर्तिनम् , तीर्थकरं चक्रवर्तिनं चेति भावः । तत्र तीर्थकरपक्षे___ भव्यग्रामानुशासी=भव्यानां मुक्तिगमनाहजीवानां यो प्रामः समुदायस्तदनुशासी तस्य धर्मोपदेशदातेत्यर्थः ।
चरणजयकृतौ चरणस्य चारित्रस्य जयः सर्वोत्कर्षभावः तत्कृतौ, सिंहकल्पः-तत्करणे सिंहसदृशः शूर इति यावत् , चारित्रग्रहणे चारित्रपालने चारित्रदाने चातीव शूर इति भावः । शास्त्रविद्यादक्षः शास्त्राणामागमानां विद्यायां दक्षो निपुणः । प्रतिदिनरजनि-सर्वदा, क्षेत्रभृद्राज्यभीतः क्षेत्रभृतां शरीरिणां या राजिः पङ्क्तिस्तस्या अभीतेरभयस्य, प्रदाता-प्रकर्षण दायकः । दान्तराजैः-दान्ता इन्द्रियदमनकारिणो मुनिजनास्तेषां ये राजानः, प्रवरमुनिजना इत्यर्थः, तैस्तथा, विहरति-महीतले विचरति; सदाचारलब्धखरूपः सदाचारेण विमलचारित्रेण लब्धं प्राप्तं खरूपमात्मीयवास्तविकरूपं येन स तथा नन्नमीमि-भृशं पुनःपुनर्वा नमामीत्यर्थः । चक्रवर्तिपक्षे
भव्यग्रामानुशासी-भव्या रमणीया ये ग्रामा उपलक्षणत्वाद् नगरजनपदादयस्तदनुशासी प्रजापतित्वेन तदनुशिप्टिकृत् , च रणजयकृतौ चशब्दः समुच्चये, रणे संग्रामे जयकृतौ विजयक्रियायाम् , सिंहकल्पः=सिंहसदृशः, अत्यन्तशूर इत्यर्थः । शास्त्रविद्यादक्षः शास्त्रविद्या नीतिशास्त्रादिज्ञानं शस्त्रसम्बन्धि ज्ञानं वा तत्र दक्षश्चतुरः । क्षेत्रमृद्राज्यभीतेःक्षेत्रमृद् यद् राज्यं तस्य भीतेर्भयस्य, प्रदाता प्रकर्षेण छिन्दानः । दान्तराजैः= दन्तिनां करिणां समूहो दान्त तस्य राजभिः, प्रवरहस्तिभिरित्यर्थः । विहरति-क्रीडति । सदा चारलब्धखरूपः सदा नित्यं चाराश्चरपुरुषास्तैलब्धमवगतं स्वरूपं स्वकीयवृत्तान्तं येन स तथा ॥३॥
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] ॐ विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ विस्फूर्जत्स्फीतवाचो नवसुरकुरुहः प्राणिनां वाञ्छितार्थदानेमीनः सदावस्थितिकृत उदरे शान्तिसिन्धोविहाय । कान्तां भौगी च राजी मदनमदजितस्तीर्थराजः प्रभास, आधिव्याधिप्रहीणं शमधि विदधतामक्षरस्थानमिज्यम् ॥ ४ ॥ स्रग्धरा ॥ जडप्रधानोऽपरभङ्गगोऽपि, सपङ्कजातः सगरान्वयोऽपि । नीचः प्रकृत्या मृततां गतोऽपि, सप्ताम्बुराशिप्रकरः पृथिव्याम् ॥ ५ ॥ उपजातिः ॥ यच्छत्रसप्तस्फटशालिनागा-धिराजदम्भात् कृतसेवनातः । महाशयत्वं च जगाम नित्यं पायादपायाजिनपः स पार्श्वः ॥६॥ उपजातिः॥ युग्मम् ॥
परागविवृतिमङ्गलाचरणटिप्पनिका ॥ नेमीनः नेमिश्चासौ इनश्च नाथश्च नेमीनः, नेमिनाथ इत्यर्थः, तीर्थराजः तीर्थराजशब्दस्य प्रथमाबहुवचनम्, तीर्थकरा इत्यर्थः। तत्र नेमिनाथपक्षे
विस्फूर्जत्स्फीतवाचः विस्फूर्जन्ती स्फीता वाचा यस्य स तथा, भागुरिमते व्यञ्जनान्तस्त्रीलिङ्गशब्दानामावन्तत्वस्वीकाराद् वाचाशब्दः। प्राणिनां वाञ्छितार्थदाः-वाञ्छितार्थदायकः, नवसुरकुरुहः-नवोऽगोचरवस्तुदातृत्वादभिनवः, सुराणां देवानां कुरुहो वृक्षः, उपमाया गम्यमानत्वात् कल्पतरुसदृश इत्यर्थः । यद्वा अनवो जीर्णो हीनप्रभावतया तुच्छः सुरकुरुहः कल्पतरुयेन स तथा । शान्तिसिन्धोः शमसागरस्य, उदरे मध्ये, सदावस्थितिकृतः सदा नित्यं वो युष्मभ्यम्, एतद् अक्षरस्थानं विदधतामित्यप्रेतनेन योज्यम् , कृता स्थितिर्येन स तथा । कृतशब्दस्य परनिपातः । कान्तां मनोज्ञां नारों वा, भौगी भोगराजपुत्रीं भोगसम्बन्धिनी वा, राजी राजीमतीनाम्नी पति वा । मदनमदजितः=जितो मदनमदो येन स तथा, जितशब्दस्य परनिपातः । तीर्थराजः तीर्थस्य राजा तीर्थराजः, तीर्थकर इत्यर्थः । प्रभासः प्रकृष्टो भासो यस्य स तथा । आधिव्याधि. प्रहीणं शमधि-शमनिधानम् , इज्यं पूज्यम् , अक्षरस्थानं मोक्षस्थानं, विदधतां-कुर्वताम्, 'दधि' इत्यस्यैकवचनम् । तीर्थकराणां पक्षेऽयं विशेषः
बहुवचनसम्पादनार्थ वाचाशब्दस्थाने वाचशब्दः, कुरुहशब्दस्थाने कुरुड्शब्दः, कृतशब्दस्थाने कर्तृक्विबन्तकृत्शब्दः, जितशब्दस्थाने कर्तृक्विबन्तजित्शब्दः, विदधताम् इति 'डुधांग्क् ' इत्यस्य बहुवचने रूपम् , तथा वान्छितार्थदानेऽमी तीर्थकराः, नोऽस्मभ्यमिति, सदाऽवस्थितिकृत इति च विश्लिष्यार्थयोजना विधेया, तथा कान्तां मनोज्ञाम् , भौगी= भोगसम्बन्धिनीम्, राजी-पङ्क्तिम् ॥४॥
___ सप्ताम्बुराशिप्रकरः=सप्तानां समुद्राणां निकरः, समुद्राणां संख्यातीतत्वेऽपि लौकिकैः सप्तानामेव द्वीपसमुद्राणामङ्गीकारात् कविजनरूढ्या सप्तग्रहणम् । जडप्रधानः मूर्खशिरोमणिः, पक्षे डलयोक्याद् जलप्रधानः । अपरभङ्गगोऽपि= अपरेण यो भङ्गो विनाशस्तद्गोऽपि,पक्षे अपराअनुत्तरा ये भङ्गास्तरङ्गास्तद्गोऽपि। सपङ्कजातः पङ्कस्य कर्दमस्य जातेन समुदायेन सहितः, पक्षे पङ्कजातैः कमलैः सहितः । सगरान्वयोऽपि गरं विषं तेन सहितोऽन्वयोऽस्य स तथा, पक्षे कविजनरूळ्या सगरजन्मा । प्रकृत्या खभावेन, मृतता=मरणभावम् , पक्षे अमृततां-पीयूषसमुदायम् । पार्श्वनाथप्रभोः शिरस उपरि नागेन्द्रेण सप्तफणामयं छत्रं धृतमिति वृत्तमाश्रित्योत्प्रेक्षते-यच्छत्रेत्यादि । नेद नागेन्द्रनिर्मितं सप्तफणामयं छत्रमपितु तद्व्याजेन सप्ताम्बुराशिप्रकरः सेवते । व्याजकृतसेवया किं फलं जातमित्याकाक्षायामाह-महाशयत्वं-महान् आशयोऽभिप्रायो यस्य तस्य भावं तथा, पक्षे महांश्चासौ आशयश्च जलस्थानं च महाशयस्तस्य भावं तथा। जगाम-प्राप्तः, अत एव महाशयसंज्ञा जातेति भावः । अपायात्-विघ्नात् ॥५-६॥
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-टीका-विवृतिविभूषिता 卐 विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ यस्माद् बोधति चेदकं कुवलयं यस्तारकाल्याऽश्चितः, सर्वाशासुखसम्पदुल्लसनकृद् नित्यं सुधामाश्रयन् । यश्चञ्चद्हरिणाङ्कितः शमनिधिः सद्वृत्तसौभाग्यभूः, वन्देऽज्ञानतमोऽपनोदनकृते वीरं तमीशं सदा ॥ ७ ॥ शार्दूलविक्रीडितम् ॥ लसन्ती या नित्यं सरससुमनोमानसमिता, जडोल्लासी पक्षैः विलसितमरुद्धिः शुचितरैः । कलवाना दीव्यद्गतिरुपनता मौक्तिकफलैः, सदा जैनी वाणी सुजयति मरालीव नितराम् ॥ ८ ॥ शिखरिणी ॥ पूज्यः श्रीयुतवृद्धिचन्द्र इह स प्रद्योतते पुण्यकच्चाकोरामदवृद्धिचन्द्र इव यश्चन्द्रश्च शान्त्याकरः । सिद्धान्तोदधिवृद्धिचन्द्र उपमा-तीतः सतां हृत्सरः-- सम्वित्कैरववृद्धिचन्द्र उदिते पापातपे वारिदः ॥ ९ ॥ शार्दूलविक्रीडितम् ॥
ॐ परागविवृतिमङ्गलाचरणटिप्पनिकाम वीरं महावीरजिनम् । तमीशं चन्द्रम् । तत्र श्रीमहावीरपक्षे-बोधति बोधं प्राप्नोति, इदमेव इदकम् । कुवलयंभूवलयम् । तारकाल्या तारकाणां संसारसागरात् तारकाणां मुनिजनानाम् आल्या पङ्क्तया । सर्वाशासुखसम्पदुलसनकृत्सर्वेषाम् आशा अभिलाषा सुखं प्रसिद्धं सम्पत् सम्पत्तिस्तेषामुल्लसनकृत् । सुधामाश्रयन्-सुधाम मोक्षरूपमुत्तम स्थानं शोभनं तेजो वा आश्रयन् । चञ्चद्धरिणाङ्कितः चञ्चन् यो हरिः सिंहस्तेनाङ्कितश्चिह्नितः, उत्तमसिंहलाञ्छन इत्यर्थः । शमनिधिः शमस्य निधानम्, सद्वृत्तसौभाग्यभूः सद् उत्तमं यद् वृत्तमाचारः सौभाग्यं च तस्य भू: स्थानम् । वन्दे= स्तौमि नमामि च । अज्ञानतमोऽपनोदनकृते अज्ञानरूपं यत्तमस्तस्यापनोदनकृते दूरीकरणाय । तमीशं तम् ईशमीश्वरम् । चन्द्रपक्षे
बोधति-विकाशं प्राप्नोति, कुवलयं चन्द्रविकाशिकमलम् , तारकाल्या ताराणां पङ्क्तया सर्वाशासु-सर्वासु दिक्षु । खसम्पदुल्लसनकृत् खस्य गगनस्य या सम्पद् ज्योत्स्नारमणीयत्वादिरूपा सम्पत्तिस्तदुल्लसनकृत् । सुधाम् अमृतम् आश्रयन् , चञ्चद्धरिणाङ्कितः चञ्चन् यो हरिणो मृगस्तेनाङ्कितः । शमनिधिः शीतलतानिधानम् । सवृत्तसौभाग्यभूः सद् उत्तम यद् वृत्तं गोलाकारस्तस्य यत् सौभाग्यं तस्य भूः स्थानम् । वन्दे शमादिगुणकलितत्वेन स्तौमि । अज्ञानतमोऽपनोदनकृते= न विद्यते ज्ञानं येन तादृशं यत् तमोऽन्धकारं तस्यापनोदनकृते दूरीकरणे, वीरं वीरताशालिनम् । तमीशंकरात्रीशं चन्द्रम् ॥७॥
मरालीव हंसीव जैनी जिनेश्वरस्य वाणी सुजयतीत्यन्धयः । तत्र वाणीपक्षे
सरससुमनोमानसमिता-सरसं प्रशमादिरसयुक्तं सुमनसां देवानां विदुषां वा यद् मानसं मनस्तद् इता प्राप्ता सती यद्वा तादृशमानसेन मिता प्रमाज्ञानविषयीकृता सती लसन्ती विलासं कुर्वाणा । शुचितरैः-विशदैः, विलसितमरुद्भिः= विलसिता मरुतो देवा यैस्तादृशैः पक्षैः नयवादैः, जडोल्लासी-जडानां मुर्खाणामपि उल्लासप्रदा । कलध्वाना=कलो मनोज्ञो ध्वानो नादो यस्याः सा तथा । दीव्यद्गतिः दीव्यन्ती गतिर्देवगत्यादिरूपा यद्वा गत्यर्थानां ज्ञानार्थत्वाद् गतिर्ज्ञानं यया सा तथा । मौक्तिकफलैः मुक्तिसम्बन्धिफलेः, उपनता सहिता । हंसीपले
सरससुमनोमानसम्-सरसं प्रशस्तजलयुक्तं सुमनसां देवानां यद् मानसं मानसाभिधसरोवरम् , तद् इता-- प्राप्ता सती बिलसन्ती-विलासं कुर्वाणा, शुचितरः-विशदैः, विलसितमरुद्भिः विलसितो मरुद् वायुयस्तैस्तथा । पक्षः= अर्थवशाद् वचनविपरिणामेन पक्षाभ्यां पतत्त्राभ्याम् ॥ जडोल्लासी डलयोरक्याद् जलोल्लासी । दीव्यद्गतिः-दीव्यन्ती गतिगमनं यस्याः सा तथा । मौक्तिकफलैः मुक्ताफलैः ॥८॥
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] म विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ सौवर्णाद्रिरिव क्षमाधरवरी मध्यस्थभावं गतो, भक्तिभ्राजितवैबुधार्चितपदः काष्टान्तप्रापिस्थितिः । जैनेन्द्रागमजातचारुविभवः कल्याणरूपश्च यो, भव्यानां स तनोतु मङ्गलततिं श्रीनेमिसूरीश्वरः ॥१०॥ शार्दूलविक्रीडितम् ।। संसारार्णवपारप्रापणविधौ पोतायमानो नृणामत्युद्भासितभिक्षुभावगरिमा विज्ञाततन्त्रावलिः । श्रीमन्नेमिगुरुः प्रभूतकरणः सोऽयं सदा सद्गुणं दद्याञ्चामृतसद्म नन्दनतरं लावण्यसन्मन्दिरम् ॥ ११ कमालङ्काररम्या रुचिरतरपदन्याससौम्या प्रसन्ना नानाश्लेषातिदक्षा स्वरमधुरतया कर्णयुग्मापहारी । विस्फूर्जत्स्फीतभावा नवरसहृदया चारुवर्णाभिरामा कान्तेवासौ नवीना भुबि जयतितरां भारती नेमिसूरेः ॥ १२ ॥ स्रग्धरा ॥
+ परागाभिधविवृतिमङ्गलाचरणटिप्पनिका ॥ सौवर्णाद्रिरिव मेरुरिव, मेरुसदृश इत्यर्थः । श्रीनेमिसूरीश्वरपक्षे-क्षमाधरवरः क्षमाधरेषु मुनिवरेषु वरः प्रधानः । मध्यस्थभावं गतः माध्यस्थ्यगुणान्वित इत्यर्थः । भक्तिभ्राजितवैवुधार्चितपदः भक्तिभ्राजितं यद् वैबुध विबुधानां विदुषां समूहस्तेनार्चिते पदे पादौ यस्य स तथा । काष्ठान्तप्रापिस्थितिः काष्टान्तप्रापिणी दिगन्तप्रापिणी स्थितिमर्यादा यस्य स तथा । जैनेन्द्रागमजातचारुविभवः जैनेन्द्रागमजातं जिनेन्द्रप्रणीतसिद्धान्तसमुदाय एव चारुविभवो मनोहरधनं यस्य स तथा, यद्वा जैनेन्द्रागमैजिनेन्द्रभाषितसिद्धान्तैर्जातश्चारोः बृहस्पतेः विभवो यस्य स तथा । कल्याणरूपः कल्याणं शुभयुक्तं रूपं यस्य स तथा । मेरुपक्षे
क्षमाधरवर:-क्षमाधरेषु गिरिषु वरः प्रधानः, मध्यस्थभावं-मध्यस्थतां गतः, जगतो मध्ये स्थित इत्यर्थः । भक्तिभ्राजितवैबुधार्चितपदः भक्त्या रचनाविशेषेण भ्राजितं राजितं यद् वैवुधं विबुधानां देवानां मण्डलं तेनार्चितानि बहुमानितानि पदानि स्थानानि यस्य स तथा । काष्ठान्तप्रापिस्थितिः काष्टान्तप्रापिणी दिगन्तप्रापिणी स्थितिरवस्थानं यस्य स तथा । जैनेन्द्रागमजातचारुविभवः-जिनानामिन्द्राणां च य आगमो जन्मोत्सवादावागमनं तेन जातश्चारुर्विभवो यस्य स तथा । कल्याणरूपः कल्याणं सुवर्ण रूपं देहो यस्य स तथा ॥१०॥
सद्गुणमित्यत्र गुणशब्दोपादानेन मुनिप्रवरस्य गुणविजयस्य, अमृतसद्म इत्यत्र अमृतशब्दोपादानेन श्रीमद्विजयामृतसूरेः, नन्दनतरमित्यत्र नन्दनशब्दोपादानेन श्रीमद्विजयनन्दनसूरेः, लावण्यसन्मन्दिरमित्यत्र लावण्यशब्दोपादानेन च श्रीमद्विजयलावण्यसूरेः, इति सहदीक्षेच्छूनामेकग्रामजन्मनां सांसारिकमित्राणां मुनीशानां नामान्यपि सूचितानि ॥११॥ ___नवीना कान्तेव नारीव नेमिसूरे रती सुजयतीत्यन्वयः तत्र भारतीपक्षे
कम्रालंकाररम्या कनैः मनोहररलकारैः शब्दभूषणैरनुप्रासादिभिः शब्दार्थभूषणैश्वोपमादिभी रम्या । रुचिरतरपदन्याससौम्या-रुचिरतराणां पदानां विभक्त्यन्तानां न्यासेन सौम्या। प्रसन्ना-प्रसादायकाव्यगुणयुक्ता । नानाश्लेषातिदक्षा नाना विविधा ये लषा शब्दालंकारविशेषास्तैरतिदक्षाऽतिशिक्षिता । स्वरमधुरतया स्वराणामकारादीनां यद्वा स्वरस्य उदात्तानुदातस्वरितरूपस्य वर्णोच्चारणप्रयत्नविशेषस्य, मधुरतया माधुर्येण, कर्णयुग्मापहारी-अणन्ताद् डीप्रत्ययः । विस्फूर्जत्स्फीतभावा-विस्फूर्जन्तः स्फीताः समृद्धा भावाः पदार्था यया सा तथा । यद्वा तादृशो भाव आशयो यस्याः सा तथा । नवरसहृदया नव नवसङ्घयका नवीना वा रसा हृदये मध्ये यस्या सा तथा । चारवर्णाभिरामा चारवो वर्णाः ककारादयस्तैरभिरामा ।
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-टीका-विवृतिविभूषिता ॐ विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ यः सर्वदारोचितचित्तवृत्तिस्तथाप्यदारोचितचित्तवृत्तिः । सिद्धेषु रागान्वितचित्तवृत्तिस्तथापि सिद्धान्तसुचित्तवृत्तिः ॥ १३ ॥ उपजातिः ॥ समाश्रितोऽधामतया सदापि श्रितः स्फुरद्धामतया तथापि । सदर्पणो दर्पणरिक्तकोऽपि स नेमिसूरियताजगल्याम् ॥ १४ ॥ युग्मम् ॥ उपेन्द्रवज्रा।। वर्णवर्गान्तवर्तिनौ निजनामावलम्बिनौ । नमौ गुणश्रियायोज्य स्पर्शभाव नयन्ति ये ॥ १५ ॥ अनुष्टुप् ॥ तेषां श्रीनेमिसूरीणां गुरूणां पादसेवया । नायान्ति किमु दक्षत्वं मादृशा जडशेखराः ॥ १६ ॥ अनुष्टुप् ॥ युग्मम् ॥ परागो न परागोऽप्य-प्यसुवर्णः सुवर्णकः । दुष्प्राप्यसदलंकार-धनपालार्थनायकः ॥ १७ ॥ अनुष्टुप् ॥
ॐ परागाभिधविवृतिमङ्गलाचरणटिप्पनिका ॥ कान्तापक्षेऽयं विशेषः
अलंकारा हारादयः, पदे पादौ, प्रसन्ना-प्रसन्नतायुक्ता, श्लेषा आलिङ्गनानि, वरो ध्वनिः, भावा हृदयगतावस्थावेदका मानसविकाराः, स्वेदकम्पादयो व्यभिचारिभावा वा, रसः शृङ्गारादिः । वर्णो गौरादिः विलेपनमङ्गरागो गीतक्रमो वा ॥१२॥
सर्वदारोचितचित्तवृत्तिः सर्वेषां दाराणां नारीजनानामुचिता चित्तवृत्तियस्य स तथा, पक्षे सर्वदा रोचिता चित्तवृतियस्य स तथा । अदारोचितचित्तवृत्तिः-न दारोचिता स्त्रीजनोचिता चित्तवृत्तियस्य स तथा। सिद्धेषु-सिद्धभगवत्सु । सिद्धान्तसुचित्तवृत्तिः सिद्धानामन्ते सुचित्तवृत्तिर्यस्य स तथा, पक्षे सिद्धान्तेषु आगमेषु चित्तवृत्तिर्यस्य स तथा ॥१३॥
___अधामतया अनगारतया साधुतयेत्यर्थः । सदर्पणः-दर्पणेनामिमानेन आदर्शेन वा सहितः, पक्षे सतां सद्वस्तूनाम् अर्पणोऽर्पणहेतुः । दर्पणरिक्तकः दर्पणेनामिमानेनादर्शन वा रिक्तको रहितः ॥१४॥
'नेमि' इत्यत्र 'न् ए म् इ' इति वर्णचतुष्टयं वर्तते तदाश्रित्य महिमागर्भिता कल्पना
वर्णवर्गान्तवर्तिनौ वर्णानां ब्राह्मणादीनां ये वर्गा विभागविशेषास्तदन्तवर्तिनी, चाण्डालाद्यस्पृश्यकोटिं गतौ, पक्षे वर्णानां कादीनां ये वर्गाः “पञ्चको वर्गः" [सिद्धहेम-१. १. १३ ] इत्युक्ताः पञ्चसंख्यापरिमाणा वर्णसमुदायाः, कवर्गचवर्गटवर्गतवर्गपवर्गरूपास्तदन्तवर्तिनौ, नकार तथदधन' इत्येवरूपे तवर्गे मकारं 'पफबभम' इत्येवंरूपे पवर्गेऽन्तवर्तिनमित्यर्थः, गुणश्रिया-गुणेन श्रिया च, पक्षे व्याकरणकारकृतगुणसंज्ञकेन एकारेण नकार लक्ष्मीवाचकेन इकारेण मकारम् , यद्वा मध्यस्थस्योभयत्र सम्बन्धादू गुणस्य गुणसंज्ञकस्य एकारस्य शोभया, आयोज्य स्पर्शभावं-स्पृश्यतां पक्षे व्याकरणकारकृतस्पर्शसंज्ञा ये नयन्ति, लोके हि वर्णवर्गान्तवर्तिनश्चण्डालादयो न गुणधीयुक्ता भवन्ति नवा स्पृश्यतां प्राप्नुवन्ति, अत्र कथमिग जातमित्याश्चर्ये सति समाधानहेतुमाह-निजनामालम्बिनौ-निजम् आत्मीयं 'नेमि' इति यन्नाम तदवलम्बिनौ यतस्ततस्तादृक् स्वरूपं जातमिति भावः । ननु लक्ष्मीवाचक ईकारो दृश्यते न तु इकार इति कामवाचकस्य इकारस्य कथं लक्ष्मीवाचकत्वमिति चेदुच्यते, ईश्च इश्च एतत्समाहारः 'इ' इति पूर्व निष्पाद्यम् , ततो द्वयोःस्थाने निष्पन्न आदेशोऽन्यतरव्यपदेशभागिति न्यायेन इकारस्यापि लक्ष्मीवाचकत्वम्, यद्वा गुणस्य श्रिया इति द्वितीयपक्ष आदरणीयः ॥१५-१६॥ - पराग:-परागाभिधा विवृतिः, मकरन्दश्च, उपलक्षणत्वान्मकरन्दसहितकुसुमादिः । तत्र विवृतिपक्षे-न परागः परागाभिधविवृतिभिन्न इति विरोधस्तदुद्धारे चाकारविश्लेषण अनपरागः-न अपगतो रागो यस्मात् स तथा, असुवर्ण:काञ्चनभिन्नोऽपि, सुवर्णकः काञ्चनमय इति विरोधस्तत्परिहारे नत्रः कुत्सार्थत्वात् कुत्सितं सुवर्ण काञ्चनं येन सोऽसुवर्णः,
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] ॐ विजयलावण्यसुरिविरचिता परागाभिधा विवृतिः॥ वैबुधागम आमोद-दायी सम्यक् प्रसाध्यते ।
लावण्येनसुरेणाथ मया मूलमधुग्रहः ॥ १८ ॥ अनुष्टुप् ॥ युग्मम् ॥ सुवर्णादपि मनोज्ञ इत्यर्थः, एवं सुष्टु वर्णो वर्णनं यत्र स तथा, दुष्प्राप्य०-दुष्प्राप्याः सदलंकारा शब्दशोभका अनुप्रासादयः शब्दार्थशोभका उपमादमो वा यत्र तादृशो यो धनपालस्य धनपालाभिधकवेः अर्थस्तिलकमञ्जरीगतोऽर्थस्तस्य नायको ज्ञापकः, वैबुधागमः वैबुधस्य पाण्डित्यस्यागमो येन स तथा, आमोददायी आमोदो हर्षस्तद्दायी, प्रसाध्यते क्रियते, लावण्येन लावण्यसूरिनाम्ना सुरेण-बुधेन, मया अस्मच्छब्दवाच्येन, मूलमधुप्रहः मूलं मूलग्रन्थो मधुमेहं स्वादुज्ञानं येन स तथा। मकरन्दपक्षे
__परागः-मकरन्दोऽपि, न परागः-न मकरन्द इति विरोधस्तत्परिहारे-अकारप्रश्लेषेण अनपरागः-न अपगतो रागो यस्य स तथा, असुवर्णोऽपि न विद्यन्ते शोभना वर्णाः शुक्लादयो यत्र तादृशोऽपि, सुवर्णकः-शोभना वर्णाः शुक्लादयो यत्र स तथा इति विरोधः, तत्परिहारे असुवर्णः कुत्सितं सुवणे काञ्चनं येन स तथा। वर्णोत्कर्षेण सुवर्णादपि मनोज्ञ इत्यर्थः । दुष्प्राप्य० दुष्प्राप्या सदलंकारा उत्तमहारादयो यत्र तादृशो यो धनपालार्थः कुबेरवैभवस्तस्य नायकः प्रापकः, कल्पवृक्षस्य कल्पितदातृत्वाद्, वैबुधागमः विबुधागमस्य देववृक्षस्य कल्पतरोरयमिति तथा, कल्पवृक्षसम्बन्धीत्यर्थः । आमोददायी आमोदः परिमलस्तदायी, प्रसाध्यते अलंक्रियते। लावण्येनसुरेण लावण्यस्य सौन्दर्यस्य इनः स्वामी यः सुरस्तेन, मया मा लक्ष्मीस्तया हेतुभूतया । आमूलमधुग्रहः-मूलपर्यन्तमभिव्याप्य मधुग्रहा मधुपा यत्र स तथा ॥१७-१८॥
॥ इति विवृतिमङ्गलाचरणटिप्पनिका ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ इह जगति सर्वेऽपि शिष्टा अभीष्टे वस्तुनि प्रवर्तमाना अभीष्टदेवतानमस्कारपूर्वकं प्रवर्तन्त इति मत्वा परमश्रावको धनपालकविः ‘स वः पातु' इत्यादिश्लोकपञ्चकेनेष्टाभिमताधिकृतदेवतानां नमस्कारान् करोति । तत्राद्येन श्लोकद्वयेन जिनस्य चतुर्विशतितीर्थकृताञ्चेष्टदेवतानमस्कारोऽपरेण चाभिमतदेवताया नामेयस्यैकेन चाधिकृतदेवताया सरस्वत्या इति । तत्र रागादिजेतृत्वादिसामान्यगुणेनेष्टदेवता गोत्रपारम्पर्यविघ्नविनाशकत्वादिगुणं चाश्रित्याभिमतदेवता शास्त्रकरणे च प्रवर्तमानस्य विशिष्टवागर्थप्रापकत्वेनाधिकृतत्वाद् अधिकृता देवता सरस्वती । तत्र तावद् आद्यं श्लोकद्वयं व्याख्यायते-स जिनो रागादिजेता देवः, पातु रक्षतु, वो युष्मान् , य ईक्षते [ पश्यति ] सामान्यरूपतया च जानाति, दर्शनज्ञानार्थत्वा. दीक्षतेः । किं तत् ? जगत्त्रयं भुवनत्रयमधोमध्योवलक्षणम् , चतुर्दशरज्ज्वात्मकं लोकमित्यर्थः, एतच्चोपलक्षणम् , तथाऽलोकमपि धर्मादिपदार्थशून्यमनन्तं पश्यति जानाति च । कीदृशं जगत्त्रयम् ? व्याप्तं युक्तम् । कैः ? रूपैः शरीरैः । कियद्भिः ? अनन्तैः, अनादित्वेन न पुनः पर्यवसानैः [अपर्यवसानैः-अपर्यवसानत्वेन ] मुक्तानां शरीर• पर्यवसानां नन्तरत्वादसम्भवात् ? [ मुक्तानां शरीरपर्यवसानेनानन्तत्वासम्भवात् ] । कस्य रूपैः ? एकैकजन्तोरेकस्यैकस्य जीवस्य, अनादित्वं रूपाणामनादौ संसारेऽनन्तशो जन्ममरणप्राप्तेः । पुनः कीदृशम् ? कृत्स्नं परिपूर्ण समग्रं नैकदेशम् । कथमीक्षते ? प्रतिक्षणं निरन्तरं न पुनरन्तरमस्तीति ॥१॥
ॐ श्रीपनसागरविबुधरचिता टीका तत्र तावदशेषप्रत्यूहव्यूहोपशमनसमर्थाव्यर्थावितथार्थसर्वथामाङ्गल्यसूचाचतुरैरतिगहनगम्भीरोदारशब्दैराद्यपद्यावतारमारचयति-स व इति । व्याख्या०-स जिनो वः पात्विति तावदन्वयः । जिनस्तु रागादिसकलाभ्यन्तरारातिजेतृत्वाद्वीतरागापरपर्यायोऽर्हन्नेवाऽवगन्तव्यस्तदितरेषां हरिहरादिदेवानां रागादिविलसितानेकलक्षणदर्शनेन रागादिजेतृत्वाभावात् । ननु तग्छब्दस्य यच्छब्दसापेक्ष्यत्वेन स को जिन इत्यत आह-ईक्षते य इति, योऽर्हन् जगत्त्रयमीक्षते पश्यतीति सटङ्कः । ईक्षत इत्यत्र भूतस्य भविष्यतो वाऽर्हतो ग्रन्थकर्तृसाक्षाबुद्धिस्थत्वेन वार्तमानिकनिर्देश इति । मा भूदस्मदावेरिवाऽ
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक-टीका-विवृतिविभूषिता
ॐ श्रीपद्मसागरविबुधरचिता टीका हतोऽपि देशेन जगत्त्रयज्ञानमित्याह-कथम्भूतं जगत्त्रयं ? कृत्स्नं समस्तं तत्तद्भूतभाविभवद्विचित्रपरिणामापनमित्यर्थः । अथ जगत्त्रयस्वरूपसूचनायाऽऽह-कथम्भूतं जगत्त्रयं ? व्याप्तं, कैः ? रूपैः स्वरूपैः पर्यायरित्यर्थः । ननु पर्यायापरपर्यायाणां रूपाणां द्रव्यनिष्ठत्वेन किं तद्रव्यं ? यस्य रूपैर्व्याप्तं जगत्त्रयं विवक्षितमित्याह-कस्य ? एकैकजन्तोः-एकस्यैकस्याऽऽस्मन इत्यर्थः । एकैकेति पदद्वयमात्माऽद्वैतवादनिरसनाय सार्थकमिति । भावार्थस्त्वयं, जगत्त्रयेऽपि तत्स्थानं नाऽस्ति यत्र किलैकस्यैकस्याऽऽमनो देवत्वमनुष्यत्वनारकत्वतियत्वाद्यनन्तै रूपैरुत्पत्तिस्थितिच्युतयो न संभवेयुः । सर्वत्राऽपि ह्यनन्तैर्देवत्वादिरूपैरुत्पन्नः स्थितो मृतोऽपि वाऽऽत्मेति सिद्धमेकैकजन्तोरनन्तै रूपैर्व्याप्तं जगत्त्रयमिति । ननु यथैकैकस्याऽऽत्मनोऽनन्तरूपव्याप्तं जगत्त्रयं तथाऽपरद्रव्यपञ्चकस्याऽप्यनन्तरूपैर्व्याप्तमेवाऽस्ति, तत्कथं न द्रव्यपञ्चकानन्तपर्यायव्याप्तत्वं जगत्रयस्य निर्दिष्टमिति चेत् ? सत्यं । आत्मपर्यायाणामुपलक्षणत्वेनाऽपरद्रव्यपञ्चकपर्यायैस्तथाविधैरेव व्याप्तमेव जगत्त्रयमितिविवक्षितं बोध्य, तथा च कास्न्येन जगत्रयज्ञानं जिनस्यैवेति तात्पर्यम् । ननु जिनस्यैतज्ज्ञानं साद्यन्तत्वेन कदाचिद् भविष्यति कदाचिन्नत्याशङ्कयाऽऽह-कथं ? प्रतिक्षणं क्षणं क्षणं प्रति प्रतिक्षणं प्रतिसमयमित्यर्थः । ज्ञानोत्पत्तिक्षणादेवाऽऽरभ्य क्षणं क्षणं प्रति तथाविध जगत्रयमीक्षते यो जिन इति । एतेन जिनज्ञानस्य साद्यनन्तत्वं सूचितमिति प्रथमवृत्तार्थः ॥१॥
विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ इह हि विश्वविश्वविश्वसितविश्ववस्तुविस्तारविश्वसितसकलकालालोलनिरवशेषविशेषविविक्तविवेचनविदुरैर्दूरदर्शिभिदुरितदूरीकरणाय प्रारिप्सितप्रबन्धसमाप्तिप्राप्तिप्रतिपत्तये च प्रतिपादित मङ्गलमवगालिताखिलविघ्नविधायिकं शास्त्रशिशिक्षिषुशिष्यशिक्षेक्षणार्थ प्रबन्धबन्धनबद्धं नाकिनरेननमस्यनीरागेननमस्काराकारं करोति कुलीनकविकुलांलकारो धनपालाभिधो धीरः ॥
सवः पातु इत्यादि । य एकैकजन्तोरनन्तै रूपैयाप्तं कृत्स्नं जगत्त्रयं प्रतिक्षणमीक्षते स जिनो कः पातु इत्यन्वयः । या तत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मविशिष्टोऽनिर्धारितनामा कश्चित् । एकैकजन्तोः प्रत्येकं प्राणिनः । अनन्तैः अनन्तसंख्यकैः, यद्यपि तथाविधस्वाभाव्यात् सामग्रीसद्भावेऽपि मोक्षानर्हाणामभव्यानां भव्यानां च मोक्षार्हत्वेऽपि सामग्रीवैकल्याद् मोक्षगमनाभावेन तद्रूपेषु अनन्तत्वमपर्यवसानत्वं सम्भवति तथापि मुक्तात्मनां शरीरावसानेन तद्रूपेष्वनन्तत्वं न सम्भवतीति प्रस्तुतेऽनन्तत्वमनादितया विज्ञेयम् । यद्वा अनन्तसंख्या जिनागमोदिता पारिभाषिकी ग्राह्या । रूपैः यद्यपि रूपशब्द आकारेऽवयवरचनाविशेषे वर्तते तथाऽप्याकाराकारवतोरमेदात् शरीरैः, यद्वा रूपैर्नाटकादिभिः, अनादौ संसारेऽनन्तशो जन्ममरणावाप्तेः प्रत्येकं प्राणिना यानि यानि शरीराणि गृहीतोज्झितानि गृहीतव्यानि वा, यद्वा विविधकर्मविपाकवशात् तत्तजन्मावस्थाद्यपेक्षया यानि यानि नाटकादीनि विहितानि विधातव्यानि वा. तैरितिभावः । “ग्रन्थावृत्तौ पशौ शब्दे, नाटकादिस्वभाक्योः । रूपमाकारसौन्दर्ये, नाणकश्लोकयोरपि ॥ १॥" इति शास्वतः । व्याप्तम् =परम्परया परितः परिकलितम् । कृत्स्नम् समग्रं नत्वेकदेशमेव । जगत्त्रयम् स्वर्गमृत्युपातालरूपं त्रिभुवनम् , यद्वा जैनरीत्या ऊर्ध्वाधस्तिर्यग्लोकरूपं लोकमुपलक्षणत्वादलोकं च। प्रतिक्षणं क्षणे क्षणे नत्वन्तरं कृत्वा, क्षणश्च सर्वज्ञप्रज्ञयाप्यविभाज्यः कालस्य सूक्ष्मतमभागः । ईक्षते-सामान्यरूपेण पश्यति विशेषरूपेण च जानातीत्यर्थः । एतादृशेक्षणस्य सर्वज्ञत्वाविनामावित्वात् सर्वज्ञत्वमावेदितम् । सर्वज्ञताविसंवादिन उच्छालास्तु "सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादि-रिति सर्वज्ञसंस्थितिः ॥१॥ इत्याद्याप्तवचनैः शिक्षणीयाः । यत्तदोनित्यसम्बन्धादाह-स इति। सः यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मविशिष्टः । जिनः रागादिदुर्वारवैरिविजेता वीतरागो देवः । ननु सर्वसत्त्वानां संसक्तिसंगोपगमात् कथं स सङ्गतिमङ्गति ? इति चेच्शृणु “दृष्टो रागाद्यसद्भावः क्वचिदर्थे यथात्मनः । तथा सर्वत्र कस्यापि तद्भावे नास्ति बाधकम् ॥१॥"। वदेद्वा वावदूको विद्यतां वीतरागः, अपि कथं स विद्यताम् ? इति चेदवधारय “रागोऽशनासंगमनानुमेयो
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ द्वेषो द्विषद्दारुणहेतुगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवस्य स चैवमर्हन् ॥ १ ॥”। वः-युष्मान् । पातु-रक्षतु । नन्वस्ति चेन्नीरागता तर्हि नैनं नेतुं शक्यते रक्षणकर्तृता रागरञ्जनतापत्तेरिति चेन्न भगवान् स्वयं नीरागोऽपि तथाविधस्वभावादेव चिन्तामण्यादिरिवोपासकजनानां रक्षणादिकं विधत्ते ।
अथ श्रीसिद्धहेमशब्दानुशासनानुसारेण शब्दसाधनिका_ 'यजी देवपूजासंगतिकरणदानेषु' इत्यतः “तनित्यजियजि०" [उणा०८९५] इति उत्प्रत्यये उकारस्येत्त्वाद् "डित्यन्त्य." [२, १, १४] इत्यन्त्यस्वरादेलुकि 'यद्' इति ततः “नाम्नः०" [२, २, ३१] इतिप्रथमैकवचनसिप्रत्यये “आढेरः" [२, १, ४१] इति दकारस्याकारे “लुगस्या०" [२, १, ११३] इति पूर्वाकारस्य लोपे 'य' इतिजाते, सिप्रत्यये इकारेत्त्वादवशिष्टस्य सकारस्य “सो रुः" [२, १, ७२] इति रुः, तत्रोकारस्येत्त्वादवशिष्टस्य रकारस्य "रः पदान्ते." [१, ३, ५३] इति विसर्गे यः, 'इंण्क् गतौ' इत्यतः “ भीणशलि." [उणा० २१] इति कप्रत्यये “नामिनो गु०" [४, ३, १] इति गुणे 'एक' इति, ततो वीप्सायां “वीप्सायाम् ” [७, ४, ८०] इति द्विर्भावे “एदौत्" [१, २, १२] इति संधौ च 'एकैक' इति, न तु एकश्च एकश्चेति वृत्तिरनभिधानात् तादृशार्थाविवक्षणाद् एकशेषप्रसक्तेश्च । 'जनैचि प्रादुर्भावे' इत्यतः “कृसि." [उणा० ७७३ ] इति तुप्रत्यये 'जन्तु' इति, एकैकश्चासौ जन्तुश्चेति “पूर्वकालैक." [३, १, ९० ] इति समासे “एकैकजन्तु” इति, ततः “शेषे" [२, २, ८१] इति षष्ठयेकवचनस्प्रत्यये “ङित्यदिति" [१, ४, २३] इत्युकारस्थाने ओकारे "एदोद्भ्यां०" [ १, ४, ३५ ] इति उसः स्थाने रकारादेशे, तस्य च विसर्गे एकैकजन्तोः । 'अम शब्दभक्त्योः ' इत्यतः ‘अम गतौ' इत्यतो वा “दम्यमि." [उणा० २००] इति तप्रत्यये "म्नां." [१, ३, ३९] इति मकारस्य नकारे 'अन्त' इति, ततो न विद्यतेऽन्तो येषां तानीति " उष्ट्रमुखादयः [ ३, १, २३ ] इतिसमासे 'अनन्त' इति, ततः, “हेतुकर्तृ." [२, २, ४४] इति तृतीयाबहुवचनस्य भिसप्रत्ययः, तस्य “मिस ऐम्" [१, २, ४] इत्यैस्-आदेशे विसर्गे सन्धौ च अनन्तैः । 'रूपण रूपक्रियायाम्' इत्यतः “अच्" [५, १, ४९] इत्यच्प्रत्यये चकारस्येत्त्वाद् 'रूप' इति जातम् , ततः प्राग्वत्तृतीयाबहुवचने रूपैः। व्यापूर्वात् 'आप्लंट व्याप्ती' इत्यतः “क्तक्तवतू" [५, १, १७४ ] इति क्ते प्रत्यये ककारस्येत्त्वात् ‘व्याप्त' इति, ततः “कर्मणि" [२, २, ४० ] इति द्वितीयैकवचनस्याम्प्रत्यये “समाना०" [१, ४, ४६ ] इतिपूर्वाकारस्य लोपे च व्याप्तम् । “कृतैप संवेष्टने' इत्यतः कृत्यते त्यज्यतेऽनेनेति “ कृत्यशोभ्यां स्नक्” [ उणादि-२९४ ] इति स्नक्प्रत्यये ककारस्य चेत्त्वात् ‘कृत्स्न' इति, ततः प्राग्वद् द्वितीयैकवचनाम्प्रत्यये कृत्स्नम् । 'गम्लं गतौ' इत्यतः “दिद्युट० " [५, २, ८२ ] इति विष्प्रत्यये 'जगत् ' इति 'उभत् पूरणे' इत्यतः “उभेत्रौ च" [ उणा० ६१५] इति सूत्रेणेप्रत्यये त्रादेशे च 'त्रि' इति । त्रयोऽवयवा यस्येति “ द्वित्रिभ्यां०" [७, १, १५२ ] इत्ययट्प्रत्यये “ अवर्णे. " [७, ४, ६८ ] इतीकारलोपे टकारस्येत्त्वात् 'त्रय' इति, जगतां त्रयमिति “षष्ठययत्ना०" [३, १, ७६ ] इति समासे 'जगत्त्रय' इति ततः प्राग्वद् द्वितीयकवचने जगत्त्रयम् । 'प्रथिष् प्रख्याने' इत्यतः “प्रथतेर्लक् च" [ उणा. ६४७ ] इति तिप्रत्यये थलोपे च ‘प्रति' इति, “क्षणू क्षिणूयी हिंसायाम् ' इत्यतः “ अच्" [ ५, १, ४९] इत्यच्प्रत्यये चकारस्येत्त्वात् 'क्षण' इति क्षणं क्षणं प्रतीति “ योग्यतावीप्सार्थानतिवृत्तिसादृश्ये" [३, १, ४० ] इत्यव्ययीभावसमासे 'प्रतिक्षण' इति, ततः “ कालाध्वनोप्प्तौ " [२, २, ४२ ] इतिद्वितीयैकवचनस्य “ अमव्ययीभावस्या." [३, ३, २,] इत्यमादेशे पूर्वाकारलोपे च प्रतिक्षणम् । ईक्षि दर्शने च' इत्यतः “ सति" [५, २, १९] इति वर्तमानासंज्ञकप्रत्ययाष्टादशकप्रसङ्गेऽपि “ इङितः०" [३, ३, २२ ] इत्यात्मनेपदसंज्ञकवर्तमानाप्रत्ययनवकप्रसङ्गस्तत्रापि " त्रीणि." [३, ३, १७] इति प्रथमत्रिकप्रसङ्गेऽपि “एकद्वि०" [३, ३, १८] इति प्रथमस्तेप्रत्ययो भवति,
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
[ टिप्पनक - व्याख्या- विवृतिविभूषिता
प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः ।
ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः ॥ २॥ [मविपुलावृत्तम् ] ॥
5 विबुधशिरोमणि श्री शान्त्याचार्यविरचितं टिप्पनकम् फ
ददतां ददातु दद दानेऽस्य पञ्चम्यात्मनेपदैकवचने तामि रूपम्, को ? जिनो वचनपरिणामेन सम्बन्धः । कीदृशो ? निर्वृतात्मा मुक्तस्वरूपो रागादिरहित इत्यर्थः । पुनः किनामा ? आद्य ऋषभनाथः । कां ददतां ? मुदं धर्मादिप्रकाशत्वेन हर्षम् । केषां ? नोऽस्माकम्, न केवलमायो जिनोऽन्येऽपि जिना ददतां प्रयच्छन्तु, डुदाञ् दानेऽस्य पञ्चमीपरस्मैपदबहुवचने अन्तामि रूपम् । तेऽपि कीदृशा ? निर्वृत्तात्मानो मुक्तस्वरूपाः । कां ? मुदम् । केषां ? वो युष्माकम् । किंभूत आद्यः ? किभूताश्वान्ये जिना अजितादिवर्द्धमानान्ताः ? प्राज्यप्रभावः प्रचुरानुभावः प्राज्यप्रभाः प्रचुरतेजसस्तथा । प्रभवो जनकः । कस्य ? धर्मस्याहिंसादिलक्षणस्य प्रभवः स्वामिनस्तथा । अस्तरजस्तमा अस्ते क्षिप्ते अपनीते रजस्तमसी बध्यमानबद्धे बद्धनिकाचिते वा कम्र्मणी येन स तथोक्तोऽस्तरजस्तमा अस्तं रजः पापं यैस्ते तथोक्ता अतिशयेनास्तरजसोऽस्तरजस्तमाः प्रकर्षे तमादित्वात्तमप्रत्ययः । इत्येकवचनबहुवचन श्लेषः ॥ २ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
ततः 'ईक्ष् + ते ' इति जाते " कर्तर्य • " [ ३, ४, ७१] इति शबि, शवयोरित्त्वा दवशिष्टाकारमीलने च ईक्षते 'तनूयी विस्तारे' इत्यतः “ तनित्यजियजि० " [ उणा० ८९५] इति उत्प्रत्यये डकारस्येत्त्वाद् “ डित्यन्त्य० " [२, १, ११४] इत्यन्त्यस्वरादेर्लुकि ' तद्' इति, ततः प्रथमैकवचनसिप्रत्यये “आद्वेरः ' [२, १, ४१ ] इति दकारस्याकारे " लुग० " [२, १, १३३] इति पूर्वाकारस्य लोपे, “ एतदव० [१, ३, ४६ ] इति सिप्रत्ययलोपे चस ।' जिं ज्रि अभिभवे' इत्यतो जयति रागादीनमिभवतीति " जीणूशी ० " [ उणा० २६१ ] इति नप्रत्यये 'जिन' इति, ततः प्रथमैकवचनसिप्रत्यये प्राग्वत् विसर्गतामापने जिनः । 'युषः सौत्रः सेवायाम्' इत्यतः “युष्यसिभ्यां क्मद् [ उणा० ८९९ ] इति मत्प्रत्यये ककारस्येत्त्वात् 'युष्मद्' इति, ततः " कर्मणि " [२, २, ४० ] इति द्वितीयाबहुवच• नस्य शस् प्रत्ययः, ततः पदाद्० [ २, १, २१ ] इत्युभयस्थाने वस्आदेशे सकारस्य प्राग्वत् विसर्गे च वः । 'पांकू रक्षणे ' इत्यतः ' विधिनिमन्त्रणा ० " [ ५, ४, २८ ] इति तुप्रत्ययः, वकारस्येत्त्वात् पातु । इत्येवमग्रेऽपि प्रतिपदं
""
66
८८
शब्दसाधनिकाऽवसेया ग्रन्थगौरवभयादत्र न वक्ष्यते ।
र य
"
इदं मविपुलाख्यं विषमवृत्तम्, तल्लक्षणन्तु " तुर्यान्नतभ्रम्सास्तद्विपुला ” [ इतिच्छन्दोऽनुशासने ] तदर्थस्तु'ओजे विपरीतादिः' इत्यत ओज इत्यनुवर्तते । ओजयोः पादयोस्तुर्यादक्षरात् परं यगणं 'अनुष्टुभ नाद्यात् स्नौ तुर्याद्यो वक्त्रम्' इत्यत्रोक्तं बाधित्वा नतभरमसाश्चेद् भवन्ति तदा तद्विपुला, युजोः षड्भ्यो ल इति तु स्थितमेव । ओज इत्यत्र जातिपक्षी व्यक्तिपक्षश्च तत्र व्यक्तिपक्षे मविपुलोदाहरणमिदम् —
भ ज ल
य
र
Adm
144
अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ १ ॥ मविपुला | प्रस्तुते च
य ज ल
Acharya Shri Kailassagarsuri Gyanmandir
म
र म
ज
त
म --
1
स वः पातु जिनः कृत्स्न--मीक्षते यः प्रतिक्षणम् । रूपैरनन्तेरेकैक - जन्तोर्व्याप्तं जगत्त्रयम् ॥ १ ॥ मविपुला |
For Private And Personal Use Only
ल
ज ल 1
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
5 श्रीपद्मसागरविवुधरचिता व्याख्या 5
अथ भूतभविष्यदिहत्याऽपरक्षेत्त्रीयानन्तजिनसाधारणस्तवनं विधायाऽस्यामवसर्पिण्यां प्रथमोपकारित्वेन सर्वसम्मतस्याऽऽदिनाथस्याऽपरेषामप्यजितादिजिनानामाराध्यत्वाविशेषादन्यजिनपदगृहीतानामेकवचनबहुवचनसाम्यव्युत्पत्त्या स्तुतिमाधातुमाह–प्राज्यप्रभा इति । व्याख्या० नोऽस्माकमाद्यो जिनः प्रथमतीर्थकृद् ऋषभनामा मुदं हर्षं ददतामिति पञ्चम्यात्मनेपदैकवचनान्तत्वेन ददात्वित्यर्थः । अथाऽस्य जिनस्य निष्प्रभावत्वेन कथं कविमार्गितहर्षदायित्वं स्यादित्याशङ्कामपाकर्तुमाह–कथंभूतोऽयं जिनः, प्राज्यप्रभावः प्राज्यः प्रभूतः प्रभावी माहात्म्यं यस्य स तथेति । अथाऽस्य व्याघ्रादेरिव प्राज्यप्रभावत्वेऽपि धर्मजनकत्वं न भविष्यतीत्याशङ्कायामाह -कथभूतोऽयं जिनो धर्मस्य प्रभवः प्रकर्षेण प्रथमतीर्थप्रवर्तकत्वाद्भव उत्पत्तिर्यस्मात्स तथेति । अथ धर्मोत्पादकत्वेऽपि शम्भोरिवाऽस्य रजस्तमोमयत्वं भविष्यतीति शङ्कामपाकर्तुमाह, अस्तरजस्तमा इति, रजस्तमसी तावद् गुणौ तौ च तत्तत्फलजनकत्वेन परमरागद्वेषवतः शम्भोरेव भवतो न तु वीतरागस्याऽस्य जिनस्य तत्फलजनकत्वाभावात्तेन अस्ते क्षयं प्रापिते रजस्तमसी येन स तथेति । यद्वा रजः पापं तदेव तमोऽन्धकारमस्तं रजस्तमो येन स तथेति । अथैवंविधोऽप्यसौ भवावस्थ एवं भविष्यतीत्याशङ्कां निरस्यन्नाह-कथंभूतोऽयं जिनो निर्वृतात्मा, निर्वृतो निर्वाणं प्राप्त आत्मा यस्य स तथेति, एतेनाऽस्य परमेश्वरस्याऽप्यवस्थाद्वयं सूचितं भवति, तथाहि - भवावस्था मुक्तावस्था च भवावस्थाऽपि द्विधा, गार्हस्थ्यावस्था दीक्षावस्था च, दीक्षावस्थाऽपि द्विधा छाद्मस्थ्यावस्था कैवल्यावस्था च, तत्र कैवल्यावस्थायां समुत्पन्नपरमज्ञानस्याऽपि समूलघातिकर्मक्षयेऽप्यवशिष्टकर्मसद्भावान्न निर्वृतात्मत्वं तेषामपि क्षये च निरृतात्मत्वं भगवतः सिद्धमिति । अथ बहुवचनान्तविशेषणविशेष्यक्रियाभिरेतस्यैव काव्यस्य प्रथमं स्तुतप्रथमजिनादपर जिनस्तवन सूचनचतुरो द्वितीयार्थ उपदर्श्यते, अन्येऽप्यजितादयो जिना वो युष्माकं मुदं ददतामिति पञ्चम्यात्मनेपदबहुवचनान्तप्रयोगाद्ददत्वित्यर्थः । किंविशिष्टास्ते जिनाः प्राज्यप्रभाः प्राज्या प्रभा कान्तिर्येषां ते तथा । अथाऽऽदर्शादीनामपि प्राज्यैव प्रभाऽस्ति तेनैतेषां किमाधिक्यमायातमित्याशङ्कयाह--कथंभूता जिनाः प्रभवः स्वामिनो योगक्षेमकारित्वान्नाथा इति यावत् । कस्य ? धर्मस्य पुण्यस्य, अथ द्वितीयविशेषणेन प्रथमविशेषणस्य दाढर्यं दर्शयति, यत एवैते धर्मस्य प्रभवः, तत एवैते कथंभूता अस्तरजस्तमा अतिशयेन रजो रजस्तमं घनं पापमित्यर्थः, तमप्रत्ययविधानादस्तं रजस्तमं यैस्ते तथेति । पुनः कथंभूतास्ते निर्वृतात्मानो निरृतः सिद्ध आत्मा येषां ते निर्वृतात्मान इति द्वितीयकाव्यस्याऽर्थद्वयम् ॥ २ ॥
For Private And Personal Use Only
११
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
अथैकवचनबहुवचन श्लेषेण चतुर्विंशतेजिनानां नमस्कारमाह-' प्राज्यप्रभावः' इत्यादि । प्राज्यप्रभावो धर्मस्य प्रभवोऽस्तरजस्तमा निरृतात्मा आयो जिना [जिनः ] नो मुदं ददतामित्याद्यजिनपक्षेऽन्वयः, अन्यजिनपक्षे तु प्राज्यप्रभा धर्मस्य प्रभवोऽस्तरजस्तमा निर्वृतात्मनोऽन्येऽपि जिना वो मुदं ददतामित्यन्वयः । तत्राद्यजिनपक्षे प्राज्यप्रभावः = प्राज्यः प्रचुरः प्रभावस्तेजः शक्तिर्वा यस्य स तथा “ प्रभावस्तेजसि शक्तौ " इत्यनेकार्थसंग्रहः । धर्मस्य - अहिंसादिलक्षणस्य । प्रभवः कारणम्, उपदेशादिना जनक इत्यर्थः । " प्रभवो जन्मकारणे " इत्यनेकार्थसंग्रहः । अस्तरजस्तमाः =अस्ते नाशं गते रजस्तमसी रजोगुणतमोगुणौ यस्य स तथा सत्त्वगुणावर्जनात् सत्त्वगुणान्वित इत्यर्थः । एतेन परमात्मनि ये निर्गुणत्वं स्वीकुर्वन्ति तन्मतमपास्तम् । सत्त्वादिगुणलक्षणं चेदम्-" सत्त्वं लघु प्रकाशक मिष्टमुपटम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवञ्चार्थतो वृत्तिः ॥१॥ इति सांख्यतत्त्वकौमुदी । यद्वा अस्ते क्षिप्तेऽपनीते रजस्तमसी रजस्तमस्सदृशे बध्यमानबद्धे बद्धनिकाचिते वा कर्मणी येन स तथा । निर्वृतात्मा निरृतः शिवंगत आत्मा यस्य स तथा । “अथ निर्ऋतिः । मोक्षे मृत्यौ सुखे सौस्थे......।" इत्यनेकार्थसंग्रहः । आद्यः प्रथमः । जिनाः- अर्थवशाद् वचनविपरिणामेन जिन इतिसंस्कारः । तदर्थस्तु रागादिजेता देवः, ऋषभदेवनामा
""
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
[टिप्पनक-व्याख्या-विवृतिविभूषिता दिशतु विरतिलाभानन्तरं पार्श्वसर्प-नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीः। त्रिजगदपगतापत् कर्तुमात्तान्यरूप-द्वय इव भगवान् वः सम्पदं नाभिसूनुः ॥३॥ [मालिनी]॥
+ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ ___ तथाऽपरस्य श्लोकद्वयस्य कियत्पदव्याख्या क्रियते-विरतिलाभः सर्वसावद्ययोगनिवृत्तिप्राप्तिः । पार्श्वसर्पन्नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीः पार्श्वयोरुभयपक्षयोः सर्पन्तौ चलन्तौ नमिविनम्यो राजपुत्रयोः कृपाणौ खड्गौ तयोरुत्संगे मध्ये दृश्ये दर्शनयोग्ये अङ्गलक्ष्म्यौ शरीरशोभे मूर्तिलक्षणे यस्य स तथोक्तोऽत्र च बहुव्रीही समासे नदीलक्षणः को न भवति, तत्रैकवचनान्तस्यैव लक्ष्मीशब्दस्य कविधानाद् । एतेन भगवतो रूपत्रयं जातमिति दर्शितम् , एतदुत्प्रेक्षते कविः-आत्तान्यरूपद्वय इव गृहीतापरमूर्तिद्वितय इव, किं कर्तुं ? त्रिजगत्रिभुवनमपगतापन्निवृत्तविपत्तिकं कर्तुम् , तच्च शरीरत्रयेण सुखेनैवापायरहितं क्रियते रक्षणात् [स्वपदं ] स्वं पदमात्मीयं स्थानं मुक्त्तिमित्यर्थः, संपदं स्वर्गापवर्गसमृद्धिम् ॥ ३ ॥
9 श्रीपद्मसागरविबुधरचिता व्याख्या ॥ अथ सकलजिनानां प्राथम्याद्बहुजनसंमतदेवत्वाच्च सकलाभीष्टार्थसाधनसमर्थत्वेन पुनरादीश्वरं स्तौति दिशत्विति । व्याख्या. वो युष्माकं नाभिसूनुर्वृषभो भगवान् सम्पदं दिशत्विति तावदन्वयः । अथैतस्य भगवतः सम्पदानमापनिराकरणसमर्थत्वे सति संभवतीति विशेषणद्वारैतद्दर्शयति कथंभूतो भगवान् , आत्तान्यरूपद्वय आत्तं गृहीतमधिकारादर्थ इति न्यायाद्धात्वर्थानामनेकत्वाच्च स्वमूर्त्यपेक्षयाऽन्यद्रूपद्वयं येन स तथेति, इवोत्प्रेक्षायाम् , त्रिरूपधारी बभूवेति तात्पर्यम् । ननु भगवतः स्वमूर्त्यपेक्षयाऽपररूपद्वयकरणे किमिति प्रयोजनमित्याशङ्कयाऽऽह किं कर्तुं विधातुं, किं त्रिजगत् त्रयाणां जगतां समाहारत्रिजगत्, कथंभूतमपगतापत् अपगताऽऽपदापत्तिर्यस्य तत्तथेति, विपद्वन्ध्यं त्रिजगत् कर्तुमित्यर्थः । एकेनैकेन रूपेणैकस्यैकस्य भुवनस्याऽऽपदुद्धारसंभवात् । अथ किं तत्स्वरूपान्यरूपद्वयमित्याशङ्कय विशेषणद्वारैतर्शयति, कथंभूतो भगवान् , विरतिलाभानन्तरं पार्श्वसर्पन्नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीः । विरतिश्चारित्रं तस्य लाभः प्राप्तिर्विरतिलाभस्तदनन्तरं तदनु, चारित्रे गृहीते सतीत्यर्थः । पार्श्वे समीपे सर्पन्तौ गच्छन्तौ यौ नमिविनमी कच्छमहाकच्छसुतौ भगवत्पालितपुत्रौ तयोयौँ कृपाणौ खगौ, गृहीतखगौ हि नमिविनमी भगवत्पार्श्व सपर्यापरौ परिभ्रमत इति श्रुतेस्तयोरुत्संगेन साचिव्येन दृश्या दर्शनीयाऽङ्गलक्ष्मीदेहश्रीर्यस्य स तथा, अयं भावार्थः, पार्श्वे सर्पद्भ्यां नमिविनमिभ्यां गृहीतखड्गद्वयमिषेणाऽतिभास्वरकान्तिमत्तया भगवतैव रूपद्वयं विहितमिति, एकं च रूपं भागवतं वास्तवमेवेति रूपत्रयं सुप्रतीतमिति तृतीयकाव्यार्थः ॥३॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ प्रथमतीर्थकर इत्यर्थः । नः अस्मभ्यम् । मुदं-धर्मप्रकाशकत्वेन हर्षम् । ददतां यच्छतु, 'ददि दाने' इत्यस्य पञ्चम्यैकवचने रूपम् । अथान्यजिनपक्षे-प्राज्यप्रभाः प्राज्या प्रचुरा प्रभा येषां ते तथा। धर्मस्य-अहिंसादिलक्षणस्य । प्रभवः= स्वामिनः, प्रभुशब्दस्य बहुवचनम् । अस्तरजस्तमाः अस्तौ रजस्तमौ रजोगुणतमोगुणौ यद्वा प्रागुक्तकर्मविशेषौ येषां ते तथा, तमशब्दोऽकारान्तोऽप्यस्ति, यदुक्तं शब्दस्तोममहानिधौ तम-पु. ताम्यति तम-अच् । तमोगुणे, मतान्तरे राहौ च । तमालवृक्षे च । रात्रौ स्त्री । अन्धकारे पादाने च नः । इति । यद्वा अस्तं रजो रजस्सदृशं पापं येषां तेऽस्तरजसः, अतिशयेनास्तरजस इति अस्तरजस्तमाः, प्रकृष्टार्थे तमप्प्रत्ययः । निर्वृतात्मानः निवृतिं गतो लोक्ष सुखं सौस्थं वा प्राप्त आत्मा येषां ते तथा । अन्येऽपि न केवलमाद्य एव अपि तु तद्व्यतिरिक्ता अपि । जिनाः रागादिविजेतारो देवाः, अजितादिवर्द्धमानान्तास्त्रयोविंशतिस्तीर्थकरा इत्यर्थः । वा-युष्मभ्यम् । मुदं-धर्मप्रकाशकत्वेन हर्षम् । ददतां यच्छन्तु, 'डुदांग्क दाने' इत्यस्य पञ्चमीबहुवचने रूपम् । इदं मविपुलाख्यं विषमवृत्तम् , तल्लक्षणं तु प्रथमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ २ ॥
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ अस्मिन् किलावसर्पिणीकाले प्रथमोपकारित्वाद् आदिनाथस्य नमस्कारमाह-दिशतु विरतीत्यादि । विरतिलाभानन्तरं पार्श्वसर्पन्नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीस्त्रिजगद् अपगतापत् कर्तुमात्तान्यरूपद्वय इत्र भगवान् नाभिसूनुर्वः सम्पदं दिशत्वित्यन्वयः। विरतिलाभानन्तरं-विरतेः सम्यग्ज्ञानपूर्वकसर्वसावद्ययोगनिवृत्तिरूपाया दीक्षाया यो लाभः प्राप्तिः स्वीकार इति यावत् , तस्माद् अनन्तरमव्यवहितोत्तरकालम् । पार्श्वसर्पन्नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीः पार्श्वयोरुभयोः पक्षयोः सर्पन्तौ चलन्तौ यौ नमिविनमी नमिविनमिनामानौ पुत्रत्वेन पालितौ स्वपौत्रौ तयो? कृपाणौ खगौ तयोरुत्संगे मध्ये दृश्ये दर्शनीये अङ्गलक्ष्म्यौ शरीरशोमे मूर्तिलक्षणे यस्य स तथा । अत्र लक्ष्मीशब्दान्तबहुवीहे: “पुमनड्डुनौपयोलक्ष्म्या एकत्वे" [७, ३, १४३ ] इति समासान्तः कच् प्रत्ययो न भवति, उक्तसूत्रे एकवचनान्तस्य लक्ष्मीशब्दस्य ग्रहणात् प्रस्तुते तु द्विवचनान्तत्वात् । एतेन विशेषणेन भगवतो रूपत्रयं जातमिति दर्शितम् । एतदुप्रेक्षते कविः-आत्तान्यरूपद्धय इव-आत्तं गृहीत. मन्यद् अपरं रूपद्वयं शरीरद्वयं येन स तथैव । किं कर्तुम् ? त्रिजगत्-त्रिभुवनम् । अपगतापत्-अपगता दूरीभूता नष्टा वा आपद् आपत्तियस्य तादृशम् , कर्तु-विधातुम् । भुवनस्य त्रयत्वाद् शरीरस्यापि त्रये सति सुखेनैवापत्तेर्दूरीकरणं भवेदित्यर्थः । भगवान्-भगो ज्ञानादिरस्यास्तीति भगवान् , “ भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छाश्रीधर्मेश्वर्ययोनिषु ॥१॥” इति वचनाद् अनुपमज्ञानादिगुणकलितः परमात्मा। नाभिसूनुः श्रीनाभिनरेन्द्रनन्दन ऋषभनाथ इत्यर्थः । सम्पदं-सम्यग् अनन्तसुखनिधानत्वेन शोभनं पदं मोक्षरूपं स्थानम् , यद्वा सम्पद् स्वर्गापवर्गादिका सम्पत्तिः ताम् , 'स्वपदम्' इति पाठे तु स्वमात्मीयं पदं स्थानं मुक्तिमित्यर्थः । वा-युष्मभ्यम् । दिशतु ददातु ॥ अत्राय सम्प्रदायः___ एकदा भगवतो वृषभनरेन्द्रस्य नमिविनमिनामानौ नन्दननन्दनौ नगरान्तरमनाखिष्टाम् , इतश्च भगवान् वृषभनरेन्द्रश्चिन्तयामास, यदुन, असारोऽयं संसारः, इमे भोगा भोगभाजा भोगाभा भीमा भालितमात्राः सुदृशा, स्पृष्टाश्वाचिरं चित्तविचित्ततां तन्वाना अन्ते विषमविषमादधाना कटुफलम् , नास्ति च च्युतिप्रसूतिभ्यां सहचरतैषाम् , इमेऽमेयजन्ममालायां मिलितास्तथापि केऽपि न सहायाताः, केषाञ्चिदपि न निष्पन्ना स्मृतिः सत्त्वानाम् , एवमेतद्भवभवानामपि भावना भाव्या । कथमेतदर्थं निरर्थकं मनुष्यत्वं कर्तव्यं सुकृतिभिः । समित्संदोहैः समीरसख इव कीलालालिभिः कीलालालिरिव विषयेस्तृष्णास्तृप्ति नाभ्युपयन्ति कदाचन । स्वजना अपि निशि शाखिशाखाशायिनः शकुनय इवासादितसंगाः स्वावासनिबन्धनवन्धनविघटनाद् विविक्ताः सन्तो दैवानुसारेण यथोचितमध्वानमध्यारोक्ष्यन्ति । धर्ममधारयमाणः प्राणी चारघट्टघटिकाघटनया भ्रमितोऽमितवारमपारे भवकूपारे । धर्म एवाशरणशरणम् , धर्मा देव भाविनी भविनां भवभिदा, स च प्रवज्याप्रधान इति च्यात्वा तनुजेभ्यो राज्यदायं दत्त्वा प्रतिपद्य च प्रव्रज्यां वसुधायां विजहार । प्रत्यायातौ चतौ नमिविनमी राज्यदायार्थ यत्र भगवान कायोत्सर्गमुद्रया स्थितस्तत्र गत्वा कण्टकादीनपास्योद्घाटितं कृपाणमारच्य प्रत्येक प्रभुपाचे सेवार्थ समुपस्थितौ । इदं वृत्तमवधिज्ञानेनावबुध्य विबुधाधिपतिना विद्याविद्याधरधराप्रभृति वितीर्णमिति । ___ इदं मालिनी नाम वृत्तम् । तल्लक्षणं तु 'नौ म्यौ यो मालिनी' [ ननमयया, जैरिति वर्तते, जैः अष्टभिश्चेद् यतिः] इतिच्छन्दोऽनुशासने ॥३॥
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
[ टिप्पनक - व्याख्या-विवृतिविभूषिता
ध्वानेनाऽमृतवर्षिणा श्रवणयोरायोजनं भ्राम्यता,
भिन्दाना युगपद् विभिन्नविषयं मोहं हृदि प्राणिनाम् । आधे धर्मकथाविधौ निपतेराद्यस्य वाणी नृणां,
वृन्दैरुद्यदपूर्वविस्मयरसैराकर्णिता पातु वः ॥ ४ ॥ [ शार्दूलविक्रीडितम् ] ।।
5 विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकम् 5
मोहमत्र ज्ञानं संशयविपर्ययरूपम्, विभिन्नविषयमनेकार्थसंबन्धिनम् । क्व ? हृदि मनसि मनोगतमित्यर्थः । केषां ? प्राणिनां देवनरतिरश्वाम् । भिन्दाना विदारयन्ती । कथं ? युगपदेककालम् । का ? वाणी भारती । क्वाद्ये धर्मकथाविधौ प्रथमे धर्मकथने समवसरणव्यवस्थितस्योत्पन्नकेवलज्ञानस्य ॥ ४ ॥
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या
Acharya Shri Kailassagarsuri Gyanmandir
अथाऽस्य भगवतो वाणीगुणं वर्णयितुमाह-ध्वानेनेति । व्याख्या० अस्य [ आयस्य ] जिनपतेर्वाणी वो युष्मान् पातु रक्षतु, अथ वाणीफलं तु श्रवणेनैव स्यादित्याशङ्कयाऽऽह कथंभूता वाणी आकर्णिता श्रुता, कैर्नृणां मनुष्याणां वृन्दैः समूहैः, किंलक्षणैरुद्यदपूर्वविस्मयरसैः, उद्यन्तौ दीप्तावपूर्वी पूर्व कचिदप्यननुभूतौ विस्मय आश्चयं रसः शान्तादिको यैस्ते तथा तैः । अथ वाणीश्रवणात् किं फलं भवतीत्येतद्दर्शयति, किं कुर्वाणा वाणी भिन्दाना भेदं विनाशं कुर्वाणा भिन्दाना, कं मोहं मूढताम्, क प्राणिनां हृदि जन्तूनां हृदये, जन्तुहृदयस्थमोहभेदकरणमाहकेन कृत्वा ध्वानेन शब्देन, अथ शब्दस्यैव स्वरूपमाह-किलक्षणेन ध्वानेनाऽमृतवर्षिणाऽमृतममृतप्रायं माधुर्य वर्त्रतीत्यमृतवर्षी तेनाऽमृतवर्षिणा, व श्रवणयोः कर्णयोः, श्रोतॄणां कर्णयोर्मध्येऽमृतस्राविणेत्यर्थः । अथाऽस्य शब्दस्य शक्तिविशेषणमाह-किं कुर्वता शब्देनाऽऽयोजनं भ्राम्यता, योजनमामर्यादीकृत्य पर्यटता, योजनगामित्वाद्भगवच्छब्दस्येतिं । ननु समस्तानामपि जिनपतीनां स्वस्वतीर्थप्रवर्तकत्वेनाऽऽयत्वमेवाऽस्ति तथा चाऽस्याऽऽद्यस्य जिनपतेरित्युक्ते को विशेष इत्याशङ्कयाऽऽह - वाऽऽद्यत्वमस्याऽऽद्ये कर्मविधौ प्रथमसकलकर्मारम्भे भगवत एव मुख्यत्वेन कर्तृत्वादाद्यत्वमिति चतुर्थकाव्यार्थः ॥ ४ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः
"
ध्वानेनेत्यादि । 'आद्यस्य जिनपतेर्वाणी वः पातु ' इत्यन्वयः । आद्यस्य प्रथमस्य, जिनपतेः = जिनेश्वरस्य तीर्थंकरस्येति यावत्, वृषभदेवस्येत्यर्थः, तस्य चतुर्विंशतौ तीर्थकरेषु प्रथमत्वात् । वाणी - भारती । वः - युष्मान्, पातु रक्षतु । किंविशिष्टा वाणीत्याकाङ्क्षायां ' ध्वानेन मोहं भिन्दाना' इत्यन्वयः, ध्यानेन वनिना मोहम्-अज्ञान. संशयविपर्ययरूपं रागद्वेषादिरूपं वा, भिन्दाना - नाशयन्ती । कीदृशेन ध्यानेनेत्याकाङ्क्षायां 'श्रवणयोरमृतवर्षिणा आयोजनं भ्राम्यता चेत्यन्वयः । श्रवणयोः कर्णयोः, अमृतवर्षिणा - अमृतवृष्टिं कुर्वता, अत्यन्तमधुरेणेत्यर्थः, आयोजनंयोजनं योजनमितक्षेत्रमभिव्याप्येत्यायोजनम्, कोशचतुष्टयरूपयोजनमित क्षेत्र सर्वभागेष्वित्यर्थः । भ्राम्यता - प्रसरता । कथम्भूतं मोहमित्याह - विभिन्नविषयं - कञ्चन कामिन्यादिविविधवस्तुसम्वन्धिनम्, कुत्र स्थितमित्याह - प्राणिनां हृदि, प्राणिनां - देवनरतिरश्चाम्, हृदि - मनसि स्थितमिति शेषः । कया रीत्या भिन्दानेत्याह - युगपद् = एककालम्, मोहस्य तदाश्रयप्राणिनां चानेकविधत्वेऽपि वागतिशयविशेषान्न तत्र कालक्रमापेक्षा; इदमुक्तं भवति - तीर्थंकरस्य भगवत एकरूपापि अर्द्धमागधीभाषा प्रचुरपुण्यजनितातिशयबलाद् वारिदमुक्तवारिवदाश्रयानुरूपतया परिणमते, यदुक्तम्- "देवा देवीं नरा नारीं शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि तैरवीं मेनिरे भगवद्गिरम् ॥१॥ I नह्येवंविधभुवनाद्भुतातिशयमन्तरेणानेकप्राणिनां विभिन्नविषयो मोहो युगपच्छेत्तुं शक्यः । पुनः कथम्भूता वाणीत्याकांक्षायां नृणामुद्यदपूर्वविस्मयरसैवृन्दै कर्णिता ' इत्यन्वयः । नृणां-मनुजानाम्, “नुर्वा ” [ १, ४, ४८ ] इति दीर्घविकल्पनाद् हस्वत्वम् । नृमात्रस्योपादानं तेषां
"
For Private And Personal Use Only
C
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___
___१५
तिलकमञ्जरी ] अव्याज्जगन्ति पुरुषोत्तमनाभिसूते
र्देवस्य वक्त्रकमलोदरमावसन्त्याः । धौतेव दन्तकिरणमकरेण मूर्ति
देव्या गिरामधिपतेः शरदिन्दुगौरी ॥५॥ [वसन्ततिलकावृत्तम्] ॥
5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ पञ्चमश्लोकव्याख्या क्रियते-अव्याद् रक्षतु का ? मूर्तिस्तनुः कस्याः ? गिरामधिपतेर्देव्याः सरस्वत्याः । कीदृशी ? शरदिन्दुगौरी शरच्चन्द्रधवला, उत्प्रेक्षते कविधौंतेव प्रक्षालितेव । केन ? दन्तकिरणप्रकरेण दशनानां सुसंघातेन । किं कुर्वन्त्या ? आवसन्त्यास्तिष्ठन्त्याः । किं तद्वक्त्रकमलोदरं मुखपद्ममध्यम् , कर्मत्वं तु उपान्वध्याड्चस [ २-२-२१ ] इति मुखकमलमध्ये इत्यर्थः । कस्य ? देवस्य किमभिधानस्य ? पुरुषोत्तमनाभिसूते पुरुषोत्तमश्चासौ नाभिसूतिश्च नाभेयश्च स तथोक्तस्तस्य ऋषभस्येत्यर्थः । लोकभाषया पुरुषोत्तमो विष्णुस्तस्य नामि भिपद्मं तात्स्थ्यात् तस्मिन् सूतिरुत्पत्तिर्यस्य स तथोक्तस्तस्य ब्रह्मण झ्यर्थः । कानि रक्षतु ? जगन्ति जगत्त्रयस्थितप्राणिनः ॥५॥
ॐ श्रीमत्पद्मसागरविवुधरचिता व्याख्या के अथ भगवन्मुखकमलमावसत्याः सरस्वत्या मूर्तिस्तुतिमाह-अव्याज्जगन्तीति । व्याख्या० गिरामधिपतेर्वाचा स्वामिन्या देव्याः सरस्वत्या 'मूर्तिमन्करणकायमूर्तय' इत्यभिधानचिन्तामणिवचनान्मूर्तिः शरीरं जगन्ति भुवनान्यव्यात्पायात् । अथाऽस्या मूर्तिः कीदृशी, शरदिन्दुगौरी शरच्चन्द्रशुभ्रेत्यथः, मूर्तः शुभ्रत्वं तु प्रायो धौतत्वे सति संभवतीत्याह-मूर्तिः कथंभूता, इवोत्प्रेक्ष्यते धौता, केन दन्तकिरणप्रकरण, भगवद्दन्तसम्बन्धिमरीचिजालेन धौतत्वाच्छुभ्रा सारस्वती मूर्तिरित्यर्थः । ननु सारस्वत्या मूर्तेर्दवसम्बन्धित्वेन सुधादिना तावद्धौतत्वं संभवति, कथं पुनरादीश्वरसम्बन्धिदन्तकिरणप्रकरणेत्यत आह-किलक्षणाया देव्या वक्त्रकमलोदरमावसन्त्या वक्त्रमेव मुखमेव कमलं पद्मं तस्योदरं मध्यं तदाश्रित्याऽऽवसन्त्या वसतिं कुर्वाणाया इत्यर्थः । कस्येदं वक्त्रकमलमित्याशङ्कयाऽऽह-देवस्य स्वामिनः किलक्षणस्य पुरुषोत्तमनाभिसूतेः, पुरुषाणां मध्ये कुलकरत्वेनोत्तमः पुरुषोत्तमः स चाऽसौ नाभिरिति नाभिकुलकरस्तस्मात्सूतिरुत्पत्तियस्य स तथा तस्य, देवस्य वृषभस्वामिन इत्यर्थः । अयमस्य कवेरभिप्राय आदीश्वरसम्बन्धिमुखकमले किल सरस्वतीमूर्तिवसति, सा च प्रत्यासन्नत्वाद्दन्तकिरणप्रकरण चन्द्रज्योत्स्नाशीतलेन धौता संभवतीति तात्पर्यम् , यद्यपि मुखे साक्षान्मूर्तिमत्याः सरस्वत्या वासो न संभवति तथापि यथार्थवक्तृत्वलक्षणतत्फलदशनेनाऽनुमापित एवाऽर्थोऽयं मन्तव्यः । अथ सरस्वत्याः कविसमये ब्रह्मपुत्रीत्वेन सम्मतत्वात्तन्निरूपणार्थ द्वितीयार्थमाह-पुरुषोत्तमः कृष्णस्तस्य नाभितः सूतिरुत्पत्तियस्य स तथेत्येवंविधो ब्रह्मा, तस्य लोके देवत्वेन प्रसिद्धत्वाद्देवस्य वक्त्रकमलं मुखकमलमुदरं जठरं तद्वयं समाहतं यथा स्यात्तथाऽऽवसन्याः स्थिति कुर्वन्या इत्यर्थः । अयं भावार्थः पितृस्नेहेन स्वोत्संगे स्थितायाः सरस्वत्याः पुत्रीस्नेहेन चुम्बनार्थ हि किल ब्रह्मा स्वमुख स्वोदरासन्नं करोति तदानीं तदन्तःस्थाया अस्या मूर्तिब्रह्मणो दन्तकिरणप्रकरेण धौतेव भवतीति द्वितीयार्थ इति वृत्तार्थः ॥ ५॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ विस्मयरसातिरेकज्ञापनार्थम् , यद्यपि देवानां तिरश्वां च विस्मरसो भवति तथापि स न तदानीन्तनमनुजानां विस्मयरससदृशः, यतो देवैरन्यतीर्थकरतोऽपि विस्मयरसः प्रागनुभूतो भवति, तिर्यञ्चश्च मन्दचैत्यन्या भवन्ति । उद्यदपूर्वविस्मयरसैः उद्यन् उच्छलन् अपूर्वः प्रागननुभूतोऽनुत्तरो वा विस्मयरसः ‘इयं वाणी किंवा सुधाप्रवाहः' इत्याद्याश्चर्यरसो येषां ते तथा । वृन्दैः समूहै: । आकर्णिता-श्रुता । कदाकर्णितेत्याह-आये धर्मकथाविधौ, आधे-केवलज्ञानो
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६
[ टिप्पनक-व्याख्या- विवृतिविभूषिता
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
त्पत्त्यनन्तरं प्रथमे, धर्मकथाविधौ धर्मस्य दानशीलतपोभावनारूपस्य साधुधर्मगृहिधर्मादिभेदस्य वा या कथा कथनं तस्या विधौ कार्ये, अत्रापि 'आद्यस्य जिनपतेः' इत्यस्य योजना कार्या । तथा चायमर्थः - लब्धकेवलज्ञानेन भगवता श्रीवृषभदेवेन समवसरणे उपविश्य या प्रथमधर्मदेशनायां भारती प्रवर्तिता, मनुजादिना चात्यन्ताश्चर्यरसपूर्वकं श्रुता सा पाश्विति भावः । इदं शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणन्तु - 'अतिधृत्यां सौ ज्सौ तौ गः शार्दूलविक्रीडितं छै: ' [ मसजसततगाः, छैरिति द्वादशभिर्यतिः ] इतिच्छन्दोऽनुशासने ||४||
Acharya Shri Kailassagarsuri Gyanmandir
,
"
अन्यादिति । गिरामधिपतेर्देव्या मूर्त्तिर्जगन्त्यव्यादित्यन्वयः । गिरां वाणीनाम्, अधिपतेः = स्वामिन्याः, देव्याः=देवतायाः, सरस्वत्या इत्यर्थः, मूर्त्तिः = आकृतिः, जगन्ति = जगत्त्रयम्, त्रिभुवनगत प्राणिन इत्यर्थः, अन्याद्रक्षतु । कथम्भूताया देव्या इत्याकाङ्क्षायां 'पुरुषोत्तमनाभिसूतेर्देवस्य वक्त्रकमलोदरमावसन्त्याः इत्यन्वयः, पुरुषोतमनाभिसूतेः पुरुषेषु उत्तमः पुरुषोत्तमः स चासौ नाभिश्व नाभिनामा राजा च पुरुषोत्तमनाभिः तस्मात् सुतिरूपत्तिर्यस्य स पुरुषोत्तमनाभिसूतिस्तस्य तथा । यद्वा पुरुषोत्तमश्चासौ नाभिसूतिश्च नाभिजन्मा च पुरुषोत्तमनाभिसूतिस्तस्य तथा, देवस्य = परमेश्वरस्य नाभिनृपनन्दनस्य ऋषभदेवस्येत्यर्थः । यद्वा पुरुषोत्तमेषु उत्तमजनेष्वपि नाभिः प्रधाना सूतिरुत्पत्तिजन्म यस्य तस्य तथा, तीर्थंकरस्येत्यर्थः, यतस्तीर्थंकरजन्मनि त्रिभुवनव्यापी उद्योतः षट्पञ्चाशतो दिक्कुमारीणां चतुष्षष्टेरिन्द्राणाञ्चागमनम्, मेरुशिखरेऽभिषेकः, इत्यादिकं भवति । " प्राण्यङ्गे क्षत्रिये नाभिः प्रधाने नृपतावपि " इति शास्वतः । वक्त्रकमलोदरं वक्त्रं वदनं तदेव प्रफुल्लतादिसाम्यात् कमलं तस्योदरं मध्यभागम्, “ उपान्वध्यावस: ' [२, २. २१ ] इत्यधिकरणस्य कर्मत्वविधानेन द्वितीया, अतोऽधिकरणार्थी बोध्यः तथा च ' मुखकमलमध्यभागे ' इत्यर्थो बोध्यः, आवसन्त्याः = निवासं कुर्वन्त्याः, सरस्वती नाम वाण्यधिष्ठात्री शरदिन्दुगौरदेहा देवी, तदधिष्टिता वाण्यपि सरस्वतीशब्देनोच्यते, एवं तन्मूर्त्तिरपि द्वेधा भवति, एका करचरणादिमंद्देहरूपा, अपरा वाणीसंदोहरूपा च, अस्मिन् पद्ये उभय्यपि समाश्रिता, 'आवसन्त्याः ' इत्यत्र वाणीरूपा सरस्वती गृहीता, ' शरदिन्दुगौरी' इत्यत्र करचरणादिमद्देहरूपा सरस्वतीमूर्त्तिर्गृहीता, 'धौतेव' इत्यत्र वाणीसंदोहरूपा सरस्वती मूर्तिर्गृहीता । कथम्भूता मूर्त्तिरित्याहशरदिन्दुगौरी=शरद् आश्विन कार्तिकमासात्मक ऋतु:, तस्या य इन्दुश्चन्द्रस्तद्वद् गौरी धवला, आश्विनकार्तिकमासयोमध्ये रजोॠष्टिजलवृष्टिघनघटादिविरहेण स्वच्छे गगने चन्द्रोऽतीवधवलो दृश्यते तत्सादृश्यप्रतिपादनार्थं शरदुपादानम् । कथं शरदिन्दुगौरी जातेत्यत्रोत्प्रेक्षते दन्तकिरणप्रकरेण धौतेव, दन्तकिरणप्रकरेण दन्तानां किरणप्रकरेण धवलकान्तिसमूहेन धौतेव-प्रक्षालितेव वाणीरूपमूर्त्या मूखान्निर्गमनसमये दन्तकिरणप्रवाहेण प्रक्षालनं जातमतः शरदिन्दुगौरी जातेति भावः । अत्र सरस्वतीदेहवाण्योरभेद आश्रितः । लौकिकैः सरस्वती ब्रह्मणः पुत्रीति प्रतिपन्नम्, तदुनुकूलोsर्थोऽयं बोध्यः । तथाहि । पुरुषोत्तमनाभिसूतेः पुरुषोत्तमो लोकरूड्या कृष्णस्तस्य नाभिः तात्थ्यात् तद्द्व्यपदेशेन नाभिगतं कमलं तत्र सूतिस्त्पत्तिर्यस्य स तथा तस्य, ब्रह्मण इत्यर्थः, लौकिकैः किल ब्रह्मण उत्पत्तिः कृष्णनाभिकमलादभ्युपगता, नन्वस्य ब्रह्मणो लौकिकैर्देवत्वमपि स्वीकृतं तत् किं न निर्दिश्यतेऽत आह- देवस्य कीदृश्याः सरस्वत्या इत्याह-वक्त्रकमलोदरम् आवसन्त्याः, वक्त्रकमलोदरं वक्त्रमेव कमलं वक्त्रकमलं तेन सन्निहितं वक्त्रकमलसन्निहितम्, वक्त्रकमलसन्निहितम् उदरं यस्मिन् कर्मणि तत् वक्त्रकमलोदरम् मध्यमपदलोपी समासः, क्रियाविशेषणं च, तथा चायमर्थः, वक्त्रकमलसन्निहितमुदरं यथा स्यात्तथा आवसन्त्या पितृपुत्रीभावमर्यादया निवासं कुर्वन्त्याः । अयं भावः । सरस्वती पितृस्नेहेन ब्रह्मण उत्सङ्गे तिष्टति, ब्रह्मा च पुत्रस्नेहेन तन्मुखं चुम्बति एतच्चुम्बनकाले ब्रह्मणो वदनकमलं स्वोदरसन्निहितं भवति, एवं मुखविकाशे धवलदन्तकिरणजालेन उत्सङ्गस्थितसरस्वतीदेहो धौतो भवति एतदाह-दन्तकिरणप्रकरेण धौतेवेति, अतः कीदृशी जातेत्याह - शरदिन्दुगौरी शेषं स्पष्टम् ॥
इदं वसन्ततिलकावृत्तम् । तल्लक्षणं तु 'त्भौ जौ गौ वसन्ततिलका' [ तभजजगगाः ] इतिच्छन्दोऽनुशासने ॥५॥
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] रक्षन्तु स्खलितोपसर्गगलितपौढपतिज्ञाविधौ,
याति स्वाश्रयमर्जिताहसि सुरे निश्वस्य संचारिताः। आजानुक्षितिमध्यमग्नवपुषश्चक्रामिघातव्यथामूर्खान्ते करुणामराञ्चितपुटा वीरस्य वो दृष्टयः ॥६॥ [ शार्दूलविक्रीडितम् ] ॥
विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ अधुनाऽऽसमतीर्थोपकारकत्वाद्भगवतो वर्द्धमानस्येष्टाभिमतदेवस्यैव पुनर्नमस्कारमाह-रक्षन्त्वित्यादि, अर्जितांs. हसि गृहीतपापे ॥६॥
॥ श्रीपद्मसागरविबुधरचिता व्याख्या के ___ अर्थतच्छासनाधिपतिस्वेन प्रत्यासन्नोपकारित्वाच्छ्रीमहावीरस्तुतिमाह-रक्षन्तु स्खलित इति । व्याख्या० वीरस्य वर्धमानस्वामिनो दृष्टयो नेत्राणि बहुवचनं चाऽत्र समदर्शित्वेन पूज्यत्वाद्वो युष्मान् रक्षन्तु पान्तु । अथ दृष्टया भरणं करुणावमुपदर्शयति, कथंभूता दृष्टयः करुणाभराञ्चितपुटाः, करुणाभरेण कृपाजालेनाऽञ्चितानि व्याप्तानि तन्मयं गतानि पुटानि यासां तास्तथा । अथ स्वसुहृदादौ सर्वेषामपि दृष्टिषु करुणार्द्रत्वं स्यादेव किमस्याधिक्यमित्याशङ्कय परमवैरिणोऽप्युपरि भगवदृष्टीनां करुणाईत्वं दर्शयति, दृष्टयः किलक्षणाः संचारिताः, व सुरे, कथंभूते अर्जिताहसि, अतीवघोरोपसर्गकारित्वादर्जितमहः पापं येन स तथा तस्मिन् । किं कृत्वा निःश्वस्य हा हाऽस्य परमपापकारिणः का गति विनीति चिन्तया निःश्वास मुक्तवेत्यर्थः । नन्वनेन भगवति कीदृश उपसर्गः कृत इत्येतद्भगवद्विशेषणद्वारा दर्शयति, कथंभूतस्य वीरस्य, आजानुक्षितिमध्यमग्नवपुषो जानुपर्यन्तं भूमध्यमग्नदेहस्य । ननु कथमस्य परमवीर्यवतो भगवतस्त्वेतादृश्यवस्था जातेति सप्तम्यन्तविशेषणद्वारा दर्शयति-कस्मिन् सति भगवताऽस्मिन् सुरे दृष्टयः संचारिताश्वकाभिघातव्यथामूच्छन्तेि सति, चकेगाऽभिघातो हननं तेन कृत्वा समुत्पन्ना या व्यथा ततः समायाता या मूर्छा तस्या अन्ते क्षये सतीति । अयं भावार्थः, एकदा किल शक्रेण स्वसुरपर्षदि घोरानुष्ठानपरस्य भगवतः समुदितत्रिलोकीजनाक्षोभ्योऽयं भगवान् परसाहाय्यनिरपेक्षतया तपश्चरतीति प्रशंसायां कृतायामश्रधताऽभव्येन देवाधमेनाऽनेन समागत्य घनकालं घोरतरविविधोपसर्गाश्चकिरे तथापि विशेषाद्भगवतोऽक्षोभ्यतां दृष्ट्वा “ यदि त्वं निषेधको न स्यात्तदाऽहमेनमवश्यं तपस्तश्चालयामीति" शक्रपुरः कृतात्मीयप्रतिज्ञाध्वंसो मा भूदित्यतीव कोपाटोपपटुर्भगवच्छिरसि सहस्रलोहभास्मयं चक्रं दिव्यशक्तयाऽयं मुमोच, तदभिघातव्यथातो भगवतोऽपि मूर्छा समायाताऽनन्तरं च मूर्छाक्षये तस्मिन्नेव देवे परमकारुण्यत्रता भगवता सुप्रसन्ना दृष्टयः संचारिता इति रहस्यम् । अथाऽनेन सुरेण भगवतः किंचित्कृतं स्थाने गत वेति मुग्धशानिराकरगार्थमाह-किं कुर्वति देवे याति गच्छति, कं स्वाश्रयं सुरलोकलक्षणम् , कीदृशः सन्नसौ सुरलोकं वजन्नभूदित्याशयाऽऽड-कथंभूते देवे स्खलितोपसर्गगलितग्रौढप्रतिक्षाविधी, स्खलिता अफला य उपसर्गास्तानुद्दिश्य भग्नोत्साहत्वेन गलिता भ्रटा प्रतिज्ञा यस्य स तथा तस्मिन् । एवंविधेऽपि देवे याति सति भगवतो करुणाभरश्चितपुटाः सन्त्यः संचारिता दृष्टयो युष्मान् पान्विति वृत्तार्थः ॥६॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ वर्तमानशासनाधिपतितयाऽऽसन्नोपकारित्वाद् दृष्टिद्वारा महावीरदेवं स्तौति ‘रक्षन्त्वि'त्यादिना । 'वीरस्य दृष्टयो वो रक्षन्तु' इत्यन्वयः । वीरस्य महावीराभिधानस्य चतुर्विशतितमस्य तीर्थकरस्य, दृष्टयः लोचनानि, प्रशमरसबाहुल्यादिना बहुत्वविवक्षया बहुवचनम् , तथा च प्रचुरप्रशमरसादियुक्तं लोचनयुगलमित्यर्थः । वा-युष्मान् रक्षन्तु= पान्तु । कथम्भूतस्य वीरस्येत्याह-आजानुक्षितिमध्यमग्नवपुषः आ जानुभ्यामित्याजानु, जानुपर्यन्तमित्यर्थः, क्षिति
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-व्याख्या-विवृतिविभूषिता प्रबन्धानामनध्यायः, सा वाग जयति शुद्धया ।
यया प्रतिपदेवेन्दुः, कविः क्षीणोऽपि जीवति ॥७॥ [ पथ्यात्तम् ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ वाच उत्कृष्टता]माह- सा वाग्वाणी जयत्युत्कृष्टा वर्तते । यया वाचा कविः, कीदृशः ? क्षीणोऽपि जीनोऽपि, जीवति उच्छुसिति प्राप्तसिद्धिोके भवति, यद्वा जीवति जीव इव बृहस्पतिरिवाचरति अयिलोपे (?) रूपं बृहस्पतीयत्यर्थः । कयेव कः ? प्रतिपदेव शुक्लपक्षप्रथमतिथ्येवेन्दुः, यथा चन्द्रः प्रतिपदा क्षीणोऽपि क्षयप्राप्तोऽपि जीवति । किंभूतया वाचा प्रतिपदा य? शुद्धया निर्दोषया शुभ्रया च, कीदृशी वाक् प्रतिपञ्च ? अनध्यायोऽनध्ययनहेतुत्वादपठनं तथाविधार्थालङ्काराद्यभावेनोद्वेगहेतुत्वात् , केषां ? प्रबन्धानां शास्त्राणाम् , प्रतिपदप्यनध्यायः शास्त्राणामध्ययनस्य निषेधाच्छास्त्रे ॥ ७ ॥
॥ श्रीपनसागरविबुधरचिता व्याख्या ॥ अथैवमविघ्नेनाऽऽरब्धग्रन्थपरिसमाप्त्यर्थं वृषभादिवर्धमानपर्यन्तजिनस्तधनलक्षणातिशयितमङ्गलमाधाय तावत्सकलशास्त्रोपजीवकत्वेनाऽऽराध्यतमां वाचं स्तुवन्नाह-प्रबन्धानामिति । व्याख्या० सा वाग् जयतीत्यन्वयः । तस्याः प्रतिपत्तिथिसाम्येन स्वरूपमाह-कथंभूता वाक् , अमध्यायोऽध्यायो नामाऽधिकारो, न अध्यायोऽनध्यायोऽनधिकार झ्यथः, केषां प्रबन्धानां, प्रकर्षण बन्धानां विशिष्टबन्धानामनधिकारः । अयं भावः, नवशिक्षितकविकृतत्वेन यद्यपि विशिष्टबन्धाधिकारा काचिद्वाग् न भवत्यपि, तथापि सा वागने वक्ष्यमाणगुणकारित्वेन श्लाध्यैवेति, साऽपि वाग् जयतीत्यपेरध्याहारपर एवाऽयं कवेरध्यवसायः, प्रतिपत्साम्य तु,प्र प्रकृष्टो बन्धो रचना येषां तानि प्रकृष्टबन्धानि शास्त्राणि तेषामनध्यायः पाठाभावा प्रतिपत्तिधिर्भवतीति सिद्धमेव । ननु प्रबन्धानामनध्यायत्वेन प्रतिपत्तिथिसमयाऽनया वाचा कि भवतीत्याशङ्कय यद्भवति तद्दर्शयति, प्रतिपदेव यया वाचेन्दुरिव क्षीणोऽपि कविर्जीवत्यभ्युदयवान् भवतीति, अयं भावः, यथा प्रतिपद्दिनमाहात्म्येनाऽस्तं गतोऽपि चन्द्रो भाव्युदयेन स जीव इवोच्छ्वसितो भवति तथा कविरपीत्यर्थः । अथ द्वितीयार्थों यथा वाचा कविः शुक्रोऽपि जीवति जीव इव बृहस्पतिरिवाऽऽचरत्युभयोरपि वक्तृत्वफलाविशेषात् । यद्वा कविः काव्यकारी जीवति जीव इवाऽऽचरतीति वृत्तार्थः ॥ ७ ॥
卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ मध्ये भूमिमध्ये मग्नं चक्राभिघातेन प्रविष्टं वपुः शरीरं यस्य तस्य तथा, कथम्भूता दृष्टय इत्याह-करुणाभराञ्चितपुटाः करुणाया 'अरेरे ! परमपापकारिणोऽस्य देवस्य किं भाव' इति दयाया भरेण समुदायेनाञ्चिताः पूजिता उत्तमतामापादिताः पुटाः कनीनिकाच्छादिकाः पुटाकारा त्वचो यासां तास्तथा । कदा ईदृश्यो दृष्टयो जाता इत्याह-चक्राभिघातव्यथामून्तेि -चक्रेण कालचक्राभिधानेन देवक्षिप्तेन शस्त्रविशेषेण योऽभिघातः प्रहारस्तेन जाता या पीडा तया जनिता या मूर्छा तदन्ते, निरुक्तमूपिगमानन्तरमिति भावः, अत्र चक्राभिघातव्यथा इति विश्लिष्य दृष्टिष्वपि योज्यम् । पुनः कथम्भूता दृष्टय इत्याकाक्षायां 'सुरे निश्वस्य संचारिता, इत्यन्वयः । सुरे-चक्रक्षेपकदेवे, निश्वस्य-निश्वासं मुक्त्वा, संचारिताः गमिताः। कथम्भूते देवे ? स्खलितोपसर्गगलितप्रौढप्रतिज्ञाविधौ-स्खलितैः विफलीभूतैरुपसर्गरुपद्रवैर्गलितो नष्टः प्रौढप्रतिज्ञायाः ‘वीरमहं चालयिष्यामि' इति महत्तरप्रतिज्ञाया विधिः कार्य यस्य तस्मिंस्तथा। पुनः कीदृशे देवे ? स्वाश्रयम्-देवलोकलक्षणं स्वस्थानं प्रति, याति-गमनं कुर्वाणे, पुनः कीदृशे देवे ? अर्जिताहसि-अर्जितानि संचितानि अंहांसि पापानि येन तस्मिंस्तथा । अत्रायं सम्प्रदायः
पुरा किलेकदा देवसभायां निषण्णेन शचिपतिना श्रमणस्य भगवतो महावीरस्य घोरातिघोरतपोगुणसमुल्लसिताऽचला ध्यानधारा विलोकिता, तदनु देवानामग्रे 'श्रमणो भगवान् महावीरो देवगणैरपि ध्यानान्न चालयितुं शक्यः' इति
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] वन्यास्ते कवयः काव्य-परमार्थविशारदाः। विचारयन्ति ये दोषान् , गुणांश्च गतमत्सराः ॥८॥ [ पथ्यावृत्तम् ॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथ स्वाधिकगुणवत्पुरुषवन्दनाद्याचारालोपेनैव स्वस्याऽतिशायिनी राढा भवतीति कृत्वा सत्कवीनां वन्द्यत्वमुपवर्णयति, वन्द्यास्ते कवय इति । व्याख्या. ते कवयो वन्द्या वन्दनीयाः सन्तीति, कथंभूताः काव्यपरमार्थविशारदाः, काव्यानां स्वपरकृतानां परमार्थस्तात्पर्य तत्र विशारदा विचक्षणाः । एवंविधाश्च सन्तस्ते किं कुर्वन्तीत्याह-ये गतमत्सराः सन्तो गुणान् दोषांश्च विचारयन्ति, अरक्तद्विष्टतया दुष्टानि काव्यानि दुष्टतया सत्काव्यानि च सत्तया विचारयन्तीति वृत्तार्थः ॥ ८॥
卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ महावीरदेवस्य निरुक्तध्यानाचलता वर्णिता च, एनामसहमानः कश्चित् संगमनामा सुराधमः ‘वीरमहं चालयिष्यामि' इति प्रतिज्ञाय यत्र श्रमणो भगवान् महावीरो ध्यानमुद्रया स्थितस्तत्र गत्वा दारुणातिदारुणान् विविधान् उपसर्गान् चकार, एवं क्रियमाणेखूपसर्गेषु भगवन्तमचलितं विलोक्य दिव्यं कालचक्राभिधं महच्चक्रं जगद्वन्धोः प्रभोः शिरसि निपातितवान् , एतत्प्रहारेण जानुदन्यां भूमौ भगवान् निमग्नो जातः, जाता च महती वेदना, दृष्टयोऽपि वेदनासंकूला बभूवुः, एवं सत्यपि भगवान चलितः, अथ विगलितप्रतिज्ञः स सुराधमो लज्जितः सन् देवलोकं गच्छति, अस्मिन्नवसरे भगवान् निश्वस्य नयनयुगलमुन्मील्य च गच्छन्तं तं पश्यति, पश्यश्च भगवान् विचारयति-अहो ! मदन्तिकमागत्यानेन धर्मलेशोऽपि नासादि, प्रत्युत घोरं कर्म निबद्धं हा ! किमस्य भावीति, एतद्विचारणायां भगवतो नयनयुगलं करुणानीरप्लावितमभूदिति। इदं शार्दूलविक्रीडितं वृत्तम् , तल्लक्षणं तु 'अतिधृत्यां म्सौ ज्सौ तौ गः शार्दूलविक्रीडितं हैः' [मसजसततगाः, कैरिति द्वादशमियतिः ] इतिच्छन्दोऽनुशासने ॥६॥
___ इदानीं वाच उत्कर्षमाह-'प्रबन्धानाम् ' इत्यादिना । सा वाग् जयतीत्यन्वयः । साम्यत्पदप्रतिपाद्यत्वेन वक्तबुद्धिविषया । वागवाणी । जयति-उत्कर्षेण वर्तते । कीदृशी वाणी ? इत्याकाङ्क्षायां प्रतिपत्साम्येनाह-प्रबन्धानामनध्यायः, तत्र वाणीपक्षे प्रबन्धानां प्र प्रकृष्टा ये बन्धा अवरोधा गहनविषयप्रतिपादनासमर्थत्वादयस्तेषामनध्यायः अविषयः, सकलविषयप्रतिपादिकेत्यर्थः । यद्वा प्रकृष्टानां बन्धानां रचनानामनध्यायोऽविषयः । विशिष्टकाव्यरचनयापि यस्या यथास्थितं समग्रस्वरूपं वर्णयितुं न शक्यत इत्यर्थः, अवर्णनीयस्वरूपाऽत्युत्तमेतिफलितोऽर्थः । प्रतिपत्पक्षे तु प्रबन्धानां शास्त्राणाम् , अनध्यायः अनध्यायहेतुत्वादनध्यायः, प्रतिपदि लोके शास्त्राध्ययननिषेधात्, यदुक्तम्-"प्रतिपत्पाठलेशेन विद्या याति रसातलम् ' एवं सीतावृत्तान्तं पृष्टेन हनूमता रामायामिहितं “प्रतिपत्पाठशीलानां विद्येव तनुतां गता" इति । अनध्यायशब्दस्य वाणीविशेषणत्वेऽपि नियतलिङ्गत्वात् नपुंसकलिङ्गे निर्देशः । सा का ? ययावाचा, कीदृश्या ? शुद्धया दोषरहितया, प्रतिपदा-प्रतिपत्तिः प्रतिपत् तया, बुद्धयेत्यर्थः, क्षीणोऽपि-हीनोऽपि, कविः काव्यकारी, जीवतिउच्छसिति लोके लब्धप्रतिष्ठो भवतीत्यर्थः, यद्वा जीवो बृहस्पतिः स इवाचरतीति जीवति बृहस्पतिसमानो भवती त्यर्थः । 'जीवी जन्तुबृहस्पती' इति शास्वतः । कयेव कः ? प्रतिपदेवेन्दुः प्रतिपदा-प्रतिपद्यते पक्षस्याद्यतया ज्ञायते इति प्रतिपत् पक्षप्रथमतिथिस्तयेव, कथम्भूतया ? यया शुद्धया-धवलया, शुक्लपक्षसत्कप्रथमतिथ्येत्यर्थः, “प्रतिपत् तिथिसंविदोः" इति शास्वतः । इन्दुः चन्द्रः, कथम्भूतश्चन्द्रः ? क्षीणोऽपि शुक्ल प्रतिपदा विगलितकलोऽपि, कि करोति? जीवति-उत्तरकालिकाधिकाधिककलारूपप्राणान् धारयति । इदं पथ्यावृत्तम्, तल्लक्षणं तु 'ताजोर्जः पथ्या' [तद् 'अनुष्टुभि नाद्यात् स्नौ तुर्याद्यो वक्त्रम्' इत्युक्तं वक्त्रं युजोः पादयोस्तुर्यादक्षरात् परो जगणश्चेद् भवति तदा पथ्या ] इतिच्छन्दोऽनुशासने ॥७॥
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। [टिप्पनक-व्याख्या-विवृतिविभूषिता वार्योऽनार्यः स निर्दोषे, यः कान्याध्वनि सर्पताम् ।
अग्रगामितया कुर्वन् , विघ्नमायावि सर्पताम् ॥९॥ [ पथ्यावृत्तम् ] ॥
ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ अथ कविवर्णनं दुर्जननिन्दा चाह-वन्द्या इति सुगमम् । सोऽनार्यो दुर्जनो वार्यों निवारणीयो य आयाति प्राप्नोति, कां ? सर्पतामहिताम् , किं ? कुर्वन् विदधानः, कि ? विघ्नमन्तरायं दोषोत्पादनलक्षणम् , कयाऽप्रगामितया पुरोगन्तृत्वेन, केषां ? सर्पता प्रवर्त्तमानानाम् , क्व ? काव्याध्यनि-काध्यमार्गे, किंभूते ? निदोषे छन्दोऽलङ्कारादिदोषरहिते, सर्पोऽपि यदा मार्गे चोरादिदोषशून्ये गच्छतामग्रगामित्वेन विघ्नं करोति तदा वार्योऽनार्यः क्रुद्धः ॥९॥
卐 श्रीमत्पन्नसागरविबुधरचिता व्याख्या ' अथ स्वाधिकपुरुषवन्दनाद्याचारपरेण हीनसंगपरिहारः कार्य इत्येतद्दर्शयति, वार्योऽनार्यः स इति, व्याख्या० सोऽनार्थो नीचो दूरदूरतरपरित्यागेन वार्यो निषेध्यस्तस्यासदोषाविश्कारकत्वेन वचनान्यपि नाऽऽकर्णनीयानीत्यर्थः । अथैतस्य परिहारनिदानत्वरूपमाह-यो निर्दोषे दोषरहिते काव्याध्वनि काव्यमार्गे रचनारूपे सर्पतां बजा तत्कुर्वतामित्यर्थः, यत्तत्प्रलापितया विघ्नमन्तरायं कुर्वनगामितया नीचपुरस्सरतया सर्पतामायाति प्राप्नोति, यथाहि निर्दोषे मार्गे गच्छता पुंसामन्तरायातः सर्पः स्खलनारूपं विघ्नं करोति तथाऽयमपि तत्स्वभावतया सत्काव्यकरणादरवतां सतामसदोषाविष्कारकरत्वेनोत्साहभङ्गरूपं विघ्नं करोतीति वार्य एव हेय एवाऽनार्य इति वृत्तार्थः ॥९॥
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ सम्प्रति सत्कवीन् स्तौति 'वन्द्यास्ते 'इत्यादिना । ते कवयो वन्द्या इत्यन्वयः । वन्द्याः वन्दितुं योग्याः। किंविशिष्टाः कवयः ? काव्यपरमार्थविशारदा काव्यानां 'काव्यं रसात्मकं वाक्यम्' इत्याधुक्तलक्षणानां यः परमार्थो यथास्थितसमीचीनार्थस्तस्मिन् विशारदास्तद्विचारणे निपुणा इत्यर्थः, यद्वा काव्यमेव परमार्थः परोपकारस्तस्मिन् विशारदाः कुशला इति । ते के ? ये विचारयन्ति, कान् विचारयन्ति ? गुणान्-रसोत्कर्षहेतून् माधुर्योजःप्रसादाख्यकाव्यगुणान् , दोषांश्च-च पुनः, दोषान्-वक्ष्यमाणकाव्यदोषान्, न केवलं गुणान् किन्तु दोषानपीत्यर्थः । कीदृशाः सन्तो विचारयन्ति ? गतमत्सरा-गतो नष्टो मत्सरोऽन्यशुभद्वेषो येषां ते तथा । इमे दोषाः-रसादेः स्वशब्दोक्तिः क्वचित्संचारिवर्ज दोषः । रसदोषा विभावानुभावक्लेशव्यक्तिः पुनःपुनर्दीप्त्यकाण्डप्रथाच्छेदाङ्गातिविस्तारानयनुसंधानानङ्गामिधानप्रकृतिव्यत्ययाश्च, निरर्थकासाधुत्वे पदस्य, वावयदोषा विसन्धिन्यूनाधिकोक्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गहतवृत्तसंकीर्णगर्भितभग्नप्रक्रमानन्वितत्वानि, पदवाक्यदोषा अप्रयुक्ताश्लीलासमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधेयांशविरुद्धबुद्धिकत्वानि । अर्थदोषाः कष्टापुष्टव्याहतग्राम्याश्लीलसाकाङ्क्षसंदिग्धाक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यायप्रसिद्धिविद्याविरुद्धत्यक्तपुनरात्तपरिवृत्तनियमानियमविशेषसामान्यविध्यनुवादत्वानि । इदं पथ्यावृत्तम् , तल्लक्षणं तु “ ताजोर्जः” [तद् 'अनुष्टुमिनाद्यात्स्नौ तुर्याद्यो वक्त्रम्' इत्युक्तं वक्त्रं युजोः पादयोस्तुर्यादक्षगत् परो जगणश्चेद् भवति तदा पथ्या ] इतिच्छन्दोऽनुशासने ॥८॥
अथ दुर्जनपरिहारं दर्शयति 'वार्योऽनार्य 'इत्यादिना । —सोऽनार्यो वार्यः' इत्यन्वयः, सः, अनार्यः दुर्जनः, वार्य-निवारणीयः, दूरतः परिहरणीयः । स कः ? यः सर्पतां सपत्वमहित्वम् , आयाति प्राप्नोति, सर्पसमानो भवतीत्यर्थः । किं कुर्वन् ? विघ्नम्-उपद्रवमलीकदोषोद्भावनलक्षणम्, कुर्वन्-विदधानः, कया रीत्या ? अग्रगामितया-पुरोगन्तृत्वेन, केषाम् ? निर्दोषे काव्यावनि सर्पताम् , निर्दोषे-छन्दोऽलंकारादिसत्कदोषरहिते, काव्याध्वनि-कान्यमेवाध्वा नानातत्त्वपिपासुजनपथिकैः समाश्रितत्वात् पन्थास्तत्र, सर्पताम् सर्पन्ति गच्छन्तीति
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तिलकमञ्जरी ]
शेषे सेवाविशेषं ये, न जानन्ति द्विजिह्वताम् ।
यान्तो हीनकुलाः किं ते, न लज्जन्ते मनीषिणाम् १ ||१०|| [ पथ्यावृत्तम् ] ॥
Acharya Shri Kailassagarsuri Gyanmandir
5 विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकम् 5
शे तालव्यशकारे पे मूर्धन्यषकारे से दन्त्यसकारे वा समुच्चये विशेषं मेदं ये नरा न जानन्ति न बुध्यन्ते से किं न लज्जन्ते लज्जितव्यमेव तैर्भवति, केषां ? मनीषिणां विदुषाम्, किं कुर्वन्तो ? यान्तो गच्छन्तः, कां ? द्विजिह्नतां दुर्जनतामग्रे पृष्ठतो गुणदोषग्राहित्वात् कीदृशा ? हीनकुला नीचगोत्रा इत्येकोऽर्थः । अपरश्व शेषे नागराजे सेवाविशेषं विशिष्टाराधनं ये न जानन्ति, अहीनामीनः स्वामी नागराजस्तस्य कुलं गोत्रं येषां ते तथोक्ता नागराजकुलजातास्ते किं न लज्जन्ते ? लज्जन्त एव मनीषिणाम्, किं कुर्वन्तो ? यान्तः, कां ? द्विजिह्वतां सर्पताम्, अवश्यमेव ये नागराजकुले जातास्ते नागराजसेवां जानन्ति, यद्वा ही विस्मये, से नकुलाः किं न लज्जन्ते लजन्त एव, कैषी ? मनीषिणां बुद्धिमताम्, किं कुर्वन्तो ? यान्तः, कां ? द्विजिह्वतां सर्पताम्, वयं सर्पा इति भणन्तः ॥ १०॥
२१
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 5
अथैतादृशस्वभाववतां पदे पदे लज्जैव कर्तुं युक्तेत्येतद्दर्शयति - शेषे सदा इति, व्याख्या ० ते मनीषिणः पण्डितम्मन्याः किं न लज्जन्ते लज्जावन्तः किं न भवन्त्यपि तु तथाविधे स्थाने निर्लज्जा अपि लजां प्राप्नुवन्तीत्यर्थः । के ते मनीषिण इत्याह-ये सर्वस्याऽपि विश्वस्य स्वस्वभावतुल्यतया पश्यन्तः शेषे स्वस्मादितरस्मिन् सत्पुरुषे सदा निरन्तर विशेषं सदाचरणादिगुणाधिक्यं न जानन्ति न विदन्ति । ननु कथं नैते तद्विशेषं जानन्तीत्याहकिं कुर्वन्तस्ते यान्तः प्राप्नुवन्तः कां द्विजिह्नतां पिशुनतां तादृशा हि न कस्याऽपि गुर्ण जानन्तीत्यर्थः । अथ ताशा भवन्तस्ते लोके कीदृशं व्यपदेशं प्राप्नुवन्तीति दर्शयति, हीनकुला इति व्यक्तम् । अत एव ते प्रस्तावे स्वलक्षणजनिततापेन लज्जन्त एवेति । अथ द्वितीयं व्ययार्थमाह-ये शेषे शेषनागे द्विजिह्नतां सर्पतां गत्यर्था ज्ञानार्था ' इति वचनाद्यान्तो विदन्तो यथैते सर्पास्तथाऽयमपि सर्प एवेति ज्ञानवन्तो वसुन्धराधारित्वाहिविशेषं न जानत्यपरसर्पेष्विव शेषेऽप्याचरन्ति । ते च क इत्याह-हीनेति हीति निश्वये खेदे वा ते नकुला किं न लज्जन्त इति योज्यम् । किंविशिष्टा नकुला मनीषिण इति नकुल्यौषध्यादाने मनीषा बुद्धिरस्त्येषां ते तथेति वृत्तार्थः ॥ १० ॥
5 श्रीविजयलावण्यसूरिविरचिता परागामिधा विवृतिः
सर्पन्तस्तेषाम्, गच्छतामित्यर्थः, काव्यरूपमार्गे प्रवर्तमानानां जनानामिति फलितोऽर्थः । अह्निरपि यदा चौरादिरूपदोषरहिते मार्गे गच्छतामप्रगामितया तिरोगच्छन् विघ्नं अपशुकनलक्षणमुपद्रवं करोति तदाऽनार्यः क्रुद्धो वार्यः । इदं पथ्यावृत्तम्, तलक्षणं तु अष्टम श्लोकविश्रुतिप्रान्ते दर्शितम् ॥९॥
For Private And Personal Use Only
अथ दुर्जनदुर्दशा दर्शयति- शेषे सेवाविशेषमित्यादिना 'ये शेषे से वा विशेषं न जानन्ति ते हीनकुलाः किं न लज्जन्ते' इत्यन्वयः । ये दो - तालव्यशकारे, पे- मूर्धन्यषकारे, से- दन्त्यसकारे, वा-च, विशेषं-तालव्यमूर्धन्यदन्यरूपं भेदम्, न जानन्ति = नावबुध्यन्ते ते, हीनकुलाः = अधमकुला दुर्जनाः, किं न लज्जन्ते अर्थादवश्यं तैर्लज्जितव्यमिति काकुः । यद्वा शेषे - स्वातिरिक्ते सज्जने सेवाविशेषं विशिष्टसेवागुणम् अन्यत् समम् । कीदृशाः सन्तः ? द्विजिह्वतां यान्तः, द्विजिह्नतां - जिह्वे कथनप्रवृत्ते रसने येषां ते द्विजिह्वास्तेषां भावो द्विजिह्वता तां तथा, रसनायुगलमित्यर्थः । यान्तः - गच्छन्तः । अयं भावः - दुर्जना हि प्रत्यक्षे गुणोच्चारणप्रवृत्तां जिह्वां परोक्षे दोषोचारणप्रवृत्तां च जिह्वां धारयन्ति, प्रत्यक्षे गुणवाचिनः परोक्षे दोषवाचिनश्चेत्यर्थः यद्वा पूर्वमन्यवदनप्रवृत्तां पश्चात्
و
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
२२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक-व्याख्या-विवृतिविभूषिता
स्वादुतां मधुना नीताः, पशूनामपि मानसम् । मदयन्ति न यद्वाचः, किं तेऽपि कवयो भुवि ? ॥ ११॥ [ पथ्यावृत्तम् ] ॥
5 विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकम्
"
किं तेऽपि कषयः = कवितारो न कवय इत्यर्थः कस्यां ? भुवि जगति, यद्वायो येषां गिरो न मदयन्ति न हर्षयन्ति, किं तत् ? मानसम् केषा ? पशूनामपि मूर्खाणामथाऽऽस्तां विदुषाम्, किंभूताः ? नीताः प्रापिताः, को ? स्वादुतां मधुरताम्, केन ? मधुना माधुर्येणेत्येकोऽर्थः । अपरश्च किं तेऽपि कवयः कं जलं तस्य वयः पक्षिणो हंसादयः कस्य ब्रह्मणो वा वयो-हंसा वाहनत्वात् एतच्चोपलक्षणं कोकिलादिपक्षिणाम्, न कवय इत्यर्थः, यद्वाचो यद्गरो भुवि पृथिव्यां पशूनां - तिरश्चामथास्तां मनुष्याणां मानसं न मदयन्ति न मतं कुर्वन्ति । किंभूता यद्वाचो ? नीताः प्रापिताः, कां ? स्वादुतां माधुर्यम्, कैन ? मधुना चैत्रेण तत्र पुष्परसपानादिना स्वरमाधुर्यप्राप्तेः, अथवा पिकवयः किं कोकिलपक्षिणस्ते भुवि - पृथिव्यां नैवेत्यर्थः ॥ ११ ॥
5 श्रीपद्मसागरविवुधरचिता व्याख्या
ननु दुर्जनपरिहारेण कवीनां वन्यत्वमुपदर्शितं ते च कवयः किं वाङ्मात्रेण स्युर्वाग्विशेषेण वेति शिष्यसन्देहनिरासार्थं वाग्विशेषेणैव कविता स्यान्न यथातथेति दर्शयन्नाह - स्वादुतामिति । व्याख्या० अत्र हि कवीनां कोकिलानां च साम्यमुपवर्णितम्, तथा च तेऽपि किं भुवि पृथिव्यां कवयः स्युर्नैव स्युरित्यर्थः । ते च क इत्याह यद्वाच इति येषां गिरो मधुना माधुर्यगुणेन स्वादुतां नीताः प्रापिताः सत्यः पशूनामपीति पशुप्रायाणामपि जनानां मानसं चेतो न मदयन्ति मदैचि हर्ष इति धातोर्न मदवद्धर्षवत् कुर्वन्ति । अयं भावः कवीनां स्ववाग्विलासफलं तु मुग्धजनबोध एव, मुग्धजनास्तु पशुप्राया एव, तथा च कविभिस्तथा स्ववाग्विलासः कर्तव्यो यथा मुग्धा बुध्यन्ते हर्षवन्तश्च भवन्ति, येषां वाचस्तु नैतादृशास्ते स्ववाक्फलाभावात् कवय एव न स्युरिति तात्पर्यम् । अथ कोकिलार्थ उपदर्श्यते, ते किं पिकाश्च ते वयश्च पक्षिणश्च पिकवयः कोकिलपक्षिणो भण्यन्ते नैव भण्यन्त इत्यर्थः, के त इत्याह-मधुना चैत्रेण स्वादुतां नीताः सत्यो यद्वाचो येषामालापा गवादीनामपि पशूनां मानसं चेतो न मदयन्ति न मदोन्मत्तं कुर्वन्ति । अयं भावः, कोकिला हि चैत्रमासे मधुरभाषिणः सन्त आस्तां विदग्धजनान् । पशूनपि रञ्जयन्ति । ये च नैवंविधाः पक्षिणो न ते कोकिलाः किन्तु काकप्राया एवेति वृत्तार्थः ॥ ११ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
तदन्यतद्विपरीतवदनप्रवृत्तां च जिह्वां धारयन्तीत्यर्थः, मिथ्याभाषिण इति भावः । क्व लज्जितव्यम् ? मनीषिणां विदुषाम्, ' मध्ये ' इति शेषः, निरुक्तदुर्जनैर्विद्वत्सभायामवश्यं लज्जितव्यमिति फलितोऽर्थः । मनीषिण इतिपाठे मनीषिणः पण्डितंमन्या दुर्जना इत्यर्थः । सर्पपक्षे- 'द्विजिह्नतां यान्तो ये अहीनकुलाः शेषे सेवाविशेषं न जानन्ति ते मनीषिणां [मध्ये ] किं न लज्जन्ते इत्यन्वयः । द्विजिहतां सर्पत्वम्, यान्तः = प्राप्नुवन्तः, सर्पलक्षणभूतजिह्वाद्वयधारिण इत्यर्थः, ये, अहीनकुलाः - अहीनां सर्पाणामिनः स्वामी नागराज इत्यर्थः, तस्य कुलं गोत्रं येषां ते तथा, नागराजकुलोत्पन्ना इत्यर्थः, शेषे = नागराजे, सेवाविशेषं विशिष्टाराधनाम्, न जानन्ति ते, मनीषिणां - तत्त्ववेदिनाम्, मध्ये, किं न लज्जन्ते - लज्जन्त एवेत्यर्थः, नागराजकुले समुत्पन्नैरवश्यं नागराजसेवा ज्ञातव्या भवति, अत्र तु तथात्वाभावो लज्जाकारणमिति भावः । यद्वा नकुलपक्षे - ' ही द्विजिह्वतां यान्तो नकुला मनीषिणां [मध्ये] किं न लज्जन्ते' इत्यन्वयः । ही - शब्दो विस्मये वर्तते, तथा च विस्मयोऽत्र वर्तते, कोऽयं विस्मयः ? द्विजिह्वतां = सर्पत्वम्, यान्तः प्राप्नुवन्तः, वयं सर्पा इति भाषिण इत्यर्थः, नकुलाः प्रसिद्धाः, मनीषिणां - बुद्धिमताम् मध्ये किं न लज्जन्ते, लज्जन्त एवेति । इदं पथ्यावृत्तम् तलक्षणं तु अष्टमश्लोकविवृतिप्रान्ते दर्शितम् ॥१०॥
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
तिलकमञ्जरी] काव्यं तदपि किं वाच्य-मवाचि न करोति यत् ।
श्रुतमात्रममित्राणां, वक्त्राणि च शिरांसि च ॥१२॥ [पथ्यावृत्तम् ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ तदपि किं काव्यं वाच्य भणनीयं न काव्यं वाच्यमित्यर्थः यन्न करोति, किं भूतं सत् ? श्रुतमात्रमाकर्णितमात्रमास्तामर्थादिनाऽवधारितम् , कानि ? वक्त्राणि मुखानि शिरांसि मस्तकानि चकारौ परस्परापेक्षया समुचयार्थों, केषाममित्राणां द्विषतां दुर्जनानामित्यर्थः, किं भूतानि न करोति ? अवाञ्चि वचनरहितानि वक्त्राणि शिरांसि चाऽधोमुखानि गुणयुक्तत्वेन दोषरहितत्वेन च ॥ १२ ॥
卐 श्रीपद्मसागरविबुधरचिता व्याख्या : अथ सत्कविकृतकाव्यस्याऽतिशयं दर्शयति, काव्यं तदपीति। व्याख्या. तदपि किं काव्यं वाच्यं नैवेत्यर्थः, किं तदित्याह-यच्छ्रतमात्रमाकर्णितमात्रं सदमित्राणां स्वस्पर्धिनां वक्त्राणि मुखानि चः पुनरर्थे शिरांसि मस्तकानि, अवाञ्चि इति वक्त्रार्थे न विद्यन्ते वाचो वचनानि येषु तान्यवाश्चि, शिरोऽर्थे तु अवाक्शब्दस्याऽग्रतः प्रथमा[द्वितीया] बहुवचनस्य विद्यमानत्वेनाऽवाचीति रूपसिद्धेरवाञ्चीत्यधःस्थानि न कुर्वन्ति, अयं भावो यस्मिन् काव्ये श्रुते सति स्पर्धिनो न किंचिद्वक्तुं शक्नुवन्ति, यतस्ते हि सर्वथा गुणपरिहारेण किंचिद्रूषणमेव वदन्ति, दूषणस्य तत्र लेशमात्रस्याऽप्यभावान्मौनवन्त एव ते स्युः । शिरांसि तु तत्र दूषणकणस्याऽप्यलाभात्तदनीप्सिततत्तद्गुणश्रवणसंजातशोका इव शिरस्यधः कुर्वन्तीति वृत्तार्थः ॥ १२॥
श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ सम्प्रति कविगुणं वनयति ‘स्वादुतामि 'त्यादिना । —किं तेऽपि कवयः' इत्यन्वयः । किम् ? ते, अपि, कवयः कवितारः, अर्थात कवय इत्यर्थः । क्व ? भुवि-जगति । ते के ? इत्याकाक्षायाम् 'मधुना स्वादुतां नीता यद्वाचः पशूनामपि मानसं न मदयन्तीत्यन्वयः । मधुना-माधुर्येण, स्वादुतां-मनोज्ञताम् , नीताः-प्रापिताः, यद्वाचः येषां गिरः, पशूनामपि-पशुसदृशानां मूर्खाणामपि, आस्तां विदुषाम् , यद्वा पशूनां देवानाम् मानसंचित्तम्, न मदयन्ति=न हर्षयन्ति ॥ कोकिलपक्षे-किं ते पिकवय इत्यन्वयः । तत्र पिकवयः-पिकपक्षिणः, कोकिला इत्यर्थः, मधुना-चैत्रमासेन, तत्र पुष्परसपानादिना स्वरमाधुर्यप्राप्तेः । पशूनामपि-मृगादीनामपि तिरश्चाम् , आस्तां मनुष्याणाम् । भुवि-पृथिव्याम् । शेषं पूर्ववत् । यद्वा ‘किं तेऽपि कवयः' इत्यत्र कवय इत्यस्यायमर्थः-कस्य जलस्य वयः पक्षिणो हंसादयः, अथवा कस्य ब्रह्मणो वयः पक्षिणो हंसवाहनत्वाद् हंसा एतचोपलक्षणं कोकिलादिपक्षिणाम् । शेषं प्राग्वत् । इदं पथ्यावृत्तम् , तलक्षणं तु अष्टमश्लोकविवृतिप्रान्तेऽभिहितम् ॥११॥
अधुना काव्यं समीक्षते 'काव्यं तदपि 'इत्यादिना । 'तदपि कि काव्यं वाच्यम्' इत्यन्वयः । तदपि, किम् ? काव्यं प्रज्ञा नवनवोल्लेख-शालिनी प्रतिभा मता । तदनुप्राणनाजीव-वर्णनानिपुणः कविः ॥१॥ तस्य कर्म स्मृतं काव्यम् ।' इत्याद्युक्तं लोकोत्तरं कविकर्म, वाच्यं-इदं काव्यमस्तीति भणनीयम् , न भणनीयमित्यर्थः, अर्थात्तन्न काव्यमिति फलितोऽर्थः । तत् किम् ? यत् श्रुतमात्रम्-श्रवणगोचरीभूतं सत्, आस्तामर्थादिनाऽवधारितम् , अमित्राणां-शत्रूणां दुर्जनानामित्यर्थः । वक्त्राणि मुखानि, शिरांसि-मस्तकामि, परस्परापेक्षया समुच्चयार्थौ चशब्दो न करोति-न विदधाति, कीदृशानि ? अवाश्चि-मुखपक्षे न विद्यते वाक् वाणी यत्र तादृशानि, वाणीरहितानीत्यर्थः, अत्र अवाच्-शब्दस्य नपुंसके द्वितीयाबहुवचने रूपं ज्ञेयम् , मस्तकपक्षे अव अधोऽचन्ति गच्छन्तीति, अवाश्चि तानि
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
[ टिप्पनक-व्याख्या-विवृतिविभूषिता उत्पतन्त्यजवद् व्योम्नि, केचित् माप्तपदत्र्याः । विशन्त्यन्ये प्रबन्धेऽपि, लब्धे बलिरिव क्षितिम् ॥१३॥ [ पथ्यावृत्तम् ॥]
ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ कधिविशेषमाह-उत्पतन्ति उद्गच्छन्ति उदयन्त इत्यर्थः । केचित् कवयः। क्व ? व्योम्नि-आकाशमपि बुद्धया व्याप्नुवन्ति । किंभूताः सन्तः ? प्राप्तपदत्रया उत्पात-व्यय-ध्रौव्यलक्षणं पदत्रयं प्राप्ता यद्वा सुबन्ततिअन्तपत्रयं प्राप्ताः, अन्ये तु विशन्ति, कां ? क्षितिं क्षयं बुद्धिरहिततां यान्ति, कस्मिन् सत्यपि ? प्रबन्धेऽपि शास्त्रेऽपि, किंभूते ? लब्धे प्राप्ते, क इवोत्पतन्ति ? क इव विशन्ति ? अजवत् विष्णुवत् , यथा विष्णुराकाश उत्पतितः, किंभूतः ? प्राप्तपदत्रयो लब्धाधऊर्ध्वतिर्यक्क्रमत्रितयः, बलिरिव यथा बलि: प्रबन्धे प्रकृष्टबन्धने प्राप्ते क्षिति भूमि प्रविष्टो विभक्तिपरिणामेनैकवचनं योजनीयम् ॥ १३॥
॥ श्रीपद्मसागरविबुधरचिता व्याख्या ॥ __ अथ परमोत्कर्षवतां कवीनां हीनोपमया तिरस्कारपूर्व सत्कवीन् प्रशंसयन्नाह-उत्पतन्त्यजवद् व्योम्नि । व्याख्या० अजवद्विष्णुवत् केचित्कवयः प्राप्तपदत्रयाः सन्तो व्योम्नि गगन उत्पतन्त्यूयं गच्छन्ति, अयं भावः, यथाहि प्राप्तपदत्रयः कृतत्रिपादो विष्णुर्गगन उत्पतितवानयं हि लोकसमये यदलिभूपालस्य पातालक्षेपावसरे पादत्रयं विकृत्य व्योम्न्युत्पपात तथा च केचित् कवयोऽप्येकद्वित्रिपदबोधेनोत्कर्षिणः सन्तो व्योम्न्युत्पतन्त्युद्गच्छन्तीत्यर्थः । अत्र चाऽजशब्दवाच्यबुत्कटस्य व्यङ्गयत्वेन हीनोपमानादुत्कर्षवतां कवीनां तिरस्कारः कृतो भवतीति । अथ शान्तोत्कर्षान् कवीनुत्तमोपमानेन प्रशंसयन्नाह-विशन्तीति, अन्ये पूर्वोक्तेभ्यः कविभ्योऽन्यस्वभावतया इतरे कवयः, प्रकृष्टो बन्धो रचना यत्र तत्प्रबन्धं सुशास्त्रं तस्मिन् लब्धे प्राप्ते सच्छास्त्रेऽधीते सत्यपीत्यर्थः । सर्वथा गलितोत्कर्षतया जनैः श्लपिताः सन्तो वलिरिव बलिभूपालवत् क्षिति पृथ्वी विशन्ति प्रविशन्ति । अयं भावः, अधीतसच्छास्त्रत्वेन गलितोत्कर्षतया च ते साधुकवयो जनैः प्रशंसिताः सन्तो न मनागप्युच्छ्वसन्ति किन्तु जनप्रशंसावसरे सलजत्वेनाऽधोमुखाः सन्तो ज्ञायते पृथ्वीं प्रविशन्तीति । बल्यर्थे तु प्रबन्धे प्र प्रकर्षण बन्धे बन्धने वाग्यन्त्रणरूपे लब्धे सति क्षिति पातालं प्रविष्टवानिति । अत्र च बलिदृष्टान्तस्योत्तमत्वेन तद्दार्टान्तिककवीनां प्रशंसा कृता भवतीति वृत्तार्थः ॥ १३ ॥
9 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ तथा अधोगतानीत्यर्थः, अत्र अवोपसर्गपूर्वकेण विबन्तेन अञ्चधातुना निष्पन्नस्य अव-अच् अवाच्-शब्दस्य नपुंसके द्वितीयाबहुवचने रूपम् । अभिमतकाव्यस्य गुणयुक्तत्वेन दोषरहितत्वेन च दुर्जनानां मुखानि वचनरहितानि मस्तकानि चाधोगतानि भवन्तीति भावः । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते दर्शितम् ॥१२॥
अथाल्पज्ञकवेदप्ततामुपहसन् बहुश्रुतकवेर्नम्रतां प्रशंसन् प्राह-उत्पतन्तीत्यादि । प्राप्तपदन्नयाः केचिद् व्योम्नि उत्पतन्तीत्यन्वयः । प्राप्तपदत्रयाः प्राप्तमवगतं पदानां पदसंज्ञकानां 'राज्ञोऽयं ग्रामः' इत्यादिस्याद्यन्तशब्दानां 'जयति नयति पचति' इत्यादि त्याद्यन्तशब्दानां वा त्रयं यैस्ते तथा, अल्पज्ञा इत्यर्थः । विभक्त्यन्तशब्दस्य वैयाकरणैः पदसंज्ञा कृता, सा च विभक्तिद्विधा स्यादिरूपा त्यादिरूपा चेति तदन्तस्य पदत्वं सिद्धमेव । केचित्-कतिपये, कविप्रस्तावात् कवयः । व्योम्नि आकाशे, उत्पतन्ति-उड्डयन्ते, वागाडम्बरबहुला भवन्तीत्यर्थः, क इव ? अजवत्-विष्णुरिव, यथा विष्णुबलिनाम्नो राशः सकाशात् पदत्रयं पदत्रयप्रमाणभूमि वरेणासाद्याकाशे उत्पतितः । अन्ये-निरुक्ताल्पज्ञदृप्तकविव्यतिरिक्ताः कवयः, प्रबन्धे-शास्त्रे, लब्धेऽपि अधिगतेऽपि, क्षिति-पृथिवीम् , विशन्ति-प्रविशन्ति, नम्रा भवन्तीत्यर्थः । क इव ? बलिरिव-बलिभूपाल इव, यथा बलिराजः, प्रबन्धे पदत्रयप्रमिता भूमिर्मया दत्ता' इति
For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] कपाश्मनेव श्यामेन, मुखेनाधोमुखेक्षणः । काव्यहेम्नो गुणान् वक्ति, कलाद इव दुर्जनः ॥१४॥ [ मविपुलावृत्तम् ] ॥
+ विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ दुर्जनस्वरूपमाह वक्ति-ब्रूते, को ? दुर्जनः, कान् ? गुणान् श्लेषादीन, कस्य ? काव्यस्य, क इव कस्य : कलाद इव सुवर्णकार इव हेम्नः सुवर्णस्य यथा वक्ति गुणान् विषाद्यपनयनादीन् , केन ? मुखेन वक्त्रेण, किंभूतेन श्यामेन कृष्णेन, काव्यस्यानेकगुणदर्शनेन श्यामता, कीदृशो दुर्जनोऽधोमुखेक्षणोऽवाग्लोचनः, केनेव ? कषाऽश्मनेव कषवर्तकप्रस्तारेणेव मुखेन, तेनापि किंभूतेन ? श्यामेन-कृष्णेन, कलादोऽप्यधोमुखेक्षणः सुवर्णदत्तलोचनत्वात् ॥ १४ ॥
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या के अर्थतादृशकविकृतकाव्यगुणान् पटुपटुतरवचनैः सजनाः स्तुवन्त्येव परं दुर्जना अप्यनया चेष्टया गुणान् वदन्तीति दर्शयति-कषाश्मनेवेति । व्याख्या० काव्यहेम्न इति, काव्यरूपस्वर्णस्य कलाद इव स्वर्णकार इव दुर्जनो गुणान् पक्ति, यथा स्वर्णकारः स्वर्णगुणान् वक्ति तथा काव्यगुणान् दुर्जनोऽपि वक्तीत्युभयोः साम्येन विशेषणमाह-कथंभूतो दुर्जनोऽधोमुखेक्षणो मुखं चेक्षणे च मुखेक्षणानि, अधःस्थानि मुखेक्षणानि यस्याऽसावधोमुखेक्षण एवंविधः सन् केन कृत्वा गुणान् वक्तीत्याह, केन ? मुखेन, कथंभूतेन ? श्यामेन कालेन, कोऽर्थो ? दुर्जनो हि सत्काव्यश्रवणानन्तरं तत्र दूषणलेशाभावात्स्वमखं कृष्णं करोति. तदानीं तन्मखकायेनैव परैर्जायतेऽवश्यमत्र काव्ये गुणा एव सन्त्यन्यथा परदूषणग्रहणपटोरस्य मुखकायं न स्यादिति परप्रत्ययोत्पादकत्वेन काव्यगुणान् वक्तीत्युक्तम् । अथ तन्मुखकार्योपमानमाह-केनेव श्यामेन कपाश्मनेव कषपट्टपाषाणवच्छयामेन मुखेनेत्यर्थः । अथ स्वर्णगुणवर्णने स्वर्णकारविशेषणमाह-कीदृशः कलादोऽधोमुखेक्षणोऽधःस्थापितवदननयनः, परीक्षार्थं हि स्वर्णधमनं कुर्वन् कलादोऽधोमुखनयनो भवंस्तद्गुणान् वक्ति, केन ? मुखेन, कथंभूतेन ? श्यामेन प्रबलधूमसंपर्कतः श्यामीभूतेनेत्यर्थः । अत्र साक्षिकदृष्टान्तमाह केनेव ? कपाश्मनेव, यथाहि कषपट्टपाषाणेन कृत्वा स्वर्णकारस्तद्गुणान् वक्ति तथाऽयमप्यतेन कृत्वेति वृत्तार्थः ॥ १४ ॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ वचननियन्त्रणरूपे प्रबन्धे-प्रकृष्टे बन्धे बन्धने, लब्धे प्राप्ते सति, क्षिति-पातालरूपां पृथिवीम् , विशन्ति-वचनविपरिणामेन प्रविशति । अत्र पौराणिकाः-बलिभूपालस्य मनोवाञ्छितप्रदानेनाभिमानो जातः, तद्रीकरणाय विष्णुना रूपान्तरं विकृत्य पदत्रयप्रमाणा भूमिर्याचिता, बलिनापि दत्ता । अथ विष्णुरारचितविशालरूपः सन् एकेन पादेन मानवलोकं द्वितीयेनाकाशं तृतीयेन च देवलोकमेवं पदत्रयेण बलिभूमि गृहीतवान् , बलिरपि मयेय भूमिर्दत्ताऽतो नात्र स्थेयनिति ध्यात्वा पातालं जगामेति । यद्वा प्राप्तपदत्रयाः प्राप्तं तीर्थंकरादवगतं पदन्नय ‘उत्पद्यते विनश्यति ध्रुवति च' इति उत्पादव्ययध्रौव्यलक्षणं पदत्रिक त्रिपदी यैस्ते तथा, स्याद्वादवादिन इत्यर्थः, केचित् गौतमगणधरादिसदृशाः कतिपये कवयः, न तु सर्वे, व्योम्नि-लोकालोकरूपे आकाशे, उत्पतन्ति-उड्डयन्ते, आकाशमपि स्वधिया व्याप्नुवन्तीत्यर्थः । अयं भावः-गणधरस्तीर्थकरस्य सकाशात् 'उत्पद्यते विनश्यति धुवति च' इति त्रिपदीमासाथ समासादितज्ञानविकासः सकलश्रुतमयीं द्वादशाङ्गी रचयति, तत्र निखिलभावकलितलोकालोकरूपाकाशस्यापि निरूपणमायातीति पदत्रयेणाकाशव्यापनम्' क इव ? अजवत्-न जायत इत्यजः, जन्मरहितो मुक्तात्मा सिद्ध इत्यर्थः, मुक्तात्मा केवलज्ञानेन लोकालोकरूपमाकाशं जानाति व्याप्नोति, एवमव्यवहारराशिपदं व्यवहारराशिपदं मुक्तावस्थापदं च क्रमेण प्राप्तोऽस्ति । अन्ये-त्रिपदीज्ञानविकला अपरे कवयः, प्रबन्धे-एकान्तवादकलिते शास्त्रे, लब्धेऽपि अधिगतेऽपि, क्षिति-क्षयं व्यापकबुद्धिरहिततां वादे पराजय वा, विशन्ति-प्रविशन्ति, प्राप्नुवन्तीत्यर्थः, क इव ? बलिरिव, यथा पूजोपहारादिरूपो बलिः समुद्गादिरूपे प्रकृष्टे
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
_ [ टिप्पनक-व्याख्या-विवृतिविभूषिता अखण्डदण्डकारण्य-भाजः प्रचुरवर्णकात् । व्याघ्रादिव भयाघ्रातो, गद्याद् व्यावर्तते जनः ॥१५॥ [ पथ्यात्तम् ] ॥
+ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ ईदृशं गयं न कार्यमिति दर्शयितुमाह-गद्याच्छन्दोरहितवचनाद्वयावर्त्तते निवर्तते, जनो लोको न स्वीकरोतीत्यर्थः । किंभूतः सन् ? भयाघ्रातो भीग्रस्तः । कस्मादिव ? व्याघ्रादिव पुण्डरीकादिव । कीदृशात् गद्यात् ? कीदृशाच्च व्याघ्राद् ? अखण्डदण्डकारण्यभाजा-अखण्डा परिपूर्णा ये दण्डका बह्वक्षरबहुसमासवचनानि त एवाऽरण्यमतिगम्भीरार्थत्वात्तद्भजते यद्गद्यं तत्तथोक्तं तस्मात्तयुक्तादित्यर्थः, तथा प्रचुरवर्णकात् प्रचुरबहुतरा [प्रचुरा बहुतरा वर्णा ] वर्णनानि यस्मिन् तत्तथोक्तं तस्माद् , बहुवर्णकं हि गद्यमुद्वेजनीयं भवति तथा अखण्डदण्डकं च । व्याघ्रादपि कीदृशादखण्डं निरन्तरं यद्दण्डकारण्यमतिप्रचुरो मानुषरहितो देशस्तद्भाजस्तत्सेविनः, तथा प्रचुरवर्णकादनेकवर्णात् ॥१५॥
+ श्रीमत्पद्मसागरविवुधरचिता व्याख्या + अथ पद्यमयकाव्यवर्णनानन्तरं गद्यस्वरूपव्यावर्णनाथ व्याघ्रोपमानेन गद्यस्य दुरधिगमत्वं दर्शयति, अखण्ड० इति । व्याख्या० व्याघ्रादिव गद्याद्भयाघ्रातो जनो व्यावर्तते निवृत्तिमान् भवतीत्यन्वयः । अथ व्याघ्रगद्ययोरौपम्योपमेययोर्विशेषणसाम्यं दर्शयति, कथंभूताद्द्यादखण्डदण्डकारण्यभाजः, अखण्डाः शब्दार्थासमाप्तप्राया ये दण्डका आलापकास्तेष्वासमन्ताद् व्याप्तिमन्तो द्वित्र्याद्यथनिरूपणनिपुणा अण रण इति दण्डकधातो रणन्तीति रणाः शब्दास्तेषां समूह आरण्य, समूहाथै यणिति सिद्धेस्तद् भजत इति तद्भाक् तस्मात्तद्भाजः, अखण्डदण्डकेषु हि गोषु प्राय एवंविधा एव शब्दा भवन्तीति । व्याघ्रार्थे तु कथंभूताद् व्याघ्रादखण्डदण्डकारण्यभाजोऽखण्डाः पूर्णा आद्यन्तवन्तो वंशादीनां दण्डा यत्र तत् स्वार्थे कात् , अखण्डदण्डकमेवंविधं यदरण्यमटवी तद्भाज इति, घोराटवीवासिन इत्यर्थः । पुनः कथंभूताद्द्यात् प्रचुरवर्णकात् प्रचुरा घना वर्णा अक्षराणि यत्र तत्तस्मात् । व्याघ्रार्थे तु प्रचुरश्चित्रो रक्ततादिरूपो वर्णों यस्य स तथा तस्मात् , यथैवंविधाद् व्याघ्राद्भयाघ्रातो जनो व्यावर्तते तथैवंविधाद्गद्याद् व्यावर्तते कथमहमेवंविधस्यैतस्य पारं यास्यामीति भीतो जनः प्रायो गद्यानिवर्तते, इति गद्यस्य दुरधिगमत्वं दर्शितं तथा चाऽस्याः कथाया गद्यमयत्वेन दुरधिगमता वर्णितेति वृत्तार्थः ॥ १५ ॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ बन्धने लब्बे सति क्षिति-क्षयं निरुद्धत्वात् पर्युषितत्वादिना विनाशं प्राप्नोतीति, यद्वा प्राग्वद् भावना कार्या । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रदर्शितम् ॥१३॥ ___अथ काव्यगुणकथने दुर्जनरीतिं दर्शयति कषाश्मनेवेत्यादिना । दुर्जनः काव्यहेम्नो गुणान् वक्तीत्यन्वयः, दुर्जनः खलः, काव्यहम्नः काव्यमेव सुकृतिसमुपादेयत्वादिना हेम सुवर्णं तस्य, गुणान्-रसोत्कर्षहेतून माधुर्योजःप्रसादाख्यान् श्लेषादीन् वा, वक्ति-कथयति, कीदृशो दुर्जनः ? अधोमुखेक्षणः- मुखं च ईक्षणे नयने चैषां समाहारो मुखेक्षणम् “प्राणितूर्य" [३, १, १३७ ] इत्येकवद्भावः, अधोऽधःस्थितं मुखेक्षणं यस्य स तथा, अयम्भावः-खलः काव्ये दोषाभावेन मुखमूर्चीकृत्य दोषकथनतत्परो न भवितुमर्हति किन्तु गुणदर्शनेन निम्नं मुखं कृत्वा भूतलं पश्यति, केन गुणान् वक्ति ? मुखेन वक्त्रेण, कीदृशेनेव ? कषाश्मनेव श्यामेन-कषाश्मा यत्र रेखां कृत्वा सुवर्ण परीक्ष्यते तादृशः पाषाणखण्डविशेषस्तेनेव श्यामेन कृष्णवर्णेन मलिनेनेत्यर्थः, अयं भावः-काव्ये दोषादर्शनेन दुर्जनस्य मुखं श्याम मलिनं भवति, एतादृशेन मुखेनापि यद्यपि दुर्जनत्वात् स्वयं काव्यगुणान् न वदेत् तथापि तादृशं मलिनं मुखमवलोक्येतरे विचक्षणा जानन्ति, यदुत-अस्मिन् काव्ये गुणाः सन्ति, अन्यथाऽस्य मुखं मलिनं न स्यादिति ‘मुखेन
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
वर्णयुक्तिं दधानापि, स्निग्याञ्जनमनोहराम् । नातिश्लेषघना श्लाघां, कृतिलिंपिरिवाश्नुते ॥ १६॥ [ पथ्यावृत्तम् ] ॥
२७
5 विबुधशिरोमणि श्री शान्त्याचार्यविरचितं टिप्पनकम् 5
ईदृशी च कृतिर्न कार्येति दर्शयति- नाश्नुते न प्राप्नोति, काऽसौ ? कृतिः काव्यरचना, केव ? लिपिरिव लिपिर्यथा, कां च नाश्नुते ? श्लाघां प्रशंसाम् किंभूता कृतिलिपिश्च : अतिश्लेषघना अति अतिशयेन श्लेषेण द्वयर्थप्रतिपादकवचनेन घना व्याप्ता निरन्तर श्लेषेत्यर्थः ? लिपिरतिश्लेषघना इति वर्णान्योऽन्यश्लेषेण घना निरन्तरा, कीदृश्यपि द्वयी, वर्णयुक्तिं दधानापि वर्णकयोगं दधाना विभ्राणाऽपि वर्णयुक्ताऽपीत्यर्थः, लिपिश्च वर्णयुक्तिमक्षरयोगं दधानापि, वर्णयुक्तापीत्यर्थः । किंभूतां वर्णयुक्ति ? स्निग्धाञ्जनमनोहरां स्निग्धामरूक्षां माधुर्यादियुक्तां जनमनोहरां लोकचित्तरञ्जिकाम्, अन्यत्र स्निग्धं यदञ्जनं तेन मनोहरां रमणीयामतिकृष्णत्वात् ॥१६॥
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या
ननु यदि गद्याज्जनो व्यावर्तते तर्हि गयकृतिरश्लाघ्यैवेति चेन्न, एवंविधगद्यकृतेः श्लाघ्यत्वादित्यतस्तस्यास्तथाविधाया एव श्वाघाप्तिं दर्शयति, वर्णयुक्तिमिति । व्याख्या ० लिपिरिवाऽक्षरविन्यास इव कृतिः करणं प्रस्तावाद्गद्यस्यैवेत्यध्याहार्यम्, श्लाघां प्रशंसामश्रुते व्याप्नोति प्रस्तावात् प्राप्नोतीत्यर्थः । लिपिकृत्योर्विशेषणसाम्यमाह-किं कुर्वाणा कृतिर्दधाना, कां ? वर्णयुक्तिमक्षरयुक्तिमक्षररचनामित्यर्थः । कथंभूतां वर्णयुक्ति ? स्निग्धां स्नेहलां तथाविधरसोत्पादकत्वान्न तु रूक्षां, अपेश्वार्थत्वाद् व्यवहितसंबन्धत्वाच्च । पुनः कथंभूतां वर्णयुक्ति ? जनमनोहरां जनानां मनांसि हरतीत्येवं शीला सा तथा ताम् । नन्वस्या अतिश्लेषमयत्वेन कर्कशत्वात् कथं स्निग्धता जनमनोहरता च स्यादित्यत आह-कथंभूता कृतिर्नाऽतिश्लेषघना न नैवाऽतिशयेन श्लेषो नाऽतिश्लेषोऽल्पश्लेषस्तेन घना निविडा, अतिश्लेषाभावाच्चाऽत्र वर्णयुक्तेः कर्कशत्वाभावात् स्निग्धता जनमनोहरता च सिद्धेति । लिप्यर्थे तु वर्णः कार्ण्यरूपस्तस्य युक्ति योगं तन्मयत्वमित्यर्थः । अथ वर्णद्योतनार्थमेवाऽऽह - वर्णयुक्ति कथंभूतां स्निग्धा जनमनोहरां, स्निग्धं यदञ्जनं कज्जलं तद्वन्मनोहरा मनोज्ञा तां । पुनर्लिपिः किंलक्षणा नाऽतिश्लेषाघना न विद्यतेऽतिशयेन श्लेषः कूर्चको यस्यां सा नाऽतिश्लेषा । अतिकूर्चकपातेन हि लिपेर्विनाशो भवतीति, एवंविधा चाऽसौ घना चेति कर्मधारयो, यथा चैवंविधा लिपिः प्रशस्या भवति तथैवंविधा गद्यकृतिरपीत्यर्थ इति वृत्तार्थः ॥ १६ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः फ
वति' इत्यस्य मुखेन ज्ञापयतीत्यर्थः । यदा दुर्जनत्वेऽपि कदाचित् सभाक्षोभेण सत्यगुणान् वदेदपि तथापि तादृशेन मलिनमुखेनैवेति । क इव ? कलाद इव सुवर्णकार इव । सुवर्णकारपक्षे - कषाश्मना - कषपाषाणेन, कषपाषाणे रेखां कृत्वा निर्णये जाते सतीत्यर्थः । अधोमुखेक्षणः - अधः स्थितमुखनयनः सन् भूतलादिस्थितं सुवर्णं परीक्षितुं मुखं नयनयुगलं चाधः कृत्वेत्यर्थः । श्यामेन मानकालिकधूमसंसर्गजनितश्यामलतायुक्तेन मुखेन वक्त्रेण यद्वा श्यामेन कषाश्मना - कृष्णवर्णेन कषपाषाणेनेति योजना | हेम्नः - सुवर्णस्य, गुणान् = विषापनयनादीन् गुणान्, कलाद इव-यथा सुवर्णकारः । वक्ति=कथयति, तथा दुर्जनोऽपीति । इदं मविपुलावृत्तम्, तल्लक्षणं प्रथम श्लोकस्य विवृतिप्रान्तेऽभिहितम् ॥१४॥
For Private And Personal Use Only
अथ दुरधिगमं गयं नादरणीयं भवतीति दर्शयति- अखण्डेत्यादिना । गद्याद् जनो व्यावर्तत इत्यन्वयः । गद्यात्-छन्दोरहितवचनात् जनः = लोकः, व्यावर्तते - निवर्तते, तत्र प्रवृत्तिमान् न भवतीत्यर्थः । कीदृशाद् गद्यात् ? अखण्डदण्डकारण्यभाजः = अखण्डाः परिपूर्णा दीर्घा इति यावत्, ये दण्डका बह्वक्षरबहुसमासरूपा आलापकास्त एवातिगम्भीरत्वाद् अरण्यं तद् भजते इत्यखण्डदण्डकारण्यभाक् तस्मात्तथा पुनः कीदृशाद् गद्याद् ? प्रचुरवर्णकात् = प्रचुरा वर्णा वर्णनानि यत्र तस्मात्तथा, कीदृशो जनः ? भयाघ्रातः = भयाकूलः, हा ! कथमस्य दुरधिगमस्य गद्यस्य
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक-व्याख्या-विवृतिविभूषिता अश्रान्तगद्यसन्ताना, श्रोतृणां निर्विदे कथा । जहाति पद्यप्रचुरा, चम्पूरपि कथारसम् ॥१७॥ [ मविपुलावृत्तम् ] ॥
9 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ ईदृशी कथा न कार्येति दर्शयति-निविंदे या विरागार्था भवति, का ? कथा, केषां ? श्रोतृणां श्रावकाणाम् , कीदृशी ? अश्रान्तगद्यसंताना निरन्तरगयप्रवाहा, तथा जहाति त्यजति, कं ? कथारसं कथाया रसः शृङ्गारादिस्तम् , कासौ ? चम्पूरपि गद्यपद्यमय्यपि कथा, कीदृशी ? पद्यप्रचुरा निरन्तरपद्या, तस्मादीदृश्यपि न कार्या ॥१७॥
॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या के अथैवंविधगद्यबन्धविरचिता कथा श्रोतृणां तोषाय स्यादितरा तु खेदाय भवतीति दर्शयति अश्रान्ततिति । व्याख्या० श्रान्तिः समाप्तिस्तया रहितोऽश्रान्तो गयवंशो यस्यां सा तथा, एवंविधा च कथा श्रोतृणां निर्विदे खेदाय स्यात् , यस्यां हि कथायां महागद्यवंश एवं स्यात् समाप्तिसूचकपदाभावात् , सा हि कथा कदाचिदप्यथोसमाप्त्या खेदाय स्यादिति तात्पर्यम् , ननु तर्हि अश्रान्तगद्यसन्ताना चम्पूरपि कथ कथारसं दास्यतीति चेन्न कथमपि ददातीति
यति पद्यप्रचरेति. अर्थसमाप्तिपदस्य दूरस्थत्वेन पद्यविकला चम्परपि चम्पुकथाऽपि कथारसं जहाति त्यजति । रसवत्यपि चम्पूकथा तथाविधपद्याभावाच्छ्रोतॄणामुद्वेजकत्वेन नीरसा भवतीति वृत्तार्थः ॥ १७ ॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पारं यास्यामीति धिया भीतिग्रस्त इव ततो निवर्तत इत्यर्थः । कस्मादिव ? व्याघादिव कीदृशाद् व्याघ्राद् ? अखण्डदण्डकारण्यभाज: अखण्डं निरन्तरं यद् दण्डकारण्यमतिप्रचुरो मनुषरहितो देशोऽटवीविशेषो वा तद्भाजः, यद्वा अखण्डाः परिपूर्णा दण्डा वंशादीनां दण्डा यस्मिन् तदखण्डदण्डकं तादृशंयद्अरण्यं तद्भाजस्तत्सेविनः, घोराटवीवासिन इत्यर्थः । पुनः कीदृशाद् व्याघ्राद् ? प्रचुरवर्णकात्-प्रचुरा घना वर्णा पीतादयो यस्य स तथा तस्मात् । इदं पथ्यावृत्तम् , तलक्षणं तु अष्टमश्लोकविवृतिप्रान्तेऽभिहितम् ॥१५||
___ अन्यगुणकलिताऽपि विपुलश्लेषा काव्यरचना श्लाघनीया न भवतीत्याह-वर्णयुक्तिमित्यादिना । कृतिः श्लाघां नारनुत इत्यन्वयः । कृतिः काव्यरचना, श्लाघां-प्रशंसाम् , नाश्नुतेन प्राप्नोति । का इव? लिपिरिव-यथा पत्रादावक्षरविन्यासरूपा लिपिः । कीदृशी कृतिः कीदृशी च लिपिरित्याह-अतिश्लेषघना अतिशयेन ये श्लेषा अनेकार्यप्रतिपादकवचनानि तैर्घना निरन्तरा, लिपिपक्षे-अतिश्लेषो लिखिताक्षराणामविभागेन मीलनं तेन घना निरन्तरा, कीदृश्यपि कृतिलिपिर्वा ? दधानाऽपि-विभ्राणाऽपि, कां दधाना ? वर्णयुक्तिवर्णनयोगम् , लिपिपक्षे-लिखिताक्षररचनाम् । कीदृशी वर्णयुक्तिं ? स्निग्धाञ्जनमनोहरां-स्निग्धां रसकलितत्वेन स्नेहलां न तु रुक्षाम् , माधुर्यादिरसयुक्तामित्यर्थः, जनमनोहरां जनमनोरखिकाम् , लिपिपक्षे स्निग्धं यद् अञ्जनं मषी तेन मनोहरामतिकृष्णत्वाद् रमणीयाम् । यद्वा लिपिरिव कृतिः श्राघामश्नुत इत्यर्थः । अन्यत्सर्वमुक्तवत्, केवलं ‘नातिश्लेषणघना' इत्यस्यायमर्थः-न अतिश्लेषण घना, अर्थात् अल्पश्लेषा इत्यर्थः, अल्पश्लेषस्य गुणत्वेन श्लाघां प्राप्नोतीति भावः । इदं पथ्यावृत्तम् , तालक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥१६॥
ईदृशी कथा न कार्येति दशर्यति-अश्रान्तेत्यादिना । अश्रान्तगद्यसन्ताना कथा श्रोतृणां निर्विदे इत्यन्वयः । अश्रान्तगद्यसन्ताना अश्रान्तः समाप्त्यर्थकपदसान्निध्याभायाद् असमाप्तो गद्यस्य सन्तानः प्रवाहो यस्यां सा तथा, निरन्तरगोत्यर्थः । कथा-प्रसिद्धा, श्रोतृा-श्रवणकर्तृणाम् , निर्विदे-उद्वेगाय, स्यादित्यध्याहार्यम् । अतो नेदृशी कथा कार्येति भावः । तथा पद्यप्रचुरा चम्पूरपि कथारसं जहाति, पद्यप्रचुरा-पद्यैः श्लोकः प्रचुरा विशाला, चम्पूरपि
For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] सत्कथारसवन्ध्येषु, निबन्धेषु नियोजिताः । नीचेष्विव भवन्त्यर्थाः, प्रायो वैरस्यहेतवः ॥१८॥ [ पथ्यावृत्तम् ] ॥ नमो जगन्नमस्याय, मुनीन्द्रायेन्द्रभूतये । यः प्राप्य त्रिपदी वाचा, विश्व विष्णुरिवानशे ॥१९॥ [ पथ्यावृत्तम् ] ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ तथा यत्र कुत्रापि शास्त्रेऽर्था न योजनीया इति दर्शयति-भवन्ति जायन्तेऽर्था अभिधेयाः, कीदृशा भवन्ति ? वैरस्यहेतवो विगतशृङ्गारादिरसकारणभूताः, कथं ? प्रायो बाहुलकेन, किंभूताः सन्तो ? नियोजिताः संघटिताः, केषु ? निबन्धेषु शास्त्रेषु, कीदृशेषु ! सत्कथारसवन्ध्येषु सन्तः शोभना ये कथारसाः शृङ्गारादयस्तैः वन्ध्येषु, शून्येषु, केष्विव ? नीचेष्विव यथा नीचेषु हीनेषु नियोजिताः समर्पिता अर्था धनानि प्रायो भवन्ति, कीदृशा ? हेतवः कारणानि, कस्य ? वैरस्य विरोधस्य, किंभूतेषु ? नीचेषु, सत्कथारसवन्ध्येषु सतां सत्पुरुषाणां कथा वार्ता तस्या रस आदरस्तेन वन्ध्येषु रहितेषु नीचत्वादेव ॥१८॥ अथ गौतमगणधरस्य नमस्कारमाह-त्रिपदी. पूर्ववद् व्याख्येया ॥१९॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथ यत्र तथाविधपद्याभावात् कथारसो न भवति तत्र नियुक्तानामप्यर्थानां प्रायो वैरस्य भवतीति दर्शयति, सत्कथेति । व्याख्या० श्रोतृणामानन्दकत्वेन सन् प्रधानो यः कथारसस्तेन वन्ध्येषु शून्येषु तद्रहितेष्वित्यर्थः । निबन्धेषु प्रबन्धेषु नियोजिता अर्था नीचेष्विवाऽधमेष्विव प्रायो वैरस्य द्वेषस्य हेतवः कारणानि भवन्ति तथा तथाविधप्रबन्धेषु नियोजिता अर्था वैरस्थं विरसता तद्धतवो भवन्ति वैरस्यं कुर्वन्तीत्यर्थ इति वृत्तार्थः ॥ १८ ॥
___ अथाऽऽदीश्वरादिदेवस्तवनरूपमङ्गलाचरणपूर्व ग्रन्थप्रस्तावनां विधाय तदभिधेयं विवक्षुर्बिद्धं सुबद्धं भवतीति न्यायेनाऽखिलविघ्नोपशमनसमर्थस्याऽऽदेयनाम्नो भगवतो गौतमस्य नमस्काररूपं पुनर्मङ्गलमाचरति । नमो जगदिति । व्याख्या० इन्द्रभूतय इन्द्रभूतिनाम्ने श्रीमञ्चरमजिनप्रथमगणाधिपाय नमोऽस्त्विति तावदन्वयः । कथंभूतायेन्द्रभूतये ? मुनीन्द्राय, चरमजिनप्रदत्तगच्छाधिपत्येन समस्तमुनिस्वामिने । नन्वेतस्यैव कवेः किमयं प्रणामाई उताऽपरस्याऽपीत्याशङ्कयाऽऽह-कथंभूतायेन्द्रभूतये जगन्नमस्याय जगतां प्रणामार्हायेत्यर्थो, ननु जगन्नपस्यत्वं विष्णोरेव स्यात् तस्यैव तदधीशत्वान्नाऽपरस्येति चेन, अस्याऽपि विष्णुसमत्वात् , ननु कथमस्य विष्णुसमत्वमित्याशङ्कय तद्दर्शयति, यो भगवान् विष्णुरिव त्रिपदीमुत्पादत्र्ययध्रौव्यरूपं पदत्रयं प्राप्य लब्ध्वा वाचा द्वादशाङ्गीरचनासमर्थया वाण्या विश्वं जगदानशे व्याप्तवान्, भगवानिद्रभूतिश्चरमजिनशासने प्रथमं द्वादशाङ्गी रचितवानिति जगद्विख्यातत्वात् , विष्णुपक्षे तु बल्यधःक्षेपावसरे त्रिपदी चरणत्रयं प्राप्य त्रिलोकी व्याप्तवान् , अत्र वाचेति बलेः प्रतिज्ञाभञ्जकवचनेन कृत्वेति करणपदमिति विष्णुसमत्वेन विष्णोरिवाऽस्य जगन्नमस्यत्वं सिद्धमिति वृत्तार्थः ॥ १९ ॥
卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ " गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते ।" इत्युक्तलक्षणा चम्पूरूपापि कथा, कथारसं-कथायाः शृङ्गारादिकं रसम् , जहाति त्यजति, चम्पूकाव्येऽल्पपद्यत्व रसप्रदं भवतीति चम्पूकाव्यमपि पद्यप्रचुरं न विधेयमिति भावः । यद्वा चम्पूरपि यदि अश्रान्तगद्यसन्ताना सती श्रोतृणां निर्विदे भवति, पद्यप्रचुरा सती च कथारसं जहाति, अन्यकथायास्तहि का वार्ता ॥ इदं मविपुलावृत्तम् तल्लक्षणं प्रथमश्लोकविवृतिप्रान्तेऽभिहितम् ॥१७॥
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
___[ टिप्पनक-व्याख्या-विवृतिविभूषिता प्रस्तावनादिपुरुषौ, रघुकौरववंशयोः । वन्दे वाल्मीकिकानीनौ, सूर्याचन्द्रमसाविव ॥२०॥ [मविपुलावृत्तम् ] ॥
5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ प्रथमकवित्वाद् लोके वाल्मीकिव्यासयोनमस्कारमाह-वन्दे-स्तुवे, कौ ? वाल्मीकि-कानीनौ, किंभूतौ ? प्रस्तावनादिपुरुषौ प्रस्तावनायां वर्णनायामादिपुरुषौ प्रथमनरौ, कयोवर्णनायां ? रघु-कौरववंशयोः, रघुवंशकौरववंशवर्णनं ताभ्यामेव प्रथमं कृतमित्यर्थः, काविव वन्दे ? सूर्याचन्द्रमसाविव-रविचन्द्राविव तावपि प्रस्तावनादिपुरुषौ प्रस्तावना प्रारम्भप्रवृत्तिः, तस्यामादिपुरुषो, कयोः ? रघुकौरववंशयोः, रघुवंशकौरववंशौ ताभ्यां वृत्तावित्यर्थः ॥२०॥
9 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 5 अथ स्वाधिककाव्यारम्भरमणीयतरकविजनपूज्यत्वदर्शनाय काव्यग्रन्थे परमकवयः प्रणामार्हा इति नामग्राहं तान्नमस्कुर्वन्नाह-प्रस्तावनेति । व्याख्या सूर्याचन्द्रमसाविव भानुचन्द्राविव वाल्मीकिकानीननामानौ परमकवीश्वरावहं बन्द इत्यन्वयः । अयं भावो यथा किल लोके भानुचन्द्रौ वन्दनीयौ तद्वत्तत्समानधर्मत्वेनैतावपि वन्दनीयावेवेत्यहं वन्द इति, तत्समानधर्मत्वमेवैतयोविशेषणमुखेन दर्शयति, कथंभूतौ वाल्मीकिकानीनौ ? प्रस्तावनादिपुरुषौ, प्र प्रकर्षेण स्तवनं प्रस्तावना तस्यां प्रथमकर्तृत्वेनाऽऽदिपुरुषौ, कयोः प्रस्तावनेत्याह-रघुकैरववंशयोः, रघुकैरववंशयोः प्रस्तावना ह्याभ्यां प्रथम विहितेति तत्राऽऽदिपुरुषौ । भानुचन्द्रपक्षे तु रघुकैरववंशयोः प्रस्तावनायां रचनायामुत्पादन आदिपुरुषौ, रघुवंशस्य हि भानुतो मनुमनुतो दिलीपादय इत्यनेन क्रमेण भानुतः संभूतत्वात् , कैरववंशस्याऽपि चन्द्रतो जातत्वात् तत्राऽऽदिपुरुषावेताविति । यद्वाऽघु रघु गताविति धातो रवन्ति गच्छन्ति तांस्तानानिति रघवः पदार्थास्तेषां वंशः समुदायस्तस्य प्रस्तावनायां प्रकाशे भानुरेवाऽऽदिपुरुष इति । कैरवाणि तु चन्द्रविकाशिकमलानि तेषां प्रस्तावना प्रकाशः प्रबोधस्तत्र चन्द्र एवाऽऽदिपुरुष इति समानधर्मत्वमाभ्यामनयोः सिद्धमिति वृत्तार्थः ॥ २० ॥
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ अथ रसरहितग्रन्थे प्रतिपादिता अर्था विरसतायै भवन्तीतिदर्शयति-सत्कथेत्यादिना । सत्कथारसवन्ध्येषु निबन्धेषु नियोजिता अर्थाः प्रायो वैरस्यहेतवो भवन्तीत्यन्वयः । सत्कथारसवन्ध्येषु-सन्त उत्तमा ये कथाया रसाः शृङ्गारादयस्तैः वन्ध्येषु रहितेषु, निबन्धेषु-ग्रन्थेषु, नियोजिता प्रतिपादिताः, अर्थाः-पदार्थाः, प्रायः बाहुल्येन, वैरस्यहेतवः विगतो रसः शृङ्गारादिर्यस्मात् स विरसः, तस्य भावो वैरस्यं, तस्य हेतवः कारणानि, विरसतानिमित्तानीत्यर्थः, भवन्ति-जायन्ते । केष्विव ! नीचेष्विवन्यथा नीचेषु अधमजनेषु । नीचपक्षे-सत्कथारसवन्ध्येषु-सत्तां सत्पुरुषाणां या कथा तस्या य रस आदरभावस्तेन वन्ध्येषु नीचत्वाद् रहितेषु, नियोजिताः समर्पिताः, अर्थाःधनादीनि, प्रायो-बाहुल्येन, वरस्य-विरोधस्य, हेतवः कारणानि, भवन्ति-जायन्ते। “अर्थोऽभिधेये शब्दानां, धनकारणवस्तुषु । प्रयोजने निवृत्तौ च विषये च प्रयुज्यते ॥१॥” इति शास्वतः । इदं पथ्यावृत्तम् , तलक्षणं तु अष्टमश्लोकविवृतिप्रान्तेऽभिहितम् ॥१८॥
अथ कविविशेषप्रशंसावसरे निखिलकविशिरोमणेः श्रीगौतमस्वामिनो नमस्कारमाह-नम इत्यादि । नमः नमस्कारो भवतु, कस्मै ? मुनीन्द्राय-मुनीश्वराय, किनामधेयाय ? इन्द्रभूतये इन्द्रभूतिनाम्ने गौतमेति प्रसिद्धाय, कीदृशाय ? जगन्नमस्याय=विश्ववन्द्याय, यच्छब्दोपादानेन तच्छब्दार्थाक्षेपात् तस्मै इत्यध्याहार्यम्, तस्मैकस्मै ? यत्रिपदीं प्राप्य वाचा विश्वमानशे । यः, त्रिपदीं-' उत्पद्यते विनश्यति ध्रुवति च ' इत्युत्पादव्ययध्रौव्यलक्षणं पदत्रयम्, प्राप्य-महावीर
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१
तिलकमञ्जरी ] सत्यं बृहत्कथाम्भोधे,-बिन्दुमादाय संस्कृताः। तेनेतरकथाः कन्थाः, प्रतिभान्ति तदग्रतः ॥२१॥ [ पथ्यावृत्तम् ॥
२१ एतस्य श्लोकस्योपरि टिप्पनकं नोपलभ्यते ।
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथैतादृशकविकृतकथाम्भोधि वर्णयन्नाह-सत्यमिति । व्याख्या० सत्यमिति वितर्कणार्थ पदं, कथाम्भोधेविन्दुमंशमात्रं व्यङ्गयार्थत्वे त्वनुसारमादाय गृहीत्वा संस्कृताः पद्यगद्यादिवंशेन संस्कृतिमापादिता इतरैरस्मदादिभिः कृताः कथा इतरकथाः कन्या इव तदग्रत इति कथाम्भोधेः पुरस्तात् प्रतिभान्ति कन्था इव दृश्यन्त इत्यर्थः, एतेन पूर्वक्रविकृतकथाम्भोधेरुत्कर्षों वर्णितः स्वस्य गर्वोद्धत्यं च परिहृतं भवतीति वृत्तार्थः ॥२२॥
卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ देवसकाशाद् अवगम्य, वाचा-स्वोपज्ञद्वादशाङ्गीरूपवचनेन, विश्व-निखिलं जगत्, आनशे-व्याप, द्वादशाङ्गयां निखिलजगन्निरूपणात द्वादशाङ्गीरूपेण विश्वं व्याप्तवान् कक्षीकृतवानित्यर्थः । क इव ? विष्णुरिव-यथा विष्णुः कृष्णो विष्णुकुमारमुनिर्वा, तत्र कृष्णपक्षे-वाचा-वचनेन, त्रिपदी-पदत्रयमेयभूमिम् , प्राप्य-बलिनुपाद् वरेणासाद्य, विश्व मानवलोकाकाशदेवलोकरूपं जगद्, व्यानशे-व्याप्तवान् , एतद्भावना उत्पतन्त्यजवदिति लोकविवृतौ दर्शिता । विष्णुकुमारमुनिपक्षे वाचा-वचनेन, त्रिपदी-पदत्रयमेयभूमिम्, प्राप्य-चक्रवर्तिस्थानीयनमुचिमन्त्रिणः सकाशाद् आसाद्य, विश्व-लक्षयोजनमितजम्बूद्वीपस्य पूर्वापरपर्यन्तरूपं जगद् , व्यानशे-व्याप्तवान् । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टम लोकविवृतिप्रान्तेऽभिहितम् ॥१९॥ ___ लोके प्रथमकवित्वाद् वाल्मीकिव्यासयोः स्तुतिमाह-प्रस्तावनादीति । वाल्मीकिकानीनौ वन्दे इत्यन्धयः । वाल्मीकिकानीनौ-वल्मीकः कीटविशेषकृतो मृत्तिकास्तूपस्तत्र भव इति वाल्मीकिः, रामायगग्रन्थकर्ता ऋषिविशेषः, कन्याया अनूढाया अपत्यमित्यणि कानीनादेशे च कानीनः, महाभारतग्रन्थकर्ता व्यासः, तौ, वन्दे-स्तुवे, कीदृशौ तौ ? रघुकौरववंशयोः प्रस्तावनादिपुरुषौ । रघुकौरववंशयोः रघुः सूयवंशीयदिलीपसूनुर्नपतिविशेषः, कुरुश्चन्द्रवंशीयराजविशेषस्तस्यायमिति कौरवः, धृतराष्ट्रात्मजरूपा पाण्डवरूपा वा कुरुनृपसन्ततिरुभयोरपि कुरुवंशजातत्वात् , तयोर्योवंशः पुत्रपौत्राद्यपत्यवर्गस्तयोः प्रस्तावनादिपुरुषौ प्रस्तावनायां वर्णनायामादिपुरुषौ, वाल्मीकिना रामायणे रघुवंशस्य कानीनेन महाभारते कौरववंशस्य प्रथम वर्णनं कृतमिति भावः । काविव ? सूर्याचन्द्रमसाविव-सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ यथा, " वेदसह. " [ ३-२-७९ ] इति दीर्घत्वम् । कीदृशौ सूर्याचन्द्रमसौ ? रघुकौरववंशयोः-उक्तस्वरूपयोः, प्रस्तावनादिपुरुषौ-प्रस्तावना प्रारम्भस्तत्रादिपुरुषौ आदिभूती, सूर्यतो रघुवंशस्य प्रारम्भश्वान्द्रतः कौरववंशस्य प्रारम्भो जात इति भावः । इदं मविपुलावृत्तम् , तल्लक्षणं प्रथम लोकविवृतिप्रान्तेऽभिहितम् ॥२०॥
गुणाढ्यकविविरचितबृहत्कथायाः प्रशंसामाह-सत्यमित्यादिना । [येन तदअत इतरकथाः कन्याः प्रतिभान्ति तेन बृहत्कथाम्भोधेर्बिन्दुमादायेतरकथाः संस्कृता इति सत्यमित्यन्वययोजना कार्या । तच्छब्दोपादानेन यच्छब्दार्थाक्षेपाद् येनेत्यध्याहार्यम् , येन कारणेन, तदग्रतः तस्या बृहत्कथाया अग्रतः समीपे, इतरकथा:- इतरकविविरचिताः कथाः, कन्थाः-जीर्णवस्त्रखण्डानादाय निर्मिताः प्रावरणविशेषाः कन्याः, उपमाया गम्यमानत्वात् कन्या इव प्रतिभान्तिदृश्यन्ते, तेन तेन कारणेन, बृहत्कथाम्भोधेः बृहत्कथा गुणाढयकविना पैशाचिकभाषायां विरचितः कथाविशेषः, सैवानेककथारत्नकलितत्वाद् अम्भोधिः समुद्रस्तस्माद्, बिन्दु-कथालेशम् , आदाय-गृहीत्वा, इतरकथा: इतरकविकृतकथाः,संस्कृताः-संस्कृतप्राकृतगद्यपद्यादिरूपेण संस्कारमापाद्य विरचिताः, इति, सत्यम्-यथार्थम् , एतां कल्पनां स्वीकरोमीत्यर्थः । इदं पथ्यावृत्तम् , तल्लक्षण तु अष्टम लोकविवृतिप्रान्ते प्रोक्तम् ॥२१॥
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
[टिप्पनक-व्याख्या-विवृतिविभूषिता जितं प्रवरसेनेन, रामेणेव महात्मना । तरत्युपरि यत्कीर्तिः, सेतुर्वाङ्मयवारिधेः ॥२२॥ [ पथ्यावृत्तम् ] ॥ प्रसन्नगम्भीरपथा, रथाङ्गमिथुनाश्रया। पुण्या पुनाति गङ्गेव, गां तरङ्गवती कथा ॥२३॥ [ मविपुलावृत्तम् ] ॥
ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ जितं-जयः प्राप्तः कविमध्ये, केन ? प्रवरसेनेन कविना, कीदृशेन ? महात्मना बृहत्तरेण, यत्कीतिः यस्य यशः, कोऽसौ ? सेतुः सेतुबन्धशास्त्रं कीर्तिहेतुत्वात् कीर्तिः, किं ? तरति-प्लवते, व ? उपरि-उपरिष्टात् , कस्य ? वाङ्मयवारिधेः=निःशेषशास्त्रवृन्दोदधेः, सकलशास्त्राणामुपरि वर्तत इत्यर्थः, केन इव रामेणेव-यथा रामेण दशरथात्मजेन जयः प्राप्तो लोकमध्ये, तेनापि कथंभतेन ? प्रवरसेनेन तथा महात्मना-पूज्येन विष्णोरवतारात्, यत्कीर्तिः सेतुबन्धो गिरिकृतस्तरति-प्लवते, न निमज्जाते, क्व तरति ? उपरि, कस्य ? वारिधेः लवणसमुद्रस्य ॥२२॥
पुनाति-पवित्रयति, का ? कथा, किमभिधाना ? तरजवती, कां ? गां-पृथिवीम् , केव ? गङ्गेव-सुरनदीव, किंभूता तरङ्गवती गङ्गा च ? प्रसन्नगम्भीरपथा-प्रसादवद्गम्भीरार्थवचनमार्गा निर्मलालब्धमध्यप्रवाहा, तथा रथाङ्गमिथुनाश्रया-चक्रवाकयुगलाधिता. चक्रवाकयुगलं हि तत्र वर्ण्यत इति । गङ्गा च चक्रवाकयुगलानामाधारभूता, तत्र तानि सुखमाहारादिकं लभन्त इति, तथा पुण्या पवित्रा पुण्यकारणं च, गङ्गा कीदृशी ? तरङ्गवती कल्लोलयुक्ता ॥२३॥
॥ श्रीमत्पद्मसागरविवुधरचिता व्याख्या 卐 अथ तथाविधकथाकारिणो महाकवीन् त्रिजगतीव्याप्तख्यातीन् दर्शयति-जितमिति । व्याख्या० रामेणेव लक्ष्मणाप्रजेनेव महात्मना प्रवरसेनेन प्रवरसेननाम्ना कविना तथाविधानेकप्रबन्धकारित्वेन जितं, तथाविधानेकप्रबन्धकारिपुरोगामी स बभूवेत्यर्थों, रामेणेवेति, यथा प्रवरा सेना सैन्यं यस्य स तथा तेन रामेण जितं जयवता जातं तथाऽस्याऽपि प्रवरसेनत्वाविशेषाज्जयित्वमिति भावः। नन्वस्य रामसाम्यस्पष्टीकरणाय किंचित्तत्स्वरूपमिहाऽऽरोप्य दर्शनीयमित्यतस्तत्स्वरूपमिहाऽऽरोपयति, तरतीति यत्कोतिरूपसेतुः पद्यवाङ्मयवारिधेः शास्त्ररूपसागरस्योपरि तरति, यथा रामबद्धः सेतुः सागरोपरि तरति तथाऽस्य कीर्तिस्तस्कृतशास्त्रोपरि तदध्येतृकविजनप्रशंसया तरतीत्यर्थ इति वृत्तार्थः ॥२२॥
अथ प्रवरसेनरचिंतकथातिशय दर्शयति, प्रसन्नेति । व्याख्या० गङ्गेव भागीरथीव पुण्या पवित्रा कथा गां वाचं गङ्गापक्षे तु गां पृथ्वीं पुनाति पवित्रीकरोति, गङ्गाकथयोर्विशेषणसाम्यं दर्शयति, कथंभूता कथा प्रसन्नगम्भीरपथा, प्रसन्नैर्व्यक्ततरैगम्भीरैर्गुढाथैः शब्दैः पथो मार्गः प्रस्तावनारूपो यस्याः सा तथा, यद्वा प्रसाद्यते व्यक्तीक्रियतेऽर्थ एभिरिति प्रसन्नाः शब्दास्तैर्गम्भीरो निर्बुद्धधगम्यः पथो मार्गो रचनारूपो यस्याः सा तथा, यद्वा प्रसन्नोऽकर्कशो गम्भीरः सद्बुद्धिगम्यः पथो मार्ग उपदेशरूपो यस्यां सा तथा । गङ्गापक्षे तु कथंभूता गङ्गा भीरपथा, भीभयमीरक् गताविति धातोरीते गच्छतीति भीरो भयदायी पथो मार्गों यस्याः सा तथा, के प्रति प्रसन्नगं प्रति, प्र प्रकर्षेण सन् प्रधानो नगः पर्वतस्तं प्रसन्नगं महान्तं पर्वतं प्रति गङ्गामार्गः प्रबलप्रवाहमयत्वेन विदारणभयाद्भयं ददातीवोत्प्रेक्षितं विशेषणं, पुनः कथा कथंभूता रथाङ्गमिथुनाश्रया रथेऽझं वपुर्यस्य तद्रथाङ्गं तन्मिथुनं चेति कदाचिदपि पादाभ्यामहिण्डनेन रथस्थं मिथुनं राजराजपत्नीरूपं तयो स्थादिनैव यायित्वात्तन्मिथुनं प्रबन्धावदाताविष्करणेनाऽऽश्रयतीति तदाश्रया, कथायां हि प्रायो राजराश्योरवदाताविष्करणात् । गङ्गापक्षे तु रथाङ्गमिथुन चक्रवाकमिथुनं तदाश्रया तत्तटे चक्रवाकमिथुनस्य सत्त्वात् , पुनः कथा कथंभूता तरङ्गवती, तस्तत्त्वं तस्मिन् रङ्गोऽस्या अस्तीति तरङ्गवती, गङ्गापक्षे तु तरङ्गाः कल्लोलास्तद्वतीति वृत्तार्थः ॥२३॥
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ सेतुबन्धकथाकारस्य प्रवरसेनकवेः प्रशंसामाह-जितमित्यादिना । प्रवरसेनेन जितमित्यन्वयः । प्रवरसेनेन
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] प्राकृतेषु प्रबन्धेषु, रसनिष्यन्दिभिः पदैः। राजन्ते जीवदेवस्य, वाचः पल्लविता इव ॥२४॥ [पथ्यावृत्तम् ॥ अस्य चतुर्विंशतितमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ।
9 श्रीमत्पद्मसागरविबुधरचिता व्याख्या : अथ संस्कृता एव कथा हृद्या न तु प्राकृता इति भ्रमनिरासाथ प्राकृतकथास्तत्कर्तारं च वर्णयन्नाह-प्राकृतेष्विति । व्याख्या प्राकृतेषु शुद्धप्राकृतव्याकरणनिष्पनेषु, प्रबन्धेषु रसनिःस्यन्दिभिर्नवरसभ्राविभिः पदैः कृत्वा जीवदेवस्य महाकवेर्वाचो गिरः पल्लविता इव संस्कृतकथापेक्षयाऽऽबालगोपालप्रतीतसुललितानेकार्थसूचाचतुरशब्दसन्दोहघटितत्वेनाऽतीवाऽऽनन्ददायित्वाद्राजन्त इति वृत्तार्थः ॥२४॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ प्रवरसेननाम्ना सेतुबन्धकथाकारेण कविना, जितं निरुपमकाव्यरचनया कविकुलेषु जयो लब्धः । कीदृशेन प्रवरसेनेन ? महात्मना-माहात्म्यशालिना । यच्छब्दोपादानेन तच्छब्दार्थाक्षेपात् 'तेन' इत्यध्याहार्य तेन प्रवरसेनेनेतियोजना कार्या । तेन केन ? यत्कीर्तिः सेतुः यस्य कीर्तिः-कीर्तिहेतुत्वात् कीर्तिरूपो यशोरूपो यः सेतुः-नामैकदेशे नामोपचारात् सेतुबन्धनामा कथा, स वाङ्मयवारिधेः वाचो विकारा वाङ्मयानि शास्त्राणि तान्येवानेकाभिधेयरत्नकलितत्वाद् वारिधिः जलधिस्तस्य तथा, शास्त्ररूपसमुद्रस्य, उपरि-उपरिभागे, तरति-प्लवते, सकलकाव्यग्रन्थेषु प्रधानपदवीं दधातीत्यर्थः । केनेव ? रामेणेव-यथा रामेण, तत्र रामपक्षे-रामेण जितमित्यन्वयः, रामेण दशरथसूनुना रामचन्द्रेण, जित-लोकमध्ये जयो लब्धः । कीदृशेन ? प्रवरसेनेन-प्रवरा सेना यस्य तेन तथा। पुनः कीदृशेन ? महात्मनापूज्येन, अत्रापि तेनेत्यध्याहारात् तेन रामेणेति योजना । तेन केन ? यत्कीर्तिः सेतुः यस्य कीर्तिः-कीर्तिहेतुः सेतु:-सेतुबन्धः, लङ्कागमनार्थ नलकपिद्वारा कारितः समुद्रस्योपरि पालिबन्ध इत्यर्थः, वारिधेः जलधेः, उपरिउपरिभागे, तरति-प्लवते, ग्रन्थकर्तुः साक्षाद् बुद्धिविषयत्वेन वार्तमानिको निर्देशः । तरति स्मेत्यर्थः । इदं पथ्यावृत्तम्, तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥२२॥
तरङ्गवतीकथाकारस्य श्रीपादलिप्तसूरेः कथाप्रशंसामाह-प्रसन्नगम्भीरेत्यादिना । तरङ्गवती कथा गां पुनातीत्यन्वयः । तरङ्गवती-तरङ्गवतीनाम्नी, कथा-श्रीपादलिसाचायविरचित
चिता कथा, गां-वाणीम् , पुनाति-पवित्रीकरोति. कीहशी तरङ्गवती कथा ? प्रसन्नगम्भीरथा-प्रसन्नोऽल्पसमासार्थसुगमनादिरूपप्रसादाख्यकाव्यगुणयत्त गम्भीरार्थयुक्तः पन्था वचनमार्गो रचनाशैली यस्यां सा तथा, अत्र “ऋक्पू:पथ्यपोऽत्" [७-६-७६ ] इत्यत्समासान्ते “नोऽपदस्य तद्धिते" [७-४-६१] इत्यन्त्यस्वरादिलोपे पथिन्स्थाने पथ इति । पुनः कीदृशी ? रथाङ्गमिथुनाश्रया-रथाङ्गौ चक्रवाकपक्षिणी तयोयन्मिथुनं युगलं तस्याश्रयाऽऽधारभूता, तरङ्गवत्यां चक्रवाकयुगलस्य वर्णनात् । पुनः कीदृशी ? पुण्या पवित्रा । केव ? गॉव-यथा गङ्गा, गङ्गापक्षे-गङ्गा गां पुनातीत्यन्वयः । गङ्गागङ्गानाम्नी नदी, गां-पृथ्वीम्, पुनाति-पवित्रीकरोति । “गोशब्दः पशुभूम्यंशु-वाग्दिगर्थे प्रयुज्यते । स्वर्गलोचनबाणाम्बुकुलिशार्थोऽपि दृश्यते ॥१॥” इति शास्वतः । कीदृशी गङ्गा ? प्रसन्नगम्भीरपथा-प्रसन्नो निर्मलो गम्भीरोऽतलस्पर्शो गहनो वा पन्थाः प्रवाहमार्गो यस्याः सा तथा । पुनः कीदृशी? रथाङ्गमिथुनाश्रया-रथाङ्गानां चक्रवाकपक्षिणां यानि मिथुनानि युगलानि तेषामाश्रयाऽऽधारभूता, गङ्गायास्तीरयोः कमलादौ वा चक्रवाकयुगलानां सुखेन निवसनाद्, यद्वा षष्टारकप्रान्ते रथचक्रयुगलान्तरालप्रमितो गङ्गाप्रवाहो भविष्यतीतिवृत्तमाश्रित्य व्याख्येयम् । तथाहि, रथाङ्गमिथुनाश्रया रथाङ्गे चक्रे तयोमिथुनं युगलं तदेवाश्रयो यस्याः सा तथा, चक्रयुगलान्तरालप्रमितेत्यर्थः । पुनः कीदृशी गङ्गा ? पुण्या-पवित्रा, तरङ्गवती-प्रचुरकल्लोलयुक्ता इदं भविपुलावृत्तम् , तल्लक्षणं तु प्रथमश्लोकविवृति प्रान्ते प्रोक्तम् ॥२३॥
For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
३४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक - व्याख्या- विवृतिविभूषिता
म्लायति सकलाः कालिदासेनासन्नवर्तिना ।
गिरः कवीनां दीपेन, मालतीकलिका इव ||२५|| [ मविपुलावृत्तम् ] ॥
अस्य पञ्चविंशतितमस्य श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति । 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या फ
अथायं कविः स्वकालवर्तिनं कालिदासनामानं महाकविं स्तुवन्नाह - म्लायन्तीति व्याख्या० आसन्नवर्तिना स्वचक्षुर्गोचरमायातेन, कालिदासेन कालिदासनाम्ना महाकविना कृत्वाऽपरेषामस्मदादीनां कवीनां सकलाः समस्ताः कलान्विता वा गिरो वाचो म्लायन्ति म्लाना भवन्ति, समीपोपविष्टे कालिदासे सति ये कवयः स्ववाग्विलासं कुर्वन्ति तेषां वाग्विलासस्य तदपेक्षयाऽकिंचित्करत्वेन म्लानीभवनात् । अत्र दृष्टान्तमाह- केन का इव इव यथाऽऽसन्नवर्तिना समीपस्थेन दीपेन कृत्वा मालतीकलिका म्लायन्ति तथाऽनेन ता अपीति वृत्तार्थः ॥२५॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः फ
जीवदेवाभिधकविवरकृतप्राकृतनिबन्धसन्दोहगतवाण्याः प्रशंसामाह - प्राकृतेष्वित्यादिना । जीवदेवस्य वाचो राजन्त इत्यन्वयः । जीवदेवस्य = जीवदेवसूरेः कविवरस्य वाचो - वचनानि राजन्ते - शोभन्ते । क्व राजन्ते ? प्राकृतेषु - प्राकृतभाषाविरचितेषु, प्रबन्धेषु ग्रन्थेषु । कीदृश्य इव ? पल्लविता इव पल्लवानि नूतनपत्राणि संजातानि यासां तास्तथा, नूतनपत्रयुक्ता इव, कैः ? पदैः = विभक्तयन्तशब्दैः । कीदृशैः पदैः ? रसनिष्यन्दिभिः शृङ्गारादिरसवर्षिभिः । अयं भावः- यथा तरुः शाखाप्रशाखादिभिः शोभते, शाखाप्रशाखाः स्तबकैः शोभन्ते, स्तबका नूतनपत्रैः नूतनपत्राणि स्निग्धता रसवर्षीणीव दृश्यन्ते, तथा तरुस्थानापन्नः प्राकृतग्रन्थसन्दोहः, शाखा प्रशाखास्थानापन्नास्ते ते ग्रन्थाः, स्थानापन्ना वाचः, दलस्थानापन्नानि पदानि दलान्तर्गतरसंस्थानापन्नाः शृङ्गारादयो रसाः । इदं पथ्यावृत्तम्, तलक्षणं तु अष्टम श्लोकविवृतिप्रान्तेऽभिहितम् ॥२४॥
स्तबक
कालिदासकविं वर्णयति-म्लायन्तीत्यादिना । कवीनां सकला गिरो म्लायन्तीत्यन्वयः । कवीनाम् इतरकवीनाम्, सकलाः = कलासहिता निखिला वा गिरो वाचः, म्लायन्ति =म्लानिं प्राप्नुवन्ति, हतप्रभावा भवन्तीत्यर्थः । केन ? कालिदासेन - कालिदासनाम्ना कविना, कथम्भूतेन कालिदासेन ? आसन्नवर्तिना - समीपस्थेन । केन क इव ? दीपेन मालतीकलिका इव, दीपेन - प्रसिद्धेन कीदृशेन ? आसन्नवर्तिना - समीपस्थेन, मालतीकलिका इव - मालती पुष्पजातिविशेषः, तस्याः कलिका इव । अयं भावः - यावत् कालिदासकविः समीपवर्ती न भवति तावद् इतरकवीनां वाचो मालतीकलिका इव विकसन्तु समीपवर्तिनि तु कालिदासकवौ दीपसान्निध्ये मालतीकलिका इव ता म्लाना भवन्ति । द्वौ कालिदासावास्तामिति विद्वन्मतम्, तत्रैको विक्रमादित्यसमकालीनोऽपरो भोजसमकालीनः, द्वावप्यनेन लोकेन संगृहीतौ । यदि विशेषतो भोजसमकालीनः कालिदासो वर्णनीयस्तदा 'आसन्नवर्तिना ' इत्यस्य भोजसदसि मम समीपे वर्तमानेनेत्यर्थः करणीयः । इदं मविपुलावृत्तम्, तल्लक्षणं तु प्रथम श्लोकविवृतिप्रान्ते प्रोक्तम् ॥२५॥
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
केवलोsपि स्फुरन् बाणः, करोति विमदान् कवीन् ।
किं पुनः क्लृप्तसंधान - पुलिन्दकृतसन्निधिः ||२६|| [ पथ्यावृत्तम् ] ॥
३५
5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् 55
करोति - विदधाति कः ? बाणः - बाणनामा कविः, कान् ? कवीन् = काव्यकर्तृन, किंभूतान् ? विमदान - विगतदर्पान् किं कुर्वन् ! स्फुरन् - द्योतमानः किंभूतः ? केवलोऽपि - असहायोऽप्येकाक्यपीत्यर्थः, किं पुनः = किमुच्यते पुनः ? विशेषेण विमदान् करोति, किंभूतः ? क्लृप्तसन्धानपुलिन्दकृतसन्निधिः क्लृप्तसन्धानः कृतकादम्बरीपरिसमाप्तिर्यः पुलिन्दः पुलिन्दाख्यः सुतस्तेन कृतं संनिधानं यस्य स तथोक्तः, स्वपुत्रकवियुक्त इत्यर्थः । अन्यत्र केवलोऽपि =नरादिरहितोऽपि बाणः शरः करोति, कवीन् कं जलं तत्र वयः पक्षिणः हंसादयस्तान् पक्षिणः, किंभूतान् ? विमदान् = हर्षरहितान् विषादवत इत्यर्थः । किं कुर्वन् ? स्फुरन् देदीप्यमानः, किं पुनर्न करोति ? कथंभूतः ? क्लृप्तसंधानपुलिन्दकृतसंनिधिः = क्लृप्तं कृतं संधानं धनुष्यारोपणं येन स तथोक्तः स चासौ पुलिन्दश्च शरश्च तेन कृतः संनिधिः = संनिधानं यस्य स तथोक्तः, आरोपितचापनाहलविहितसामीप्यः ||२६||
5 श्रीमत्पद्मसागरविवुधरचिता व्याख्या 5
अथ कादम्बरीकारं स्तुवन्नाह - केवलोऽपीति । व्याख्या • केवलोऽयपरसहायनिरपेक्षोऽपि बाणो बाणनामा कविरपरान् कवीन् विमदान् गताभिमानान् करोति, काऽस्येदृशी शक्तिरिति विशेषणमुखेन तां दर्शयति, कथंभूतो • बाणः ? स्फुरन् स्फुर्तिमान् स्फुर्तिं दृष्ट्वाऽस्याऽपरकवयो मदं त्यजन्तीत्यर्थः । ययसौ सहायनिरपेक्ष एवैवं करोति तर्हि ससहायः किं कुर्यादिति दर्शयति, किं पुनरिति क्लृप्तं रचितं सन्धानं ' मया स्वपितुर्ग्रन्थाः शोध्या' इति प्रतिज्ञा येन स चाऽसौ पुलिन्दः शबरनामा बाणपुत्रस्तस्य संनिधेः साहाय्यादपरकविविमदीकरणे किं भण्यमिति । अथ बाणपदस्य व्यङ्गार्थत्वेन काण्डार्थ उपदर्श्यते, बाणः पृषत्कः केवलो धनुर्निरपेक्षोऽपि कः कलापः, तेनोपलक्षिता वयः पक्षिणो मयूरा इत्यर्थस्तान् विमदान् बाणदर्शनानन्तरं भयविक्लवत्वेन गतहर्षान् करोति, बाणस्य ससहायत्वेऽतिशयं दर्शयति, किं पुनरिति, क्लृप्तं सन्धानं धनुर्ज्यायोजनं यैस्ते च ते पुलिन्दाश्च भिल्लास्तैः कृतः संनिधिर्धरणं तस्मात् । भिल्लहस्तस्थधनुरायुक्तो वाणः कथं न तान् पक्षिणो विमदान् करोतीति भावः इति वृत्तार्थः ||२६||
,,
For Private And Personal Use Only
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
बाणकविं वर्णयति - केवलोऽपीत्यादिना । बाणः कवीन् विमदान् करोतीत्यन्वयः । बाणः = कादम्बरीप्रमुखग्रन्थकर्ता बाणनामा कविः । कवीन् = काव्यकर्त्तन् । विमदान् = विगताभिमानान् । करोति विदधाति । कीदृशो बाणः ? केवलोऽपि - इतरसाहाय्य रहितोऽपि, एकाक्यपीत्यर्थः । कीदृशः सन् ? स्फुरन् - ईषत् स्पन्दमानः सन् । ननु यदि केवलोsपि बाणः कवीन् विमदान् करोति तदा ससाहाय्यः किं कुर्यादित्याह -क्लुप्तसंधानपुलिन्दकृतसन्निधिः किं पुनः । क्लृप्तसन्धानपुलिन्दकृतसन्निधिः- क्लृप्तं विहितं सन्धानं निजजनकनिर्मितकादम्बरीसम्बन्धिनोऽशिष्टभागस्य समाप्तिपर्यन्तमनुसन्धानं येन स क्लृप्तसन्धानः, एवंविधो यः पुलिन्दः पुलिन्दनामा बाणकवितनयस्तेन कृतः सन्निधिः सामीप्यं यस्य स तथा पुलिन्दाभिधनिजतनयकविवरसहित इत्यर्थः । किं प्रश्न वितर्के वा, पुनः = पक्षान्तरयोतने, ससाहाय्यपक्षे किमुच्यते ? विशेषेण कवीन् विमदान् कुर्यादित्यर्थः । इत्येकोऽर्थः । अयं द्वितीयार्थ:बाणः शरः, कवीन् कस्य जलस्य वयः पक्षिणो हंसादयस्तान्, यद्वा कः कलापस्तेनोपलक्षिता वयः पक्षिणः कवयः, कलापिनो मयूरास्तान् विमदान् = विगतहर्षान् विषादयुक्तानिति यावत् करोति - विदधाति । कीदृशः शरः ? केवलोऽपि = धनुरादि साहाय्यरहितोऽपि । कीदृशः सन् ? स्फुरन् = वाय्वादिना ईषत् स्पन्दमानः सन् । ननु केवलोऽपि
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
[टिप्पनक-व्याख्या-विवृतिविभूषिता कादम्बरीसहोदर्या, सुधया वैबुधे हृदि । हर्षाख्यायिकया ख्याति, वाणोऽब्धिरिव लब्धवान् ॥२७॥ [पथ्यात्तम् ॥
ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ पुनरपि बाणकविं वर्णयितुमाह
लब्धवान् प्राप्तवान् , कः? बाणः, कां ? ख्याति-प्रसिद्धिम्, कया? हर्षाख्यायिकया, उच्छासनिबद्धा कथैवाख्यायिका हर्षस्य, राज्ञ आख्यायिका तया, सुघया-अमृतेन इव आह्लादकत्वाद् , क ? हृदि-मनसि, किंभूते ! वैबुधे-विशिष्टा बुधाः पण्डिता विबुधाः तेषाम् इदं वैवुधं तत्र, किंभूतया ? कादम्बरीसहोदर्या-कादम्बरीकथाभगिन्यैकजनकत्वात् । क इव कया ? अधिरिव-समुद्र इव, सुधया-अमृतेन, किंभूतया ? हर्षाख्यायिकयाहृष्टिकथिकया, व ? हृदि-चित्ते, किंभूते ? वैबुधे-देवसत्के, तयापि किंभूतया कादम्बरीसहोया-सुराभगिन्या द्वयोः समुद्र उत्पन्नत्वात् ॥२७॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ बाणकृतकादम्बरीकथां सुधोपमानेन समुद्रोपमानेन च बाणं स्तुवन्नाह-कादम्बरीति । व्याख्या० बाणः कविरब्धिरिव समुद्र इव ख्याति लब्धवान् , ननु समुद्रः केन कृत्वा ख्याति लब्धवानित्याह-कया सुधयाऽमृतेन, कथंभूतया सुधया कादम्बरीसहोदर्या, कदम्बं रत्नादिवस्तूनां समूह रात्यादत्त इति कदम्बरः समुद्रस्तस्याऽपत्य कादम्बरी लक्ष्मीस्तस्याः सहोदर्या भगिन्या, लक्ष्मीसुधयोः समुद्र एव जातत्वान्मिथो भगिनीत्वमिति । ननु यद्विबुधहृदयहर्षदायि स्यात्तदेव ख्यातिजनकं सुधा तु व हर्षदायिनीत्याह-कथंभूतया सुधया हर्षाख्यायिकया हर्ष मोदमाख्यातीति हर्षाख्यायिका तया, हर्षस्थानदर्शनायाऽऽह-क हृदि हृदये, किंसंबन्धिनीत्याह-हृदये कथंभूते वैबुधे विबुधानां देवानां संबन्धिनीत्यर्थः । ज्ञातास्वादकत्वेन हि देवानां हृदयेऽमृतं विशेषाद्धर्ष ददातीत्युक्तम् । बाणस्तु कादम्बरीसहोदर्येति, कादम्बरीकथा तस्या एकधनिकजातत्वेन सहोदर्या भगिन्या सुधयेति सु शोभनं धत्त इति सुधा सदाचरणं तेन, यथाऽयं बाण: कादम्बर्या कथया प्रसिद्धि लब्धवान् तथा सदाचरणेनापि प्राप्तवानिति । अथ बाणकृतकादम्बरीसुधयोः समत्वेन संपन्नं समविशेषणमाह-कथंभूतया सुधया, विबुधानां पण्डितानां सम्बन्धिनि हृदये हर्षाख्यायिकयेति पूर्ववदिति वृत्तार्थः ॥२७॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ शरः पक्षिणो विमदान् करोति तदा ससाहाय्यः किं कुर्यादित्याह-क्लुप्तसन्धानपुलिन्दकृतसन्निधिः-क्लप्तं कृत संधानं धनुारोपणं येन स क्लुप्तसन्धानः, एवंविधो यः पुलिन्दो भिल्लस्तेन कृतः सन्निधिः सान्निध्यं यस्य स तथा भिल्लहस्तगतचापयोजितः शर इत्यर्थः, पुनः किमुच्यते, विशेषेण विगतहर्षान् पक्षिणः कुर्यादित्यर्थः ॥ इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविकृतिप्रान्ते प्रोक्तम् ॥२६॥
पुनरपि बाणकविं वर्णयति-कादम्बरीत्यादिना । बाणः ख्याति लब्धवानित्यन्वयः। बाणः कादम्बरीहर्षचरित्रादिकर्ता बाणनामा कविः, ख्याति प्रसिद्धिम् , लब्धवान् प्राप्तवान् । कया ख्याति लब्धवान् ? हर्षाख्यायिकया हर्षस्य हर्षनाम्नो नृपतेः हर्षनृपसम्बन्धिनीति यावत् , या आख्यायिका विदितवृत्तान्तार्था कथा तया तथा, हर्षचरित्रेणेत्यर्थः । कथम्भूतया हर्षाख्यायिकया? कादम्बरीसहोदर्या कादम्बरी वाणकविकृता स्वनामख्याता कथा तस्याः सहोदर्या भगिन्या, कादम्बरीहर्षाख्यायिकाकथयोः बाणकविरूपैकजनकजातत्वान्मिथो भगिनीत्वमित्यर्थः । पुनः कथम्भूतया ? सुधया माधुर्यादिनाऽमृतसदृश्या । कुत्र ख्याति लब्धवान् ? वैबुधे हृदि, वैबुधे-विबुधसम्बन्धिनि पण्डितसम्बन्धिनीत्यर्थः,
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७
तिलकमञ्जरी] मावेन विघ्नितोत्साहा, नोत्सहन्ते पदक्रमे । स्मरन्ति भारवेरेव, कवयः कपयो यथा ॥२८॥ [ पथ्यावृत्तम् ] ॥
ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ नोत्सहन्ते-नोद्यम कुर्वन्ति, व ? पदक्रमे सुबन्ततिङन्तपदन्यासे, काव्यकरणे इत्यर्थः, कवयः कवितारः, कीदृशाः सन्तः ? विनितोत्साहाः भग्नोद्यमाः, केन ? माघेन-काव्येन कविनाऽतिगम्भीरार्थपदरचितमहाकाव्यत्वात् , तर्हि किं कुर्वन्ति ! स्मरन्ति-ध्यायन्ति, कस्य ? भारवेरेव-कवेः, कर्मणि षष्टीयम् , भारवि कविं स्मरन्ति, भारविरेव माघतुल्य इत्यर्थः । क इव नोत्सहन्ते स्मरन्ति च ? कपयो-यथा वानरा नोत्सहन्ते, व पदक्रमे-पदन्यासे, किंभूताः सन्तः ? विभिनतोत्साहा भग्नोद्यमाः, केन ? माघेन माघमासेनातिशीतेन, केवलं स्मरन्ति ध्यायन्ति, काः ? भा-रश्मीन् , कस्य ? रवे आदित्यस्य, कदा रवेः रश्मयः प्रकटीभविष्यन्तीति ॥२८॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या के अथ माघकविं स्तुवन्नाह-मायेनेति । व्याख्या० माघेन माघमासेन विनितः स्खलितः प्रतितरुप्रतिशाखपर्यटनसत्क उत्साहो येषां ते चैवंविधाः कपयो वानरा यथा पदक्रमे चरणसंचारे नोत्सहन्ते नैवोत्साहवन्तो भवन्ति शीतार्त्तत्वात् , तथा माघेन माघनाम्ना कविना विनितस्तच्छक्तिविशेषापेक्षया स्वशक्त्यल्पीयस्त्वदर्शनेन काव्यरचनाभ्यासे भग्न उत्साहो येषां ते तथा, कवयः पण्डिताः पदक्रमे पदरचनायां नोत्सहन्ते, माघकविविरचितशास्त्रं दृष्ट्वा नाsस्माफमीदृशं कल्पान्तेऽप्यायास्यतीत्युत्साहभङ्गपुरःसरं पदमात्रमपि नैव रचयन्तीत्यर्थः । अथ यद्येवं तर्हि कवयः कपयश्च किं कुर्वन्तीत्याह-माघमासशीतात हि कपयो रवेः सूर्यस्य भाः किरणान् स्मरन्ति, कदा शीतापहारी सूर्योदयो भावीति चिन्तयन्तीत्यर्थः । कवयस्तु माघकविशक्तिदर्शनाद्गलितस्वशक्तयो भारवेरिति भारविनाम्नः कवेः शक्तिं स्मरन्ति, माघतुल्यस्तु भारविकविरेव जात इति चिन्तयन्तीति वृत्तार्थः ॥२८॥
4 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 卐 हदि-हृदये । कया क इव ख्याति लब्धवान् ? सुधया अधिरिव, अब्धिरिव-यथा समुद्रः, सुधया अमृतेन, ख्याति-प्रसिद्धिम् , लब्धवान् , कीदृश्या सुधया ? कादम्बरीसहोदर्या-कादम्बरी मदिरा तस्याः सहोदर्या भगिन्या, सुधामदिरयोः समुद्रजातत्वप्रवादादुभयोमिथो भगिनीत्वम्, पुनः । कीदृश्या सुधया ? हर्षाख्यायिकया-हर्षस्यानन्दस्य आख्यायिकया प्रतिपादिकया, सुधामास्वाद्य वक्ति जनोऽतीवानन्दो जात इति । कुत्र ख्याति लब्धवान् ? वैबुधेविबुधसम्बन्धिनि देवसम्बन्धिनि, हदि-हृदये, सुधामास्वादयन्ति देवा इति कविजनप्रसिद्धिः । इदं पथ्यावतम तालक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥२७॥
माधकवि भारविकवि च वर्णयति माघेनेत्यादिना । 'माघेन विनितोत्साहाः कवयः पदक्रमे नोत्सहन्ते, किन्तु भारवेरेव स्मरन्ति' इत्यन्वयः । मान-शिशुपालवधाभिधकाव्यकारेण माघनाम्ना कविना, विधिनतोत्साहाः हतोत्साहा विगलितकाव्यकरणरसाः सन्तः, कवयः-काव्यकाराः, पदक्रमे-पदानां पदसंज्ञकानां विभक्त्यन्तशब्दानां क्रमे नियतपूर्वापरभावरूपेऽनुक्रमे रचनायामिति यावत् , काव्यकरणे इति भावः, नोत्सहन्ते-नोद्यम कुर्वन्ति, काव्यकरणाद् विरमन्तीत्यर्थः । अयं भावः-माघकविनिर्मितं निरुपमकाव्यगुणकलितं शिशुपालवधाभिधकाव्यमवलोक्य काव्यकरणेच्छवः कवयश्चिन्तयन्ति, यदुत-एतादृशकाव्यकरणपटौ माघकवौ विद्यमाने सति अस्मन्निर्मितकाव्यस्य विद्वत्परिषदि कदापि नादरो भविष्यत्यतः काव्यमेव न करणीयमिति माघेन हतोत्साहा सन्तः काव्यकरणाद् विरमन्तीति । ननु कवयः काव्य
For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
३८
[टिप्पनक-व्याख्या-विवृतिविभूषिता निरोद्धं पार्यते केन, समरादि त्यजन् मनः। प्रशमस्य वशीभूतं, समरादित्यजन्मनः ॥२९॥ [ पथ्यावृत्तम् ॥
विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ निरोद्धं केन पार्यते शक्यते, न केनापीत्यर्थः, किं १ तन्मनः-चित्तं, किं कुर्वत् ? त्यजत्-मुञ्चत् , किं तत् ? समरादि-संग्राममृगयाछूतपरस्त्रीगमनप्रभृति दुष्टवस्तु, कथंभूतं ? वशीभूतं-आयत्तम् , कस्य ? प्रशमस्यउपशमस्य क्षान्तेरित्यर्थः, किंभूतस्य प्रशमस्य ? समरादित्यजन्मनः समरादित्याद् हरिभद्रसूरिकृतचरमकथायाः सकाशाद् जन्मोत्पत्तिर्यस्य स तथोक्तस्तस्य ॥२९॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या : अथ परमकविं प्रशममन्दिरं समरादित्यपुत्रं स्तुवन्नाह निरोद्धमिति । व्याख्या० समरादित्यजन्मनः समरादित्यपुत्रस्य, समरादि संग्रामादिकमधिकारं वर्णनावसरं दारुणकृत्यनिरूपणतया त्यजत् प्रशमस्योपशमस्य वशीभूतं मनश्चेतः केन निरोद्धं पार्यते न केनाऽपि रुध्यत इत्यर्थः । अयं हि पूर्वं नवरसपोषकत्वेनैकदा वीररसपोषाधिकारे मिथो वीराणां कलहे जायमाने बहुषु वीरेषु पञ्चत्वमाप्तेषु प्राप्तपरमसंवेगो वीररसपोषे चाऽनर्थहेतुतया सावद्यतां विचिन्त्य प्रशमवशीभूते मनसि "न मया अद्यप्रभृति समराधधिकारे वीररसः पोष्य" इति प्रतिज्ञां कृतपानिति तेनाऽत्राऽस्यैवं वर्णनमिति वृत्तार्थः ॥२९॥
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ करणाद् केवलं विरमन्ति, उतान्यत् किमपि कुर्वन्तीत्याह-भारवेरेव स्मरन्ति, भारवेरेव-किरातार्जुनीयाभिधकाव्यकारस्य भारविनाम्नः कवेरेव, स्मरन्ति माघसदृशत्वेन स्मरणं कुर्वन्ति, “स्मृत्यर्थदयेशः” [२-२-११ ] इति कर्मणि षष्ठी. अतो भारविमेव स्मरन्तीति बोध्यम् । अयं भाव:-भो भारवे कविवर ? माघकविना यादृशं निरुपमकाव्यं कृतं तादृशं किरातार्जुनीयाभिधं काव्यं भवतैव रचितं नास्माकं शक्तिरतो माघसदृशो भवानेवेति भारविकविं स्मरन्ति । क इव ? कपयो यथा-वानरा इव, वानरपक्षे-मान-माघमासेन, कार्यकारणयोरभेदाश्रयणाद् माघमासजन्यशीतेनेत्यर्थः । विन्नितोत्साहाः-भग्नोत्साहाः, कपयः, पदक्रमे पादनिक्षेपे, चलने इत्यर्थः, नोत्सहन्ते-नोद्यम कुर्वन्ति, तर्हि किं कुर्वन्तीत्याह-रवेः सूर्यस्य, भाः-किरणान् एव, स्मरन्ति-ध्यायन्ति, माघमासजन्यशीतदूरीकरणाय सूर्यातपमिच्छन्तीत्यर्थः । अत्र सभङ्गाभङ्गात्मकः पदश्लेषालङ्कारः । पूर्णोपमालङ्कारश्च, तयोः परस्परं नैरपेक्ष्यरूपा संसृष्टिः इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥२८॥
अथ समरादित्याभिधकथाप्रशंसया तत्कर्तुराचार्यवर्यस्य श्रीहरिभद्रसूरेः प्रशंसां सूचयति-निरोद्धमित्यादिना । समरादित्यजन्मनः प्रशमस्य वशीभूतं समरादि त्यजत् [च] मनो निरोद्धं केन पार्यत इत्यन्वयः । समरादित्यजन्मनः समरादित्यात् श्रीहरिभद्रसूरिविरचितसमरादित्यकथानकाद् जन्म उत्पत्तिर्यस्य तादृशस्य, प्रशमस्य-उपशमस्य क्षमागुणस्य, वशीभूतम् अधीनीभूतम्, परमोपशमरसपोषकसमरादित्यकथाश्रवणजनितोपशमरसनिमग्नमित्यर्थः । समरादि-संग्रामादि, आदिपदाद् मृगयाद्यूतपरदारगमनादि ग्राह्यम् । त्यजत्-मुञ्चत् , मना=चित्तम्, निरोर्बु निरोधं कर्तुम् , निरुक्तमनस उपशमरसप्रवृत्तिविघातायेत्यर्थः, केन-पुरुषविशेषेण, पार्यते-शक्यते, न केनापीति काकुः,
"भिन्नकण्ठध्वनिर्धारैः काकुरित्यभिधीयते ।" इति दर्पणोक्तेः । अत्र लाटानुप्रासाख्योऽलङ्कारः । इदं पथ्यावृत्तम्, . तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥२९॥
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] स्पष्टभावरसा चित्रैः, पदन्यासैः पर्तिता । नाटकेषु नटस्त्रीव, भारती भवभूतिना ॥३०॥ [ पथ्यावृत्तम् ] ॥ दृष्ट्वा वाक्पतिराजस्य, शक्तिं गौडवघोद्धराम् । बुद्धिः साध्वसरुदेव वाचं न प्रतिपद्यते ॥३१॥ [ पथ्यावृत्तम् ॥
9 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ प्रतिता प्रकर्षेण नर्त्तनं कारिता विस्फारितेत्यर्थः, का ? भारती-वाणी, केन ? भवभूतिना कविना, केषु ? नाटकेषु-वीरचरित्रोत्तरचरित्रादिषु, कथंभूताः ? स्पष्टभावरसा व्यक्तशोकादिभावशृंगारादिरसा, कैः प्रतिता ? पदन्यासैः-सुबन्ततिङन्तपदरचनाभिः, किंभूतैः ? चित्र नानारूपैः समासादिभेदेन, केव ? नटस्त्रीव-भरतभार्येव, यथा नटी नटेन प्रनय॑ते, कैः ? पदन्यासैः पादनिक्षेपैः, कीदृशैः ? चित्रैः-जनाश्चर्यकारिभिरनेकप्रकारैर्वा, कीदृशी ? स्पष्टभावरसा स्पष्टभावा व्यक्तस्वररूपा रसाः शृङ्गारादयो यस्याः सा तथोक्ता, भावरसा च अभिप्रायाग्रहो (2) नर्तने यस्याः सा तथोक्ता, यद्वा पूर्ववद्वयाख्या ॥३०॥
बुद्धिः मतिः, न प्रतिपद्यते-न गृह्णाति न स्वीकरोति, कां ? वाचं-वचनं काव्यकरणे न प्रवर्तते, कथंभूतेव ? साध्वसरुद्धव-भयनिषिद्धेव, किं कृत्वा ? दृष्ट्वा अवलोक्य, का ? शक्ति-सामर्थ्यम् , कस्य ? वाक्पतिराजस्य-बृहस्पतिराजस्य, किंभूतां ? गौडवधोद्धरां-गौडवधो नामातिशायिगाथाकोशकाव्यशास्त्र तत्र उद्धरामुद्भटामन्यत्र वाक्पतिराजस्य-जयवर्मराजस्य (जयवर्मणो राज्ञः), शक्ति-प्रहरणविशेषं दृष्ट्वा, किंभूतां ? गोडवधोद्धरां-गौडानां गौडनृपाणां यो वधो घातः तत्रोद्भुरामुद्भटाम् , बुद्धिः साध्वसरुद्धव वाचं न प्रतिपद्यते, भयेन मुखाद् वचनं न निःसरतीत्यर्थः ॥३॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथ भवभूति स्तुवन्नाह-स्पष्टभावेति-व्याख्या० नाटकेषु नाटयशास्त्रेषु नृत्येषु च, इव यथा नटस्त्री नृत्यकरी तथा भारती वाणी भवभूतिना भवभूतिनाम्ना कविना प्रनर्तिता नृत्यं कारिता, यथा नटस्त्री नाटकेषु नृत्यति तथा नाटकशास्त्रेषु भवभूतिभारती विलासापन्नत्वेन नृत्यतीवेत्यर्थः । नटस्त्रीभात्योः साम्यं दर्शयति, कैः कृत्वा प्रनर्तितेति करणं दर्शयति, कैः पदन्यासैः, नटनयर्थे चरणन्यासै रत्यर्थे विभक्त्यन्तपदन्यासः, कथंभूतैश्चित्रविचित्रश्वरणन्यासैः, विभक्त्यन्तपदन्यासार्थे तु चिज्ज्ञानं त्रायन्तीति चित्रास्तैश्चित्रैः । अथ कथंभूता भारती स्पष्टभावरसा, स्पष्टो भावो येषां ते स्पष्टभावा रसाः शङ्गारादिका यस्याः सा स्पष्टभावरसा, नटस्त्रीपक्षे तु कथंभूता सा स्पष्टभा स्पटा भाः कान्तियस्याः सा स्पष्टभा, पुनः कथंभूता वरसा, वरा प्रधाना सा लक्ष्मीर्यस्याः सा वरसेत्युभयोः साम्यमिति वृत्तार्थः ॥३०॥ ___अथ वाक्पतिराजकवि स्तुवन्नाह-दृष्ट्वा वेति, व्याख्या० वाक्पतिराजस्य वाक्पतिराजनाम्नः कवेगौडवधोछुरां गौडवधकाव्यरचनोऽधुरां शक्तिं दृष्ट्वेवोत्प्रेक्ष्यते, साध्वसरुद्धा भयाक्रान्ता बुद्धिर्वाचं गिरं न प्रतिपद्यते, कवीनां हि काचिद् बुद्धिर्भवत्येव परं तच्छक्तिं दृष्ट्वा नैतादृशं मया कर्तुं शक्यमिति कृत्वा न मुखे सा बुद्धिरायात्यन्तरेव विलयं यातीत्यर्थ इति वृत्तार्थः ॥३१॥
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ अथ भवभूतिनामानं कवि वर्णयति-स्पष्टभावरसेत्यादिना । भवभूतिना भारती प्रनर्तितेत्यन्वयः । भवभूतिनाभवभूतिनाम्ना कविना, भारती-वाणी, प्रनर्तिता-प्रकर्षेण नर्तनं कारिता, विस्फारितेत्यर्थः । कुत्र प्रनर्तिता ?
For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
Ees
[ टिप्पनक-व्याख्या-विवृतिविभूषिता भद्रकीत्तेर्धमत्याशाः, कीर्तिस्तारागणाध्वना । प्रभा ताराधिपस्येव, श्वेताम्बरशिरोमणेः ॥३२॥ [ पथ्यावृत्तम् ] ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ भद्रकीतः बप्पभट्ट्याचार्यस्य भ्रमति-पर्यटति, का ? कीर्तिः, का ? आशाः=दिशः, केन ? तारागणाध्वना-तारागणाभिधानकाव्यमार्गेण, किंभूतस्य भद्रकीर्तेः ? श्वेताम्बरशिरोमणेः श्वेतपटमुनिनायकस्य, कस्येव का भ्रमति ? प्रभा-कान्तिः, यथा ताराधिपस्य-चन्द्रस्य भ्रमति, का ? आशाः दिशः, केन ? तारागणाध्वना आकाशेन, ताराधिपस्यापि किंभूतस्य ? श्वेताम्बरशिरोमणे: श्वेतश्चासौ अम्बरशिरोमणिश्चाकाशमूर्ध्नरत्नं च स तथोक्तस्तस्याकाशभूषणस्येत्यर्थः ॥३२॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ श्वेताम्बरशासनोन्नतिकारिणं भद्रकीर्तिनामानं कविं स्तौति, भद्रकीतैरिति-व्याख्या० भद्रकीतः कवीश्वरस्य कीर्तिस्तारागणाध्वना व्योममार्गेणाऽऽशा दिशः प्रति भ्रमति पर्यटति, इव यथा ताराधिपस्य चन्द्रस्य प्रभा कान्तियोममार्गेण दिशः प्रति भ्रमति । अथौपम्योपमेययोश्चन्द्रभद्रकीयाविशेषणसाम्यं दर्शयति, कथंभूतस्य भद्रकीर्तः
रशिरोमणेः श्वेतवासोधारिसाधशिरोरत्नस्येत्यर्थः. चन्द्रस्य कथंभूतस्य श्वेताम्बरशिरोमणे: श्वेतं यदम्बरमाकाशं तत्र सर्वग्रहाधिपत्येन शोभाकारित्वाच्छिरोमणेरिति वृत्तार्थः ॥३२॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ नाटकेषु-ख्यातवृत्तेषु वीरचरित्रादिषु नाटकग्रन्थेषु, कैः प्रनर्तिता ? पदन्यासैः-पदानां विभक्त्यन्तशब्दानां न्यास रचनाभिः, कीदृशैः पदन्यासैः ? चित्रैः समासादिभेदेन विविधप्रकारैः । प्रनर्तिता सती भारती कीदृशी जाता ? स्पष्टभावरसा स्पष्टो व्यक्तो भावोऽभिप्रायो रसः शृङ्गादिर्यस्यां सा तथा । केव ? नटस्त्रीव-नटी इव, तत्र नटीपक्षे भवभूतिना-भवस्य महादेवस्य भूतिर्नृत्यकलारूपा विभूतिर्यस्य स भवभूतिनृत्यकलाकुशलो नटस्तेन, नटस्त्री-नटी, प्रनर्तिता-प्रकर्षेण नर्तनं कारिता, कैः प्रनर्तिता ? पदन्यासः-चरणविन्यासः, कीदृशैः पदन्यासैः ? चित्रैः-जनाश्चर्यकारिभिः विविधप्रकारैर्वा, कुत्र प्रवर्तिता ? नाटकेषु-नाटकक्रियासु, प्रनर्तिता सती नटी कीदृशी जाता ? स्पष्टभावरसा स्पष्टो व्यक्तोऽभिनयेन ज्ञाप्यमानो भावो भ्रविक्षेपादिरूपः रसः शृङ्गारादिको यस्या सा तथा, उभयत्रास्तीति शेषः । अत्र श्लेषानुप्राणिन्युत्प्रेक्षालकृतिः ॥ इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३०॥ ___अथ वाक्पतिराजनामानं कविं वर्णयति-दृष्ट्वेत्यादिना । वाक्पतिराजस्य गौडवधोद्धुरा शक्तिं दृष्ट्वा बुद्धिः साध्वसरुद्धेव वाचं न प्रतिपद्यत इत्यन्वयः । वाक्पतिराजस्य-गौडवधकाव्यकारस्य वाक्पतिराजनाम्न: कवेः, गौडवधोद्धरा-गौडवधे 'गउडवहो' इति प्रसिद्ध गौडवधनाम्नि काव्ये उद्धरां दृढाम् , शक्ति-बुद्धिवैभवम् , दृष्ट्वाअवलोक्य, बुद्धिः मतिः, साध्वसरुद्धव-साध्वसेन भयेन रुद्धा इव प्रतिहता इव, वाचं-वचनम्, न प्रतिपद्यतेन गृह्णाति, काव्यकरणे न प्रवर्तत इत्यर्थः, केषां बुद्धिरिति जिज्ञासायां कविजनानामिति शेषः, इत्येकोऽर्थः, अयं द्वितीयोऽर्थः-वाक्पतिराजस्य-गौडवधकाव्ये वर्णितस्य यशोवर्मराजस्य, गौडवधोरां गौडानां गौडदेशनृपाणां वधे मारणे उद्धरामुद्भटां दृढाम्, शक्तिं-प्रहरणविशेषं सामर्थ्य वा, दृष्ट्वा अवलोक्य, बुद्धिः-मतिः, साध्वसरुद्धवभयप्रतिहतेव, वाचं वचनम्, न प्रतिपद्यते-न गृह्णाति, भयेन मुखाद् वचनं न निस्सरतीत्यर्थः । अत्रोत्प्रेक्षालङ्कारः ॥ इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविश्रुतिप्रान्ते प्रदर्शितम् ॥३१॥
अथ बप्पभट्टिसरिवरं प्रशंसति-भद्रकीर्तेरित्यादिना । भद्रकीतः कीर्तिभ्रंमतीत्यन्वयः । भद्रकीतैः श्रीबप्पभट्टयाचार्यस्य, कीत्तिः यशः, भ्रमति-विचरति । कीदृशस्य भद्रकीर्तेः ? ताराधिपस्य-ताराणां निर्मलानां जना
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] समाधिगुणशालिन्यः, प्रसन्नपरिपक्त्रिमाः। यायावरकवेर्वाचो, मुनीनामिव वृत्तयः ॥३३॥ [ पथ्यावृत्तम् ] ॥
卐 विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ वाचो वर्त्तन्ते, कस्य यायावरकवे राजशेखरस्य, समाधिगुणशालिन्यः समाधिलक्षणो यो गुणः शब्दालङ्कारविशेषस्तेन शालिन्यः श्लाघावत्यः, प्रसन्नपरिपक्त्रिमाः-प्रसादवत्परिणताः । का इव केषां ? वृत्तय इव-व्यापारा इव, मुनीनां यतीनाम् , समाधिगुणशालिन्यः समाधानगुणश्लाघावत्यो यद्वा समाधिश्च गुणाश्च क्षान्त्यादयस्तैः शोभावत्यस्तथा प्रसन्नपरिपक्त्रिमा निर्मलाः स्वर्गापवर्गफलपाकनिर्वृत्ताः ॥३३॥
॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या के अथ वरकविगिरः स्तुवन्नाह-समाधे इति, व्याख्या० या या मुनीनां वृत्तय इव वरकवेर्वाचः सन्ति, कीदृशा वाचो मुनिवृत्तयश्चेत्युभयोर्विशेषणसाम्यं दर्शयति, गुणशालिन्यो गुणप्रधानाः प्रसन्नाः परिपाकशीलाः पवित्रमा इति, ताः किमित्याह समाधे स्मरामीति वृत्तार्थः ॥३३॥
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ नामधिपस्य स्वामिनः, पुनः कीदृशस्य ? श्वेताम्बरशिरोमणेः श्वेताम्बरा जैनमुनयस्तेषु शिरोमणेः मुकुटसदृशस्य, श्वेताम्बरमुनिनायकस्येत्यर्थः, कीदृशी कीर्तिः ? प्रभा-प्रकर्षण भातीति प्रभा, प्रकर्षण शोभमानेत्यर्थः । कुत्र भ्रमति ? आशा-दिशः, व्याप्तिविवक्षया द्वितीया, तथा च सर्वासु दिक्षु इत्यर्थः । केन भ्रमति ? तारागणाध्वना-तारागणस्तारागणनामा काव्यग्रन्थस्तद्रूपेणाध्वना मार्गेण, तारागणाभिधकाव्यग्रन्थद्वारेत्यर्थः, कस्य केव ? ताराधिपस्य प्रमेव, ताराधिपस्य-चन्द्रस्य, प्रमेव ज्योत्स्ना इव, कीदृशस्य चन्द्रस्य ? श्वेताम्बरशिरोमणेः=श्वेतं धवलं यद् अम्बरमाकाशं तस्य शिरोमणे: शिरोरत्नस्य । पुनः कीदृशस्य चन्द्रस्य ? भद्रकीतैः चारुयशसः । कुत्र प्रभा भ्रमति ! आशाः प्राग्वदर्थः, केन प्रभा भ्रमति ? तारागणाध्वना-तारागणस्य अध्वा मार्ग आकाशं तेन, आकाशद्वारेत्यर्थः । अत्र श्लेषानुप्राणिन्युत्प्रेक्षा, इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३२॥
यायावरापराभिधानं राजशेखरकवि वर्णयति-समाधिगुणेत्यादिना। यायावरकवेर्वाचः [सन्तीति शेषेण ] अन्वयः । यायावरकवेः-राजशेखरनाम्नः कवेः, वाचा वचनानि, सन्तीति शेषः । यद्वा वरकवेः उत्तमकाव्यकारस्य, या या वाचः-वचनानि, तास्ताः समाधिगुणादिविशेषणसहिताः सन्तीत्यर्थः । कथम्भूता वाचः ? समाधिगुणशालिन्यः प्रसन्नपरिपक्त्रिमाश्च, समाधिगुणशालिन्या-समाधिः “ समाधिः सुकरे कार्य दैवाद् वस्त्वन्तरागमाद्" इत्युक्तः समाधिलक्षणोऽलंकारः, स एव गुणस्तेन, यद्वा गुणा: " गुणा माधुर्यमोजोऽथ प्रसाद इति ते त्रिधा" इति साहित्योक्ता रसधर्मास्तैः शालन्ते श्लाघावत्यो भवन्तीति समाधिगुणशालिन्यः, “शाङ् श्लाघायाम्' इत्यस्य लत्वम् । प्रसन्नपरिपषित्रमा प्रसन्नाः “चित्तं व्याप्नोति यः क्षिप्रं शुष्कन्धनमिवानलः । स प्रसादः समस्तेषु रसेष रचनासु च ॥” इति साहित्योक्तो यः प्रसाशख्यो गुणस्तेन युक्ताः, परिपक्त्रिमाः परिपाकेन नैपुण्येन निर्वताः। का इव वाचः सन्ति ? मुनीनामिव वृत्तयः, मुनीनां संयमधारिणाम् , वृत्तय इव-अन्तःकरणपरिणामा इव । इमा अपि तादृश्यस्तथाहि-समाधिगुणशालिन्यः समाधिः ध्येयवस्तुनि एकाग्रतया मनसः स्थापनं स एव गुणस्तेन, यद्वा गुणाः क्षमाप्रभृतयस्तैः शालन्ते श्लाघावत्यो भवन्तीति समाधिगुणशालिन्यः । प्रसन्नपरिपक्त्रिमा प्रसन्ना निर्मलाः संतुष्टाः कृतानुग्रहविशेषा वा, परिपक्त्रिमाः परिपाकेन नैपुण्येन निवृत्ताः । अत्र श्लेषानुप्राणिन्युत्प्रेक्षालङ्कारः, इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३३॥
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
[ टिप्पनक-व्याख्या-विवृतिविभूषिता सरिर्महेन्द्र एवैको, वैबुधाराधितक्रमः। यस्यामयोचितमौढि,-कविविस्मयकृद् वचः ॥३४॥ [ पथ्यावृत्तम् ] ॥ स मदान्धकविध्वंसी, रुद्रः कैर्नाभिनन्द्यते ? । सुश्लिष्टललिता यस्य, कथा त्रैलोक्यसुन्दरी ॥३५॥ [ पथ्यावृत्तम् ] ॥
+ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ महेन्द्र एवैको ऽद्वितीयः, सूरि आचार्यो वर्त्तते, वैबुधाराधितक्रमः-विविधविद्वद्वन्दसेवितपादः, यस्यमहेन्द्रसूरेर्वचो वचनमस्ति, कीदृशम् ? अमोचितप्रौढिकविविस्मयकृद-अमोचितप्रौढयो देवयोग्यप्रौढता ये कवयः कवितारस्तेषां विस्मयकृद् आश्चर्यकारि, अन्यत्र महेन्द्र एव देवराज एवैकः सूरिः विद्वान् , कीदृशो ? वैबुधाराधितक्रमोदेवसमूहसेवितचरणो, यस्य महेन्द्रस्य वचोऽमयोचितप्रौढिकविविस्मयकृद्-अमयों देवः, उचितप्रौढिश्च योग्यप्रौढिमा च यः कविवृहस्पतिस्तस्य विस्मयकृद्-आश्चर्यकारि ॥३४॥
स रुद्रो रुद्राभिधानः कविः, कैर्नाभिनन्द्यते सर्वैरपि प्रशस्यते, कीदृशो ? मदान्धकविध्वंसी-मदान्धा दर्पान्धा ये कवयस्तान् ध्वंसते तिरस्करोति पराभवतीति स तथोक्तः । यस्य कथा वर्त्तते, किमाख्या ? त्रैलोक्यसुन्दरी, किंभूता ? सुश्लिष्टललिता-पुष्टश्लेषघना लालित्ययुक्ता चान्यत्र रुद्रो-हरः, कैर्नाभिनन्द्यते ? सर्वैरपि प्रशस्यते, कीदृशः ? समदान्धकविध्वंसी-समदो मदसहितोऽन्धकोऽन्धकासुरस्तस्य विध्वंसी विघाती, यस्य सुश्लिष्टललिता-आलिङ्गनवती गौरी, किंभूता ? त्रैलोक्यसुन्दरी त्रैलोक्ये त्रिभुवनमध्ये सुन्दरी सौन्दर्ययुक्ता ॥३५॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या + अस्य चतुस्त्रिंशत्तमस्य श्लोकस्य श्रीमत्पद्मसागरविबुधरचिता व्याख्या नोपलभ्यते । अथ रुद्रकविं रुद्रोपमया स्तुवन्नाह-[समदान्धेति ] स रुद्रः कैर्नाऽभिनन्द्यते न स्तूयतेऽपि तु सर्वैरपि स्तूयते, कथमित्याह-कथमिति विशेषणद्वारा तत्स्वरूपं दर्शयति, कथंभूतो रुद्रो मदान्धकविध्वंसी रुद्रकविपक्षे तु मदेनाऽन्धा ये कवयस्तान् मदोत्तारेण ध्वंसत इति मदान्धकविध्वंसी । ईश्वरपक्षे तु सह मदेन वर्तते यः स समद एवंविधो योऽन्धको दैत्यविशेषस्तं ध्वंसत इति तद्वंसी । प्राप्तरुद्रोपमानः कोऽसौ कविरित्याशङ्कयाऽऽह-यस्य कृतिरूपा त्रैलोक्यसुन्दरीनाम्नी कथा, सुश्लिष्टानि मनोज्ञानि ललितानि वाक्यानि यस्यां सा तथाऽस्तीत्यध्याहारः, कोऽसावीश्वर इत्याशङ्कायामीश्वरपक्षे तु यस्येश्वरापरपर्यायस्य रुद्रस्य कथा चरित्रमवदात इति यावत् , त्रैलोक्यसुन्दरी त्रिलोक्यां बन्धुरा सती सुश्लिष्टं प्रशस्यं ललितं चेष्टितं यस्याः सा सुश्लिष्टललिताऽस्तीति वृत्तार्थः ॥३५॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ अथ स्वधर्मगुरुं स्वबन्धुशोभनमुनिदीक्षागुरुं च महेन्द्रसूरिवरं कविवरं स्तौति-सूरिरित्यादिना । [स] महेन्द्र एवैकः सूरिः [अस्ति] इत्यन्वयः । उत्तरदले यच्छन्दोपादानेन तच्छब्दार्थाक्षेपात् स इत्यध्याहार्यम् , तथा च स महेन्द्रः महेन्द्रनामा, एव, एक अद्वितीयः, सूरिः-आचार्यो विद्वांश्च, अस्तीतिशेषः । कीदृशः ? वैबुधाराधितक्रमः विविधा बुधाः पण्डिता विबुधास्तेषां समूहो वैवुधं तेन. यद्वा वै निश्चयेन बुधैः पण्डितैराराधितौ सेवितौ क्रमौ पादौ यस्य स तथा, नानाविद्वत्सेवितपाद इत्यर्थः । स कः ? यस्य महेन्द्रसूरेः, वचः-वचनम् , अस्तीति शेषः । कीदृशं वचनम् ? अमोचितप्रौढिकविविस्मयकृद्-अमर्त्या देवास्तेषामुचिता योग्या प्रौढिः प्रौढता निपुणता येषां तादृशा ये कवयः काव्यकारास्तेषां विस्मयकृद् आश्चर्यजनकम् । यद्वा आमयोचितप्रौढि-आ समन्ताद्
For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३
तिलकमञ्जरी ] सन्तु कर्दमराजस्य, कथं हृद्या न मूक्तयः ।
कविस्त्रैलोक्यसुन्दर्या, यस्य प्रज्ञानिधिः पिता ॥३६॥ [ पथ्यावृत्तम् ] ॥ ॐ अस्य षट्त्रिंशत्तमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचित टिप्पनकं नास्ति ॥ ॥
ॐ श्रीमत्पद्मसागरविबुधचिता व्याख्या ॥ अथ तदङ्गजं कविराज कर्दमराजं स्तुवन्नाह-सन्त्विति, व्याख्या० कर्दमराजस्य कवेः सूक्तयः शोभनानि वाक्यानि कथं न हृदयं हरन्तीति हृद्याः सन्तु भवन्तु, पञ्चमी चाऽत्र क्रियादेशादतिप्रशंसां सूचयति । ननु कोऽसौ कर्दमराजो यद्वाक्यातिप्रशंसा विहितेत्याशङ्कय तत्स्वरूपं. दर्शयति, कविरिति, यस्य कर्दमराजस्य त्रैलोक्यसुन्दर्याः कविः कर्ता रुद्रनामा पिताऽभूत् , यस्येदृशः पिता स कथं न प्रशस्यवाक्यो भवतीति । ननु पितुर्गुणाधिकत्वेऽपि पुत्रस्य कस्यचिनीचतादर्शनादस्याऽपि तथा भविष्यतीत्याशङ्कापाकरणार्थमाह-कथंभूतस्य यस्य प्रज्ञानिधेबुद्धिनिधानस्य तथा चाऽस्याऽपि स्वपितुरिव गुणवत्तया प्रशस्यवाक्यत्वमिति वृत्तार्थः ॥३६॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ मत्यैानवैरुचिता परिचिता प्रौढिनिपुणता यस्य तत् तथा, कविविस्मयकृञ्च । इत्येकोऽर्थः, अयं द्वितीयोऽर्थः-स महेन्द्र महान् इन्द्र एव, एकः अद्वितीयः, सूरिः विद्वान् , अस्तीति शेषः, कीदृशः ? वैबुधाराधितक्रमः विबुधानां देवानां समूहो वैबुधं तेन आराधितौ सेवितौ क्रमौ चरणौ यस्य स तथा, स कः ? यस्य महेन्द्रस्य देवराजस्य, वचः-वचनम् , अस्तीति शेषः, कीदृशम् ? अमोचितप्रौढिकविविस्मयकृद-अमयों देवरूपः, उचितप्रौढिश्च यः कविव॑हस्पतिस्तस्य विस्मयकृद् आश्चर्यजनकम् । यद्वा अमलैर्देवैरुचिता परिचिता प्रौढिः प्रौढता सामर्थ्य वा यस्य तादृशम् , कविविस्मयकृच्च-कवेः कविगुणयुक्तत्वाद् बृहस्पतेः विस्मयकृद् आश्चयर्जनकम् । अत्रातिशयोक्तिरलङ्कारः श्लेषश्व, तयोः परस्परं नैरपेक्ष्यात् संसृष्टिः । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३४॥
त्रैलोक्यसुन्दरीकथाकारं रुद्रकविं वर्णयति-स मदान्धेत्यादिना । स रुद्रः कैर्नाभिनन्द्यत इत्यन्वयः । स रुद्र:रुद्रनामा कविः, कैः सहृदयैः, नाभिनन्द्यते ?-न प्रशस्यते ? अर्थात् सर्वैरपि प्रशस्यत इति काकुः । कीदृशो रुद्रः ? मदान्धकविध्वंसी-मदेन गर्वेण अन्धा ये कवयस्तान् ध्वंसयति पराभवति मदरहितान् करोतीति तथा । स कः ? यस्य-रुद्रकवेः, त्रैलोक्यसुन्दरी-त्रैलोक्यसुन्दरीनाम्नी, कथा, अस्तीति शेषः, कीदृशी कथा ? सुश्लिष्टललिता-सुश्लिष्टा शोभनश्लेषयुक्ता चारुश्लेषाख्यालङ्कारालङ्कृतेत्यर्थः, ललिता लालित्ययुक्ता च, इत्येकोऽर्थः, अयं द्वितीयोऽर्थः अत्र पक्षे सशब्दस्यान्यत्र योजनाद् उत्तरत्र यच्छब्दोपादानाच्च स इत्यध्याहार्यम् । स रुद्रः शङ्करः, कैः जनविशेषैः, नाभिनन्द्यते ?-न प्रशस्यते ? कीदृशः शङ्करः ? समदान्धकविध्वंसी-समदो मदसहितो योऽन्धकोऽन्धकासुरस्तं विध्वंसयति नाशयतीति तथा, स कः ? यस्य-शङ्करस्य, सुश्लिष्टललिता-सु सुतरां श्लिष्टा आलिङ्गिता ललिता ईप्सिता गौरीनाम्नी नारी, अस्तीति शेषः, कीदृशी गौरी ? त्रैलोक्यसुन्दरी-त्रैलोक्ये त्रिभुवने सुन्दरी सौन्दर्यशालिनी । अत्रोत्प्रेक्षालङ्कारः श्लषालङ्कारोऽतिशयोक्तिरलङ्कारश्च, एतेषां मिथोऽङ्गाङ्गिभावेन संकरः । इदं पश्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३५॥
रुद्रकवितनयं कर्दमराजकविं वर्णयति-सन्तु कर्दमेत्यादिना । [तस्य] कर्दमराजस्य सूक्तयो हृद्याः कथं न सन्तु ? इत्यन्वयः । तस्येत्यध्याहार्यमुत्तरदले यदुपादानाद्, तथा च तस्य कर्दमराजस्य-कर्दमराजनाम्नः कवेः, सूक्तयः
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
[टिप्पनक-व्याख्या-विवृतिविभूषिता केचिद् वचसि वाच्येऽन्ये, केऽप्यशून्ये कथारसे ।
केचिद् गुणे प्रसादादौ, धन्याः सर्वत्र केचन ॥३७॥ [ पथ्यावृत्तम् ] ॥ अस्त्याचर्यनिधानमर्बुद इति ख्यातो गिरिः खेचरैः, कृच्छ्राल्लवितदिग्विलविशिखरग्रामोऽग्रिमः क्ष्माभृताम् । मैनाकेन महार्णवे हरतनौ सत्या प्रवेशे कृते, येनकेन हिमाचलः शिखरिणां पुत्रीति लक्ष्योऽभवत् ॥३८॥ [शार्दूलविक्रीडितवृत्तम् ] ॥ 卐 अस्य सप्तत्रिंशत्तमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पकं नास्ति ॥ ॥
" श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ कथाप्रारम्भोद्यतः कवीनां तारतम्यं दर्शयति, केचिदिति, व्याख्या० केचित् कवयो दक्षत्वेन वचसि वाकलायां धन्याः स्युर्वक्तुमेव जानन्तीत्यर्थः । केचिदन्ये कवयो वाच्येऽवसरोचितनिरूपणीये धन्याः स्युः, पूर्वेषामिवैतेषां सर्वदैव तथाविधवाकलाभावेऽप्येते सत्यवसरे तथैव वदन्ति यथा स्वार्थसिद्धिर्भवतीत्युक्त केचिदन्ये वाच्ये धन्याः स्युरिति । केऽपि कवयोऽशून्ये गुणैरवन्ध्ये गुणाढये कथारसे धन्याः स्युस्तथाविधां कथां कथयितुं प्रथितुं चाऽपि जानन्तीत्यर्थः । केचित्कवयः प्रासादादौ गुणे राजादेः प्रसन्नताकरणादौ धन्याः स्युः । केचित्कवयः स्वगुणेन राजादिकं प्रसादयन्तीत्यर्थः । केचन सर्वाद्भुतभाग्याधिकाः कवयः सर्वत्र सकलकलायां दक्षाः स्युरिति कवेस्तारतम्य दर्शितम् । एतन्निरूपणं च न केनचित्कविना स्वगुणगर्वः कार्योऽधिकाधिकदर्शनादिति सूचनार्थमिति वृत्तार्थः ॥३७॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ शोभना उक्तयो वचनानि, हृद्या हृदयानन्ददायिन्यः, कथं न सन्तु ? अर्थादवश्यं मानसामोददा भवन्तु । तस्य कस्य ? यस्य कर्दमराजकवेः, पिता-जनकः, अस्तीति शेषः । कीदृशः ? त्रैलोक्यसुन्दर्याः कविः त्रैलोक्यसन्दरीकथाकारः । पुनः कीदृशः ? प्रज्ञानिधिः प्रज्ञायाः "बुद्धिस्तात्कालिकी ज्ञेया मतिरागामिगोचरा । प्रज्ञां नवनवोन्मेषशालिनी प्रतिभा विदुः ॥” इत्युक्ताया निधिनिधानम् । एतेन कविवंशत्वमावेदितम् । यद्वा 'प्रज्ञानिधेः' इति पाठे कर्दमराजविशेषणतया व्याख्येयम् । अत्र कवेविशेषवर्णनाद् विशेषालंकारः । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३६॥
कविविशेष वर्णयति-केचिदित्यादिना । केचित्-कतिपये कवयः, वचसि वचने, धन्याः श्लाघ्याः, वक्तृत्वगुणे निपुणा इत्यर्थः । अन्ये-अपरे कवयः, वाच्ये-पदार्थे धन्याः, पदार्थज्ञाने निपुणा इत्यर्थः । केऽपि कतिपये च कवयः, अशून्ये सम्पूर्णे, कथारसे-कथाया रसे धन्याः, सम्पूर्णकथारसज्ञा इत्यर्थः । केचित् कतिपये कवयः, प्रसादादौ-माधुर्योजःप्रसादाख्ये, गुणे-काव्यगुणे धन्याः, काव्यगुणज्ञा इत्यर्थः । केचन-कतिचित् कवयः, सर्वत्र वचनार्थपूर्णकथारसप्रसादादिगुणप्रभृतिसर्वविषये धन्याः, अतोऽतीव श्लाघनीया इत्यर्थः । एतेन केनापि कविना स्वगुणगों न कर्तव्य इति सूचिम् । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३७॥
अथाधुना यदभ्यर्थनया प्रस्तुता तिलकमञ्जरी कथा विरचिता स भोजदेवो नृपः कविना वर्णनीयः, स च भोजः प्रशस्तराजवंशजो न तु प्राकृतवंशज इति दर्शनाय वंशो निरुपणीयः, अयं वंशोऽपि अर्बुदगिरौ जात इति यथोत्तर वर्णयितुकामः कविः प्रथममबुंदगिरि वर्णयति-अस्तीत्यादिना । [स] अर्बुद इति ख्यातो गिरिरस्तीत्यन्वयः । स
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] वासिष्ठैः स्म कृतस्मयो वरशतैरस्त्यग्निकुण्डोद्भवो, भूपालः परमार इत्यभिधया ख्यातो महीमण्डले । अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति यस्यार्बुदे, विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः ॥३९॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥
+ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ श्रीभोजदेवराजवंशवर्णनपूर्वकभोजदेववर्णनार्थमबुंदगिरिवर्णनमाह-अस्तीत्यादि, खेचराः विद्याधरादयो, ग्रामः= समूहः, सत्या-गौर्या ॥ ३८ ॥ वासिष्ठैरित्यादि, कृतस्मयो-विहितगर्वः, विश्वामित्रजयोर्जितस्य-विश्वामित्रर्षिपराभवविस्फुरितस्य ॥३९॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ कृतमहानुभावतत्तत्कविनामस्मरणरूपमङ्गलोपचारः कथां ग्रथ्नाति । ननु यथाऽनेनाऽविघ्नपरिसमाप्तये मङ्गलं कृतं. तथा शिष्टाचारपरिपालनाय शिष्टप्रवृत्त्यर्थं च प्रयोजनसम्बन्धावपि दर्शनीयौ, किमर्थमसावेतां कथां ग्रथ्नाति. कि चाऽत्र वाच्यमित्याशङ्कय प्रथमं प्रयोजनदर्शनार्थमेतदारचयति, अस्त्याश्चर्येति, व्याख्या० क्ष्माभृतां पर्वतानां मध्येऽग्रिमोऽग्रेसरोऽधूदनामा गिरिः पर्वतोऽस्ति । ननु कुतोऽस्य क्ष्माभृतामनिम्त्वमित्याशक्य तत्सूचकानि विशेषणान्याह, कथंभूतोऽर्बुद आश्चर्यनिधानं विविधकौतुकान्वितत्वात् , पुनः कथंभूतः खेचरैर्विद्याधरैः कृच्छात्कष्टाल्लङ्घितो, दिशो विलम्बत इति दिग्विलम्बी, नभःप्रदेशानामेव दिक्तवेन नभो यावद् व्यापीत्यर्थः, एवंविधः शिखरग्रामः कूटसमूहो यस्य स तथा, अथ पुनरस्याऽतिशयं दर्शयति मैनाकेनेति, येनाऽबुंदेनैकेन केवलेन सता हिमाचलः पर्वतः शिखरिणां पर्वतानां मध्ये पुत्रीति पुत्रवानयमिति, लक्ष्म चिहमस्याऽस्तीति लक्ष्म्योऽभवत्, अपरे पर्वतास्तु निरपत्या एव, हिमाचलस्त्वर्बुदेन कृत्वा सापत्यो यतोऽस्य हिमाचलस्याऽपत्यत्रयं, मैनाकपर्वतः पार्वत्यर्बुदाचलश्च । नन्वस्याऽपत्यत्रयस्य सद्भावे कथमेकेनाऽर्बुदाचलेन सापत्यत्वमुक्तमित्याशङ्कय पार्वतीमैनाकाभ्यां यत्कृतं तद्दर्शयति, मैनाकेन महार्णवे महासमुद्रे प्रवेशे कृते सति सत्या पार्वत्या हरतनौ शम्भुवपुषि प्रवेशे कृते सतीति । मैनाकस्तु महार्णवे प्रविश्याऽदृश्योऽभूत् पार्वती चेश्वरवपुषि प्रविश्याऽदृश्याऽभूत्तथा चाऽपत्यद्वयमस्य निरर्थकमेव जातमेकोर्बुदस्तु स्वपितुरभ्यणे स्थितत्वेन दृश्यत्वात् सार्थक इति । तेनाऽस्य सापत्यत्वमिति वृत्तार्थः ॥३८॥ ____ अथ किमित्यत्राऽव॒दे जातमित्येतद्दर्शयति, वासिष्ठैः स्मेति । व्याख्या० अत्र चाऽबुंदेऽग्निकुण्डोद्भवोsग्निकुण्डनामकं कुलं तत्र समुत्पन्नः परमार इत्यभिधया ख्यातो भूपालो राजाऽस्ति स्मेत्यभूत् , स्मयोगे च वर्तमानाऽप्यतीतकालं वक्तीति । कथंभूतः कृतस्मयः कृतो निर्मितो स्मयोऽभिमानो येन स कृतस्मयः, कैः सह वासिष्ठवसिष्ठवंशोद्भवैःः सह, वसिष्ठवंशोद्भवास्त्वस्य वैरिण इति तैः सह, कथंभूतैर्वासिष्ठै रवशते रवानां शब्दानां शतानि वावदूकत्वेन येषां ते तथा तैः । वयमस्यैवं कुर्म इति वदनशीलैरित्यर्थः । अथाऽस्य परमारभूपालस्य स्फूर्जितं वर्णयन्नाह-अद्याप्पीति, विश्वामित्रनाम्ना ऋषिणा दत्तो यो जयस्तेन कृत्वोर्जितस्य परमौजस्विन इत्यर्थः । अस्य हि व्यक्तभक्तितुष्टेन विश्वामित्रर्षिणा सर्वत्र त्वं जयी भूया इति वरः प्रदत्त इतीत्थमुपन्यासः । यस्य परमारस्य भुजयोर्बाह्वोर्विशेषात् स्फूर्जितं सफलस्फूर्तिमत्त्वं गुर्जरा इति गुर्जरदेशजना अद्याऽपीत्येतद्ग्रन्थकर्तृकालेऽप्युद्गतः प्रकटितो यो हर्षस्तेन गद्गदा गिरो येषां ते तथैवंविधाः सन्तो गायन्ति, क्वेत्याहाऽर्बुदे पूर्वोक्तपर्वतेऽर्बुदे चाऽस्य युगपदेकबाणविद्धदृषण्मयमहिषवृन्दा दृषण्मयी मूर्तिरद्याऽपि दृश्यत इति वृत्तार्थः ॥३९॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ इत्यध्याहायमुत्तरदले यदुपादानात् , स, अर्बुद इति-अर्बुद इति नाम्ना, ख्यातः ख्यातिमान् , गिरि पर्वतः, अस्ति-विद्यते, कीदृशोऽर्बुदगिरिः ? आश्चर्यनिधानम् आश्चर्याणामाश्चर्यजनकवस्तूनां निधानं संग्रहस्थानम् । पुनः
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-व्याख्या-विवृतिविभूषिता तस्मिन्नभूद् रिपुकलत्रकपोलपत्र
वल्लीवितानपरशुः परमारवंशे । श्रीवैरिसिंह इति दुर्धरसैन्यदन्ति
दन्ताग्रभिन्नचतुरर्णवकूलभित्तिः ॥४०॥ [ वसन्ततिलकावृत्तम् ] ॥ ॐ अस्य चत्वारिंशत्तमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥
॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या के ननु ततः किमभूदिति चेत्ततः परमारवंशोऽभूत्तस्मिंश्च वंशे ये भूपा आसंस्तान् निदर्शयति, तस्मिन्निति, व्याख्या० तस्मिन् परमारवंशे वैरसिंह इति नाम्ना भूपोऽभूदथाऽस्य नामसदृशं परिणाम वर्णयति, कथंभूतोऽसौ रिपुकलत्रकपोलपत्रवल्लीवितानपरशू रिपूणां वैरिणां कलत्राणि स्त्रियस्तासां कपोलान्येव पत्रवल्ल्यस्तासां विताने परशुरिव परशुः । पुनः कथंभूतोऽसौ दुर्धरसैन्यदन्तिदन्ताग्रभिन्नचतुरर्णवकृलभित्तिर्दुर्धरे सैन्ये ये दन्तिनो हस्तिनस्तेषां दन्ताग्राभ्यां भिन्ना चतुरर्णवकूलस्य चतु:समुद्रतटस्य भित्तयो येन स तथेति वृत्तार्थः ॥४०॥
ॐ श्रीविजयलावण्यसूरिविरचितापरागाभिधा विवृतिः ॥ कैः कीदृशः ? खेचरैः-गगनविहारिभिर्विद्याधरादिभिः, कृच्छ्राल्लङ्कितदिग्विलङ्घिशिखरग्रामः कृच्छ्रात् “ स्तोकाल्पकृच्छ्रकतिपयादसत्त्वे करणे" [२, २, ७९] इति असत्त्वकरणार्थे पञ्चमीविधानात् कृच्छ्रेण कष्टेन लक्षित उल्लङघित इति कृच्छाधितः, “असत्त्वे उसेः" [३, २, १०] इत्यलुप् समासः, दिशो विलयतेऽत्युचतया अतिक्राम्यतीति दिग्विलङ्घी, शिखराणां ग्रामः समूहः शिखरग्रामः, खेचरैः कृच्छ्राहघितो दिग्विलङ्घी शिखरग्रामो यस्य स तथा, अत एव कीदृशो जात इत्याह-क्ष्माभृतां-पर्वतानां मध्ये, अग्रिमः अग्रेसरः । स कः ? येन-अर्बुदगिरिणा, एकेन-एकाकिना, हिमाचलः-हिमालयः पर्वतः, शिखरिणां-पर्वतानां मध्ये, पुत्रीति-पुत्रवानयमिति, लक्ष्यःज्ञेयः, अभूत्-जातः, हिमाचलोऽर्बुदरूपतनयेन पुत्रवान् इति ज्ञानविषयो जात इत्यर्थः, ननु हिमाचलस्य सन्तानत्रय वर्तते-पार्वती मैनाकोऽर्बुदश्चेति, तत्र सन्तानद्वयस्य किं जातं ? तेनापि पुत्रवान् भवितुमहतीत्याशङ्कापनोदायाह-मैनाकेन-मेनकायां हिमाचलपन्यां भव इति मैनाकस्तेन, मैनाकनाम्ना पर्वतरूपेण स्वपुत्रेण, महार्णवे-महासमुद्रे, सत्यापार्वतीनाम्न्या स्वसुतया च हरतनौ-शिवशरीरे, प्रवेशे कृते-विहिते सति । अयं भावः-पुरा किल पर्वताः पक्षिवत् पक्षधारिणो बभूवुरुड्डयनं च चक्रुः, एतैर्लोकव्यथा अवलोक्येन्द्रेण वज्रमादाय पक्षच्छेदनकर्म समारब्धम् , अस्मिन्नवसरे मैनाकः समुद्रं प्रविश्यादृश्यो जातः, पार्वती च शिवशरीरं प्रविश्यादृश्या जाता, अवशिष्ट एकोऽर्बुदाचल इत्येके वार्बुदगिरिणा हिमाचलः पुत्रवान् बभूवेति पौराणिककथामाश्रित्य वृत्तम् । अत्र द्वितीयचरणे छेकानुप्रासालङ्कारः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु “ अतिधृत्या म्सौ ज्सौतौ गः शार्दूलविक्रीडितं हैः [ मसजसततगाः, वैरिति द्वादशभिर्यतिः] ॥३८॥
निरुक्ताबुदाचले परमाराभिधस्य भोजवंशस्य परमारनामाद्यपुरुषो जात इति दर्शयितुमाह-वाशिष्ठेरित्यादिना । [स] भूपालोऽस्ति स्मेत्यन्वयः । 'स' इत्यध्याहार्यमुत्तरदले यदुपादानात् , स भूपाल:-राजा, अस्ति स्म-बभूव, कीदृशो राजा ? ख्याता प्रसिद्धः, केन नाम्ना ख्यातः ? परमार इत्यभिधया-परमारनाम्ना, कुत्र ख्यातः ? महीमण्डले-मण्डलाकारपृथिव्याम , समस्तवसुंधरायामित्यर्थः । पुनः कीदृशो राजा ? अग्निकुण्डोद्भवा अग्निकुण्डे वसिष्ठकृतहोमसत्काग्निकुण्डे उत्पत्तिर्जन्म यस्य स तथा, पुनः कैः कीदृशो राजा ? वासिष्ठैः वसिष्ठऋषिप्रदत्तैः, वरशतैः-वरदानशतैः, कृतस्मयः कृतो विहितः स्मयो गर्यो जगतां विस्मयो वा येन स तथा, स कः ? इत्या
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
तत्राभूद्वसतिः श्रियामपरया श्रीहर्ष इत्याख्यया, विख्यातञ्चतुरम्बुराशिरसनादाम्नः प्रशास्ता भुवः । भूपः खर्वितवैरिगर्वगरिमा श्रीसीयकः सायकाः, पञ्चेपोरिव यस्य पौरुषगुणाः केषां न लग्ना हृदि ॥ ४१॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥
अस्यैकचत्वारिंशत्तम श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥ फ
5 श्रीमत्पद्मसागरविवुधरचिता व्याख्या फ्र
अथ पुनस्त ं श्यराजानं दर्शयति, तत्राऽभूदिति, व्याख्या ० तत्र परमारवंशे, श्रीसीयकनामा भूपोऽपरया द्वितीययाऽभिधया श्रीहर्षोऽभूद्बभूव कथंभूतोऽसौ श्रियां शोभानामिन्दिराणां वा वसतिः स्थानम्, पुनः कथंभूतः प्रशास्ता प्र प्रकर्षेण शास्ता शासकः कस्या भुवः पृथिव्याः नन्वसौ कियत्या भुवः शासक इत्याशङ्कय दर्शयति, भुवः कथंभूतायाश्चतुरम्बुराशिरसनादाम्नश्चत्वारोऽम्बुराशयः समुद्रा एव रसनादाम कामाला यस्याः सा तथा तस्याः, चतुःसमुद्रपर्यन्तभुवो नायकत्वेन शासक इत्यर्थः । यतश्चैवं ततः कीदृशोऽयमित्याह - खर्वितो जग्धो ध्वस्तो वैरिवर्गस्य गरिमा गौरवं येन स तथा, अथाऽस्य राज्ञो वर्णनार्थमेवाऽऽह - पञ्चेषोरिति पञ्चेषोः कन्दर्पस्य सायका sa बाणा इव यस्य श्रीहर्षभूपस्य गुणाः केषां सचेतनानां हृदि हृदये न लग्ना ? अपि तु सर्वेषां हृदये लग्ना इत्यर्थ इति वृत्तार्थः ॥४१॥
૪૭
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
काङ्क्षायां ‘विश्वामित्रजयोर्जितस्य यस्य भुजयोर्विस्फूर्जितमद्याप्युद्गतहर्षगद्गद् गिरो गुर्जरा अर्बुदे गायन्ति इत्यन्वयः । विश्वामित्रजयोर्जितस्य = विश्वामित्रो गाधिराजपुत्रस्तस्य यो जयः पराभवस्तेन ऊर्जितस्य बलातिशययुक्तस्य, यस्य = परमार भूपतेः, भुजयोः = बाह्रोः, भुजायुगलस्येत्यर्थः, विस्फूर्जितं चेष्टितम्, पराक्रममित्यर्थः, अद्यापि - वर्तमानकालेऽपि धनपालकविकालेऽपीत्यर्थः, उद्गतहर्षगद्गदगिरः- उद्गतः परमार भूपालस्य भुजबलातिशयावबोधेन उत्पन्नो यो हर्ष आनन्दस्तेन गद्गदा अस्पष्टा गिरो वाचो येषां तादृशा गुर्जराः = गुर्जरदेशवासिनो लोकाः, अर्बुदे - अर्बुदगिरौ, गायन्ति स्तुवन्ति । अत्रेयं किंवदन्ती- पुरा किलार्बुदाचले वशिष्टऋषिर्वसति स्म, तस्य नन्दिनी धेनुः गाधिराजपुत्रेण विश्वामित्रेण छलादपहृता, अतः कुपितेन वशिष्टऋषिणा मन्त्रानुच्चार्य स्वाभिकुण्डे आहुतिर्दत्ता, ततस्तस्माद् एको धूमराजनामा वीरः समुत्पन्नः तेन विश्वामित्रसैन्यं संहृत्य नन्दिनी प्रत्यानीता, एतत्कार्येण प्रसन्नो वसिष्टऋषिस्तस्य धूमराजस्य परं शत्रु मारयतीति परमार इति गुणनिष्पन्नं नाम कृतवानिति, एतद्विशेषस्तु पद्मगुप्त [परिमल ]रचितात् नवसाहसाङ्कचरित्राद्विलोकनीयः । अत्रातिशयोक्त्यलंकारः, इदं शादूलविक्रीडितवृत्तम्, तल्लक्षणं तु “ अतिधृत्यां म्सौ ज्सौ तौ गः शार्दूलविक्रीडित ठै: " [ मसजसततगाः, वैरिति द्वादशभिर्यतिः ] इति छन्दोऽनुशासने ॥३९॥
For Private And Personal Use Only
तस्मिन् परमारवंशे श्रीवैरिसिंह इति [ नृपः ] अभूदित्यन्वयः । तस्मिन् अनन्तरश्लोकाभिहिते, परमारवंशे= परमारनृपवंशे, श्रीवैरिसिंह इति - श्रीवैरिसिंह इति नाम्ना प्रसिद्धः श्रीवैरिसिंहनामेत्यर्थः, नृपवंशप्रस्तावान्नृपः, अभूद् बभूव । कीदृशोऽयं नृपः ? रिपुकलत्रकपोलपत्रवल्लीवितानपरशुः = रिपूणां शत्रूणां यानि कलत्राण नार्यस्तेषां ये कपोला गण्डस्थलानि तत्र याः पत्रवल्ल्यो द्राविडकालिङ्गादिभेदेन कस्तूरिकादिभिरालिख्यमाना तिलकाकाराः पत्ररचनास्तासां यद् वितानं समूहस्तत्र परशुस्तस्य छेदने कुठारसदृश इत्यर्थः । पुनः कीदृश: ? दुर्धर सैन्यदन्तिदन्ताग्रभिन्नचतुरर्णवकूलभित्तिः - दुर्धरा दुर्धर्षा ये सैन्यदन्तिनः सेनाहस्तिनस्तेषां ये दन्ता दशनास्तेषामयैरप्रभागैः
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
[ टिप्पनक-व्याख्या-विवृतिविभूषिता तस्योदग्रयशाः समस्तसुभटयामाग्रगामी सुतः, सिंहो दुर्धरशत्रुसिन्धुरततेः श्रीसिन्धुराजोऽभवत् । एकाधिज्यधनुर्जिताब्धिवलयावच्छिन्नभूर्यस्य स, श्रीमद्वाक्पतिराजदेवनृपतिवीराग्रणीरग्रजः ॥ ४२ ॥ [शार्दूलविक्रीडितवृत्तम् ] ॥ ॐ अस्य द्वाचत्वारिंशत्तमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचित टिप्पनकं नास्ति ॥
ॐ श्रीमत्पद्मसागरविवुधरचिता व्याख्या के अथ तत्पुत्रं स्तौति, तस्योदेति, व्याख्या० तस्य श्रीहर्षस्य सुतः सिन्धुराजोऽभवत् , कथंभूतः सिंहः सिंहपराक्रमी, कस्याः पुरो दुर्धरशसिन्धुरततेर्दुधराश्च ते शक्रसिन्धुराश्चैरावणादयस्तेशं ततेः श्रेणे: पुरः । अस्य हि महामदोन्मत्तमतङ्गजवशीकरणसामथ्यं जगदद्भुतमासीत्तेनेत्यमुपन्यासः । पुनः कथंभूतोऽसौ समस्तसुभटग्रामाग्रगामी समस्तानां सुभटानां ग्रामः समूहस्तस्मिन्नग्रगामी पुरोगत इत्यर्थः, एवंविधोऽपि कश्चिद्यशस्वी न स्यादित्याहपुनः कथंभूतोऽसावुदग्रयशा उत्कटकीर्तिरित्यर्थः । अथ साम्राज्याधिपस्य तज्ज्येष्ठभ्रातुवर्णनमाह-एकाधीति-व्याख्या० यस्य सिन्धुराजस्याऽग्रजो ज्येष्टबन्धुः श्रीमद्वाक्पतिराजदेवनृपतिरितिनामा, एकमद्वैत ज्यामधि लक्षीकृतमधिज्यं यद्धनुस्तेन कृत्वा जिताऽब्धिवलयावच्छिन्ना समुद्रवलयपर्यन्ता भूमिर्येन स तथाऽस्तीति वृत्तार्थः ॥४२॥
+ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥
भिन्नाः खण्डिताश्चतुर्णामर्णवानां समुद्राणां कूलभित्तयस्तटभित्तयो येन स तथा, एतेन सर्वदिग्विजयः सूचितः । अयं भावः-अनेन राज्ञा चतुस्समुद्रपर्यन्ता भूमिर्जिता, तत्र तत्र वर्तमानानां नृपाणां पराजयात् शोकप्रस्तास्तेषां राश्यो विषादग्रस्ततया कपोलस्तनमण्डलादिषु कस्तूरिकादिभिः पत्रवलीनामालेखनं न कुर्वन्तीति । अत्र लुप्तोपमा, रूपकमतिशयोक्तिश्च, एतेषामझाङ्गिभावेन संकरः । इदं वसन्ततिलकावृत्तम्, तल्लक्षणं तु पञ्चमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥४०॥
परमारवंशीयं श्रीवैरिसिंहनृपतिं वर्णयित्वाथ तत्पुत्रं श्रीसीयकनामानं नृपतिं वर्णयति-तत्राभूदित्यादिना । तत्र [स] श्रीसीयको भूपोऽभूदित्यन्वयः । तत्र-निरुक्तपरमारवंशे, तत्रस्थाने तस्येति पाठे तस्य श्रीवैरिसिंहनृपतेरित्यर्थः । अस्मिन् पक्षे 'भूप:' स्थाने ' सूनुः' इति पाटे सूनुः पुत्र इत्यर्थः 'स' इत्यध्याहार्यमुत्तरदले यदुपा दानात् । स श्रीसीयकाश्रीसीयकनामा, भूपः राजा, अभूत्-वभूव, कीदृशोऽयं राजा ? श्रियां वसतिः, श्रियां-शोभादीनाम, आदिना वाणीधर्मार्थकामसम्पत्तिबुद्धिविभूतिप्रभाकीर्तिवृद्धिसिद्धयादीनां ग्रहणम् । वसति-निवासस्थानम् । पुनः कीदृशः ? श्रीहर्ष इत्यपरया आख्यया विख्यातः श्रीहर्ष इति द्वितीयनाम्ना प्रसिद्धः, अनेन प्रस्तुतस्य राज्ञो नामद्वयं ज्ञापितम्, एक 'श्रीसीयक' इति द्वितीयं 'श्रीहर्ष' इति । पुनः कीदृशोऽयं राजा? भुनः प्रशास्ता, भुवा-पृथिव्याः, प्रशास्ता=अनुशासनकर्ता, कथम्भूताया भुवः ? चतुरम्बुराशिरसनादाम्नः चत्वारश्चतुर्दिगवस्थितत्वेन चतुःसंख्यका ये अम्बुराशयः समुद्रास्त एव रसनादाम कटीसूत्रं यस्याः सा तथा तस्याः, निखिलमहीमण्डलाधिप इत्यर्थः । पुनः कीदृशो नृपः ? खर्वितवैरिगर्वगरिमा-खवितो धातूनामनेकार्थत्वाद् नाशितो वैरिणां गर्वगरिमा अभिमानगौवं येन स तथा, खर्वितस्थाने ' चर्वित' इति पाठे तु चर्वितो जग्यो विनाशित इति यावत् । स कः ? यस्य पौरुषगुणाः पञ्चेषोः सायकाः इव केषां हृदि न लग्नाः सन्ति] इत्यन्वयः । यस्य-श्रीसीयकनृपतेः । पौरुषगुणा पराक्रमगुणा उद्यमगुणा वा, पञ्चोषोः कामदेवस्य सायका इव-बाणाः इव, कामस्येमे पञ्च बाणाः-सम्मोहनोन्मादनौ च,
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] आकीर्णाघितलः सरोजकलशच्छत्रादिभिर्लान्छनैस्तस्याजायत मांसलायतभुजः श्रीभोज इत्यात्मजः। प्रीत्या योग्य इति प्रतापवसतिः ख्यातेन मुञ्जाख्यया, यः स्वे वाक्पतिराजभूमिपतिना राज्येऽभिषिक्तः स्वयम् ॥४३॥ [शार्दूलविक्रीडितवृत्तम् ]॥ ॐ अस्य त्रयश्चत्वारिंशत्तमस्य श्लोकस्य विवुधशिरोमणिश्रीशान्त्याचार्यविरचित टिप्पनकं नास्ति ॥ ॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ तत्पुत्रवर्णनमाक्षिपति, तस्य श्रीवाक्पतिराजस्याऽऽत्मजो भोज इत्यभिधानेनाऽभूत् , तस्याऽतिसुलक्षणावदातत्वेन लक्षणानि वर्णयति, कथंभूतोऽसावाकीर्णाहितल आकीर्णं व्याप्तमंहितलं यस्य स तथा, कैर्लाञ्छनैः, कथंभूतैः सरोजकलशच्छत्रादिभिः सरोजानि च कमलानि च कलशाश्च छत्राणि च तानि तथाऽऽदौ येषां तानि तथा तैरित्यादिकैश्चिकैश्चरणतलं व्याप्तमस्तीति भावः । पुनः कथंभूतो भोजो मांसलेति, मांसलौ प्रबलमांसयुक्तावायतौ दी! भुजौ यस्य स तथा । अथ भोजस्य परम्परायातराज्याधिपत्यं दर्शयति. पित्रेति यो भोजः पित्रा वाक्पतिराजभूमिपतिना स्वे राज्ये स्वयं मुञ्जाख्यया ख्यातेन कृत्वाऽयं प्रतापवसतिरिति हेतोर्योग्य इति कृत्वाऽभिषिक्तः । अस्य हि भोजस्य बालोऽयमिति कृत्वा धावनमातुः पुत्रो मुन्न एव त्वयाऽस्य वृद्धिमुपागतस्य राज्य देयमित्युक्त्वाऽभिषिक्तस्तेनाऽप्यसौ बृद्धिमुपेतः सन् स्वे राज्येऽभिषिक्त इति वृत्तार्थः ॥४३॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ शोषणस्तापनस्तथा । स्तम्भनश्चेति कामस्य शराः पञ्च प्रकीर्तिताः ॥” इति, केषां जनविशेषाणाम् , हृदि-हृदये, न लग्नान प्रविष्टाः, अर्थात् सर्वेषां हृदये प्रविष्टाः, सन्तीति शेषः । अत्र सीयकः सायका इत्यत्र छेकानुप्रासोऽलङ्कारो वृत्त्यनुप्रासश्च, मिथस्तयोः संसृष्टिः । तथा अतिशयोक्तिः, रूपकम् उत्प्रेक्षा च, एतेषामङ्गाङ्गिभावेन संकरः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु एकोनचत्वारिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥४१॥
अथ भोजपितरं वर्णयति तस्योदनेत्यादिना । तस्य स श्रीसिन्धुराजः सुतोऽभवदित्यन्वयः । तस्य-श्रीसीयकनृपतेः । स इत्याध्याहार्यमुत्तरपदे यच्छब्दोपादानात् । श्रीसिन्धुराजा श्रीसिन्धुराजनामा, सुता-पुत्रः, अभवत्-बभूव, कीदृशः सिन्धुराजः ? उदग्रयशाः-उदग्रमुच्चं यशो यस्य स तथा, " एकदिग्व्यापिनी कीर्तिः, सर्वदिग्व्यापन इत्युक्तप्रशंसा विशेषो यशः । पुनः कीदृशः ? समस्तसुभटग्रामाग्रगामी-समस्ता ये सुभटाः शोभना योद्धारस्तेषां ग्रामे समूहे अग्रगामी अग्रेसरः । पुनः कीदृशः ? सिंहा=सिंहसदृशः, कस्याः पुरतः सिंहसदृशः ? दुर्धरशत्रुसिन्धुरततेः-दुर्धरा ये शत्रुसिन्धुराः शत्रुरूपा हस्तिनस्तेषां ततेः श्रेणेः पुरतः । पुनः कीदृशः ? एकाधिज्यधनुर्जिताब्धिवलयावच्छिन्नभूः ज्यामधिरूढमधिज्यम् , एकमद्वितीयमधिज्यं च यद् धनुस्तेन जिता वशीकृता अब्धिवलयावच्छिन्ना समुद्ररूपवलयवेष्टिता भूभूमियेन स तथा, समुद्रपर्यन्तायाः सकलभूमेविजेतेत्यर्थः । स कः ? यस्य-श्रीसिन्धुराजस्य, अग्रजः ज्येष्ठो भ्राता, अस्तीति शेषः । कीदृशोऽग्रजः ? श्रीमद्वाक्पतिराजदेवनृपतिः श्रीवाक्पतिराजदेवनामा नृपतिश्च, अस्य मुञ्जक्षेत्रोपलब्धत्वाद् ‘मुञ्ज' इति द्वितीयं नाम, नृपतित्वं च प्रान्ते सिन्धुराजेन राज्यसमर्पणात् , सिन्धुराजाग्रजत्वं च प्रथमजातत्वात् श्रीसीयकेन पुत्रत्वेन पालितत्वाच्च, अराजबीजत्वाद्राज्यं तु श्रीसीयकेन न दत्तम् , नृपतिभावापेक्षया 'एकाधिज्यधनुर्जिताब्धिवलयावच्छिन्नभूः' इत्यपि योज्यम् , कीदृशोऽयमग्रजः ? वीराग्रणी:वीरेषु शूरेषु अग्रणीरग्रेसरः। ‘ग्रामाग्रगामी ' इत्यत्र छेकानुप्रासालङ्कारः' सिन्धुर सिन्धुरेत्यत्र छेकानुप्रासो वृत्त्यनुप्रासश्च, एतेषां संसृष्टिः, तथा अतिशयोक्तिलुप्तोपमा रूपकं च, एषामङ्गाङ्गिभावेन संकरः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु अष्टात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ४२ ॥
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५०
www.kobatirth.org
[ टिप्पनक - व्याख्या-विवृतिविभूषिता
Acharya Shri Kailassagarsuri Gyanmandir
देव्या विभ्रम पद्मवसतेः कर्णावतंसं क्षितेः, सौभाग्यप्रतिपक्षमिन्दुमहसः सर्गाद्भुतं वेधसः । धत्ते योऽवधिभूतमीक्षणहृतां नेत्रामृतं योषितां
रूपन्यक्कृतकाममद्भुतमणिस्तम्भाभिरामं वपुः || ४४ || [ शार्दूलविक्रीडितवृत्तम् ] ॥
अस्य चतुश्चत्वारिंशत्तमस्य श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥ 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या
अथ वर्तमानराज्याधिपतित्वात् परमोपकारित्वात्तदायत्तवृत्तेश्च भोजं षड्भिः काव्यैः स्तौति । देव्या इति, व्याख्या ० यो भोज एवंविधं वपुः शरीरं धत्त इति तावदन्वयः कीदृशं वपुः पद्मवसते देव्या लक्ष्म्या विभ्रमसन विलासमन्दिरमित्यर्थः । पुनर्वपुः कथंभूतं क्षितेः पृथिव्याः कर्णावतंसं कर्णाभरणमित्यर्थः । पुनः कथंभूतं वपुर्वेधसो विधातुः सर्गे सृष्टावद्भुतं नेदृशं विधिसृष्टौ वपुरस्तीति भावः । पुनः कथंभूतं वपुरीक्षणहृतामवधिभूतमीक्षणेन दर्शनेन हरन्तीतीक्षणहृतस्तेषां मध्येऽवधिभूतं प्राप्तरेखं नाऽतः परं जगति दर्शनीयमस्तीति भावः । पुनः कथंभूतं योषितां नेत्रामृतम् । पुनः कथंभूतं वपू रूपेण न्यक्कृतस्तिरस्कृतः कामः कन्दर्पो येन तत्तथा । पुनर्वपुः कथंभूतमद्भुतमणिस्तम्भाभिराममद्भुतो यो मणिस्तम्भो रत्नस्तम्भस्तद्वदभिरामं बन्धुरमित्यर्थं इति वृत्तार्थः ॥४४॥ 5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
"
अथ वर्तमानराज्याधीशत्वात् प्रस्तुतकथाकरणकारणत्वाद् भोजराजं सप्तभिर्वृत्तैर्वर्णयति-आकीर्णाङ्घ्रितल इत्यादिना । तस्य श्रीभोज इत्यात्मजोऽजायतेत्यन्वयः । तस्य श्री सिन्धुराजनृपतेः, श्रीभोज इतिश्रीभोज इति नाम्ना प्रसिद्धः, आत्मजः पुत्रः, अजायत =जातः, कैः कीदृशः ? सरोजकलशच्छत्रादिभिर्लाच्छनैराकीर्णा तिलः, सरोजकलशच्छत्रादिभिः = सरोजं कमलं कलशः कुम्भः छत्रमातपत्रं तानि आदय आदिभूतानि येषां तानि तथा तैः, आदिपदात् श्रीवत्सादयः, लाञ्छनैः=तादृशरेखारूपेणावस्थितैः सत्पुरुषलक्षणैः, आकीर्णाङ्घ्रितलः = व्याप्तचरणतलः अनेन सामुद्रिकशास्त्रदृष्टयो त्तमपुरुत्रता ज्ञापिता, यदुक्तम् - " छत्रं तामरसं धनू रथवरो दम्भोलिकूर्माङ्कुशा, वापीस्वस्तिकतोरणानि च सरः पञ्चाननः पादपः । चक्रं शंखगजौ समुद्रकलशौ प्रासादमत्स्या यवा, यूपस्तूपकमण्डलुन्यवनिभृत् सचामरो दर्पणः ॥ १ ॥ उक्षा पताका कमलाभिषेकः सुदाम केकी घनपुण्यभाजाम् । ' । पुनः कीदृशो भोजः ? मांसलायतभुजः-मांसलौ बलवत्यर्थे लविधानाद् बलवन्तौ आयतौ दीर्घं च भुजौ बाहू यस्य स तथा अनेन बाहुबलमैश्वर्यं चावेदितम्, “ दीर्घबाहु न चैश्वर्यं न मांसोपचितं सुखम् ॥ " । पुनः कीदृशः ? प्रतापवसतिः - प्रतापस्थानम्, प्रतापशालीत्यर्थः पुनः कीदृशः ? यो मुख्यया ख्यातेन वाक्पतिराजभूमिपतिना योग्य इति स्वे राज्ये स्वयं प्रीत्याऽभिषिक्तः, यः = भोजः, पञ्चाशत्तमश्लोकस्थ 'तस्य' इति तत्पदापेक्षयाऽयं यच्छब्दस्य निर्देश:, एवमुत्तरत्रापि । मुञ्जाख्यया - मुअनाम्ना, ख्यातेन प्रसिद्धेन, मुआख्यरज्जुसाधनतृणविशेषस्य क्षेत्रादुपलब्धत्वेन मुञ्जनाम्ना प्रसिद्धिं गतेनेत्यर्थः, वाक्पतिराजभूमिपतिना = वाक्पतिराजदेवनाम्ना नृपेण, योग्य इति = राज्यधुराधारणसमर्थोऽयमिति मत्वा, स्वे राज्ये - आत्मीयराज्ये, स्वयम् - आत्मना, न तु भोजपित्रा सिन्धुराजेन प्रीत्या - प्रेम्णा, अभिषिक्तः सविधि स्थापितः । अत्रायं भावः - श्री सीयकनृपतेः पुरा पुत्रो नासीत्, एकदा केनचित्कारणेन निर्गतेन राज्ञा मुजाख्यतृणक्षेत्रे केनचिन्मुक्तो बालो विलोकितः, अपुत्रस्य ममायं पुत्रो भवत्विति धिया गृहीतश्च, ततः शृङ्गारसुन्दरीराज्ञ्यै समर्पितः, तयापि परिवर्धितः, 'वाक्यतिराजदेव, इति तस्य नाम विहितम् प्रसिद्धिस्तु मुञ्जक्षेत्रोपलब्धत्वाद् मुञ्जनाम्ना जाता, कियता कालेन पद्माभिधराश्याः पुत्रो जातः, तस्य 'सिन्धुराज' इति नाम निर्मितम्, एवं च सीयकस्य द्वौ पुत्रौ जातौ, ज्येष्टः पालितपुत्रो मुञ्जनामा, द्वितीयोऽङ्गजः सिन्धुराजनामा, तत्र राजबीजत्वात् सिन्धुराजाय राज्यं समर्पितम् । सिन्धुराजस्य च भोजनामा पुत्रो जातः, स यदा पञ्चवार्षिको जातस्तदा निजमरणमासन्नं मत्वा सिन्धुराजेन मुजोऽभिहितः, यदुत, इदं राज्यं ते समर्पयामि, तवोत्सङ्गे च
For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
आयाता शरदित्युदीर्य मुदितैर्दारैः पुरो दर्शिता, लीलोद्यानभवा नवाः सुमनसः सप्तच्छदक्ष्मारुहाम् ।
यत्सैन्यागमशङ्किनामसुहृदामाकृष्टगन्धा इव,
श्वासैः खेदनिरायतैर्विदधिरे सयः शिरोवेदनाम् ||४५ ॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥
५१
5 अस्य पञ्चचत्वारिंशत्तमस्य श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥ फ्र 5 श्रीमत्पद्मसागरविवुधरचिता व्याख्या फ्र
अथाऽस्य प्रतापं वर्णयति, आयातेति । व्याख्या० यत्सैन्यागमशङ्किनामसुहृदाममित्राणां खेदनिरायतैर्नितरां खेदयुक्तः श्वासैरिवोत्प्रेक्ष्यते, आकृष्ट आकृष्य गृहीतो गन्धो येषां ते तथैवंविधाः सप्तच्छदक्ष्मारुहां सप्तपत्रतरूणां लीलोद्यानभवाः क्रीडोयानसंजाता मुदितैर्दारैः स्त्रीभिरायातेयं शरदित्युदीयेक्त्वा दर्शिता एवंविधाः सुमनसः पुष्पाणि सद्यः शीघ्रं शिरोवेदनां विदधिरे चकुः, अयं भावः - आयन्तं शरदृतुं दृष्ट्वाऽवश्यमयं भोजोऽस्माकमुपर्यायास्यतीति शङ्काकुलानां वैरिणां भयज्वरप्रादुर्भावान्मूर्ध्नि वेदना बभूव तत्र कवेरुत्प्रेक्षा चैवं, शरदागममुदितस्वस्त्रीजनदर्शितशिरोवेदनाजननस्वभावकसप्तच्छदपुष्पदर्शनानन्तरसंजातसखेदनिःश्वासच्छलेन तदाघ्राणतो ज्ञायते शिरोवेदना जातेति वृत्तार्थः ॥४५॥ 5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
बालं भोजं स्थापयामि, भोजे योग्यतां याते तस्मै राज्यं देयमिति । मुञ्जेनापि तथैव कृतमिति । मुञ्जस्यापरनाम — वाक्पतिराजदेव ' इत्यस्ति तत्र प्रमाणम् - " धनजय इत्यनेनात्मानं वाक्पतिराजदेवापरनाम्नो मुञ्जभूभुजः सभायामाख्यत् । ' इति साहित्यदर्पण भूमिकालेखोऽपि ॥ 'राजभूमिपति' इति पदेन पुनरुक्तवदाभासालङ्कारः । इदं शार्दूलविक्रीडितवृत्तम्, तलक्षणं तु अष्टात्रिंशत्तम श्लोकविश्रुतिप्रान्ते प्रोक्तम् ॥ ४३ ॥
भोजराजशरीरं वर्णयति-देव्या इत्यादिना । यो वपुर्धते इत्यन्वयः । यः = भोजराजः, वपुः - शरीरम्, धत्ते = दधाति । कीदृशं वपुः ? पद्मवसतेर्देव्या विभ्रमसद्म पद्मवसतेः पद्मं कमलं तदेव वसतिर्निवासस्थानं यस्याः सा तथा तस्याः, कमलवासिन्या इत्यर्थः, देव्याः - देवतायाः, लक्ष्मीदेव्या इत्यर्थः, विभ्रमस्थानं - विलासमन्दिरम् अनेन लक्ष्मीसन्निधानं शोभाबाहुल्यं चावेदितम् । पुनः कीदृशं ? क्षितेः पृथिव्याः, महीरूपमहिलाया इत्यर्थः, कर्णावतंसं= कर्णाभूषणम्, अनेन वसुन्धरावलभत्वमावेदितम् । पुनः कीदृशम् ? इन्दुमहसः सौभाग्यप्रतिपक्षम्, इन्दुमहसः चन्द्रज्योत्स्नायाः, सौभाग्यप्रतिपक्षं सौभाग्यस्य प्रियतायाः प्रतिपक्ष प्रतिकूलम्, चन्द्रज्योत्स्नातोऽप्यधिककान्तिशालीत्यर्थः, एतेन प्रचुरशीतलकान्तिमत्त्वं सूचितम् । पुनः कीदृशं ? वेधसः सर्गाद्भुतम् । वेधसः = ब्रह्मणः सर्गाद्भुतं = सर्गे सृष्टिरचनायामद्भुतमाश्चर्यजनकम् विधातृसृष्टौ एतादृशमपूर्वं वस्तु निर्मितम् ? इति जनानामाश्चर्यजनकमित्यर्थः, अनेन सर्वोत्तमता सूचिता । पुनः कीदृशम् ? ईक्षणहृतामवधिभूतम् ईक्षणहृतां - नयनाकर्षिणां वस्तूनाम्, अवधिभूतं = सीमारूपम्, यतोऽधिकं नान्यन्नयनाकर्षीत्यर्थः अनेन नयनान्दनप्रदानातिरेको ज्ञापितः । पुनः कीदृशं ? योषितां नेत्रामृतम्, योषितां = नारीणाम् कीदृशीनाम् ? ईक्षणहृताम् = नयनाभ्यां मानवमनोहारिणीनाम्, नेत्रामृतं = नयनानन्ददाने सुधोपमम् अनेन बालानामपि सुनिरीक्षणीयता बोधिता । पुनः कीदृशम् ? रूपन्यक्कृतकार्म= रूपेण वर्णेन न्यक्कृतस्तिरस्कृतः कामो मदनो येन तत्तथा, अनेन शरीरवर्णातिरेको वर्णितः, पुनः कीदृशम् ? अद्भुत - मणिस्तम्भाभिरामम् अद्भुतो यो मणिस्तम्भस्तद्वद् अभिरामं सुन्दरम् अनेन द्रढिमा रचनागुणः प्रभागुणश्च दर्शितः । अत्र मालारूपरूपकालङ्कारः, अतिशयोक्तिश्च, एतयोः संकरः । इदं शार्दूलविक्रीडितवृत्तम्, तल्लक्षणं तु अष्टात्रिंशत्तम श्लोकविवृतिप्रान्ते प्रोक्तम् ॥४४॥
For Private And Personal Use Only
भोजप्रतापसूचताय भोजरिपूणां शरदि कीदृशी दशा भवतीत्याह - आयाता शरदित्यादिना । सप्तच्छदक्ष्मारुहां सुमनसः सद्यः शिरोवेदनां विदधिरे इत्यन्वयः । सप्तच्छदक्ष्मारुहां सप्त सप्त छदाः पर्णानि प्रतिपर्णं येषां तादृशा
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
५२
www.kobatirth.org
[ टिप्पनक-व्याख्या-विवृतिविभूषिता
Acharya Shri Kailassagarsuri Gyanmandir
श्रुत्वा यं सहसाssगतं निजपुरात् त्रासेन निर्गच्छतां, शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः । शुन पल्लविन्युपवने वाप्यां नवाम्भोरुहि,
क्रीडाद्रौ च मुहुर्मुहुर्विगलितग्रीवैर्विमुक्ता दृशः ॥ ४६ ॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥
अस्य षट्चत्वारिंशत्तम श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥ 5 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या फ
अथाऽस्याऽऽगमनश्रत्रणाद्वैरिभिस्तद्वशाभिश्च किं कृतमिति दर्शयति, श्रुत्वेति, व्याख्या० अमुं भोजं सहसाऽऽगतं श्रुत्वा निजपुरान्निजनगरात् त्रासेनाssकस्मिकभयेन निर्गच्छतां शत्रूणां वैरिणामवरोधनैरन्तः पुरैर्जलस्य वा बिन्दवो जललवास्तान् प्रस्यन्दति श्रवतीति तत्प्रस्यन्दि, एवंविधं तिम्यन्निमीलत्पुटं यासां तास्तथैवंविधा दृशो दृष्टय एतेषु स्थानकेषु विमुक्ताः स्थापिताः । कथंभूतैरन्तःपुरैर्विवलितग्रीवैविं विशेषेण वलिता ग्रीवा यैस्ते तथा तैः । कानि तानि स्थानानीत्याह- शुभ्र सद्मनि धवलमन्दिरे तैर्दृशः स्थापिता इत्यर्थः । पल्लविनि नवपल्लवे, उपवने गृहासन्नकानने, वाप्यां दीर्घिकायाम्, नवान्यम्भोरुहाणि यत्र तत्तस्मिन्नेवंविधे क्रीडाद्रावेतेषु स्थानेषु निजभर्नृपश्चानिर्गच्छद्भिरन्तःपुरैर्वारं वारं ग्रीवा वालयित्वा लोचनानि न्यस्तानीति वृत्तार्थः ॥ ४६ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
ये क्ष्मारुहो वृक्षास्तेषाम् स्वपुष्पगन्धेन शिरोवेदनाजनक वृक्षविशेषाणामित्यर्थः । सुमनसः पुष्पाणि, सद्यः शीघ्रम्, शिरोवेदनां = मस्तकपीडाम्, विदधिरे - चकुः । कीदृशाः सुमनसः ? शरद् आयाता इत्युदीर्य मुदितैर्दारैः पुरोदर्शिताः, शरद्=आश्विनकार्तिकमासात्मक ऋतुविशेषः, युद्धयात्राहः काल इति गुप्तार्थः, आयाता - प्राप्ता, शरयेव सप्तपर्णपुष्पाणां प्रादुर्भावः, इदानीं च तानि पुष्पाणि जातानि अतः शरद् आयातेति भावः । इत्युदीर्य एवं कथयित्वा मुदितैः सप्तपरीपुष्पावलोकन हर्षितैः, दारैः नारीजनैः पुरः = अग्रे, लीलोद्यानवर्तिनां सप्तपर्णतरूणां शाखास्तवकेवित्यर्थः । दर्शिताः =दर्शनं कारिताः, एतेन विनोदार्थं लीलोद्यानविहारो दर्शितः । कीदृशाः ? लीलोद्यानभवाः= लीलार्थमुद्यानमारामस्तत्र भवा जाताः । पुनः कीदृशाः ? नवाः - नवीना न तु प्राचीनाः । केषां शिरोवेदनां विदधिरे ? यत्सैन्यागमशङ्किनाम् असुहृदाम् यत्सैन्यागमशङ्किनां यस्य भोजस्य सैन्यागमशङ्किनां सैन्यागमने शङ्कावताम्, युद्धार्हः शरत्कालः समायातोऽतो भोजसैन्यमागमिष्यतीति शङ्कावताम् असुहृदां - भोजरिपुनृपाणाम् । कैः कीदृशा इव सन्तः सुमनसः शिरोवेदनां विदधिरे ? अत्रोत्प्रेक्षते खेदनिरायतः श्वासैराकृष्टगन्धा इव, खेदनिरायतैः = खेदेन भोजसैन्यागमनशङ्काजनितविषादेन निरायतैरतिदीधैः, श्वासैः नासिक वायुभिः आकृष्टगन्धा इव गृहीतगन्धा इव आघाता इवेत्यर्थः एवंविधा इव सन्तः शिरोवेदनां विदधिरे । अत्रायं भावः - शरत्समयारम्भे लीलोद्याने भोजारिनृपा नारीभिः साकं विहरन्ति तत्र प्रफुल्लानि सप्तदलकुसुमानि समवलोक्य सानन्दा नारीजना निजनिजस्वामिनः प्रति वदन्ति, यदुत-स्वामिन् आयाता शरद् विलोकयेमानि नवानि सप्तदलकुसुमानि एतदाकर्ण्यामी अरिनृपा विचारयन्ति, यदुत, समायातः शरत्कालः, स च युद्धयात्रार्हः अस्मिन् काले राजानो योद्धुं निर्गच्छन्ति, कदाचित् ससैन्यो भोज आगमि ष्यति तदाऽस्माकं किं भावीति न ज्ञायते इति विचारणया सखेदा दीर्घश्वासान् विदधति, भयाक्रान्तचिन्तया शिरोव्यथापि जायते, अत्र कवेरुत्प्रेक्षा - इयं शिरोवेदना निरुक्त पुष्पगन्धग्रहणेन जाता, यतस्तानि आघ्रातानि दीर्घश्वासैरिति । अत्रोत्प्रेक्षाऽतिशयोक्त्या संकीर्यते । इदं शार्दूलविक्रीडितवृत्तम्, तलक्षणं तु अष्टात्रिंशत्तम श्लोकविवृतिप्रान्ते प्रोक्तम् ॥४५॥
भोजागमनवार्ताश्रवणेन तदरीणां कीदृशी दशा जातेति वर्णयति - श्रुत्वेत्यादिना । शत्रूणामवरोधनैर्दृशो विमुक्ता इत्यन्वयः । शत्रूणां=भोजरिपूणां नृपाणाम्, अवरोधनैः = अन्तःपुरनारीजनैः दृशः = नयनानि विमुक्ताः-अवलोक
For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] मासादेषु त्रुटितशिखरश्वभ्रलब्धप्रवेशैः, पातः प्रातस्तुहिनसलिलैः शार्वरैः स्नापितानि । धन्याः शन्ये यदरिनगरे स्थाणुलिङ्गानि शाखाहस्तस्रस्तैः कुसुमनिकरैः पादपाः पूजयन्ति ॥४७॥ [मन्दाक्रान्तावृत्तम् ] ॥ ॐ अस्य सप्तचत्वारिंशत्तमस्य श्लोकस्य विवुधशिरोमणिश्रीशान्त्याचार्यविरचित टिप्पनकं नास्ति ॥ ॥
॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या है अथ वैरिषु निर्गतेषु तन्नगरे यदभूत्तदाह-शून्ये यदरिनगरे यस्य भोजस्याऽरीणां वैरिणां नगरे धन्या इति वक्ष्यमाणकृत्यकरणात् प्रशंसाहः पादपा वृक्षाः, शाखा एव हस्ताः शाखाहस्तास्तेभ्यः स्रस्ताच्युतास्तैरेवंविधैः कुसुमनिकरैः स्थाणुलिङ्गानि शम्भोलिङ्गानि पूजयन्ति । ननु स्नानपूर्वं पूजनं युक्तं तेन तत्स्नापनं वाच्यमित्याशङ्कयाऽऽह कथंभूतानि स्थाणुलिङ्गानि स्नापितानि स्नानं कारितानि, कैस्तुहिनसलिलैस्तुषारजलैः, कथंभूतैः शार्वरैः शर्वरीसम्बन्धिभी रात्रौ पतितैः, पुनः कथंभूतैस्त्रुटितशिखरश्वभ्रलब्धप्रवेशस्त्रुटितानि यानि शिखराणि तेषां श्वभ्राणि पातालानि तेषु लब्धः प्रवेशो यैस्तथा तैः, तदन्तःप्रविष्टैरित्यर्थः । केषु प्रासादेषु देवतायतनेषु, कथं प्रातः प्रातः प्रभाते प्रभाते त्रुटितशिखरप्रासादप्रविष्टतुहिनस्नापितानि शम्भुलिङ्गानि शाखाहस्तपतितैः पुष्पर्धन्या इव धन्याः पादपाः पूजयन्तीति वृत्तार्थः ॥४७॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ नकर्मणि व्यापृताः । कीदृशानां शत्रूणां ? सहसाऽऽगतं यं श्रुत्वा त्रासेन निजपुराद् निर्गच्छताम् , सहसा-शीघ्नम् , आगतम्-आयातम्, यं-भोजराजम् , श्रुत्वा-आकर्ण्य, त्रासेन आकस्मिकभयेन, निजपुरात्-निजनगरात् , स्वराजधानीत इत्यर्थः । निर्गच्छतां निस्सरताम् । कीदृशो दृशः ? जललवप्रस्यन्दतिम्यत्पुटाः-जललवा निजपतिना सह गमने राजधानीवियोगवनवासादिविचारणाजनितदुःखवेगेन ये अश्रुजलबिन्दवस्तेषां प्रस्यन्देन क्षरणेन तिम्यन्तौ आर्दीभवन्तौ पुटौ पुटाकारौ कनीनिकाच्छादको त्वग्विशेषौ यासां तास्तथा । कुत्र दृशो विमुक्ताः शुमेधवले, सद्मनि-गृहे, धवलप्रासादे इत्यर्थः । पुनः कुत्र ? पल्लविनि-नवीनपत्रसमूहशालिनि, उपवने-गृहासन्नकानने । पुनः कुत्र ? नवाम्भोरुहि-नवीनकमलवत्याम्, वाप्यां-वापिकायाम् । पुनः कुत्र ? क्रीडाद्रौ-क्रीडापर्वते च । कीदृशैरन्तःपुरनारीजनैः ? मुहुर्मुहुः पुनः पुनः, विवलितग्रीवैः-विवलिता ग्रीवा येषां तानि तथा तैः, पुनः कदामीषां मनोहरवस्तूनां मीलनं भविष्यतीति विचारणया पुनः पुनीवां वालयित्वा पश्यद्भिरित्यर्थः । अत्रातिशयोक्तिरलङ्कारः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु अष्टात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ४६ ॥
अथ वैरिनृपेषु निर्गतेषु तन्नगरस्य कीदृशी दशा जातेत्याह-प्रासादेष्वित्यादिना । यदरिनगरे पादपाः स्थाणुलिङ्गानि पूजयन्तीत्यन्वयः । यदरिनगरे यस्य भोजस्य अरिनगरे रिपुनगर्याम् , पादपाः वृक्षाः,स्थाणुलिङ्गानि% शिवलिङ्गानि, पूजयन्ति-शिवलिङ्गपूजां कुर्वन्तीत्यर्थः । ननु देवपूजां तु मानवाः कुर्वन्ति कथमत्र वृक्षा इत्याशङ्कय नगरीविशेषणमाह-कीडशेऽरिनगरे ? शून्ये भोजराजेनातीव भग्नत्वादुद्वासिते निर्जने, जनाभावाद् वृक्षाः पूजयन्तीत्यर्थः । कुत्र स्थितानि शिवलिङ्गानि ? प्रासादेष-देवमन्दिरेषु । ननु पूजा स्नपनपूर्विका भवति कथमिह शिवलिङ्गानां स्नपनमित्याशङ्कय शिवलिङ्गविशेषणमाह-कीदृशानि लिङ्गानि ? प्रातः प्रातः शावरस्तुहिनसलिलैः स्नापितानि, प्रातः प्रातःप्रतिदिनं प्रभाते, शार्वरैः-रजनीभवैः, तुहिनसलिलैः हिमजलैः, स्नापितानि-स्नानं कारितानि । ननु हिमजलानि तु अनावृतप्रदेशे पतन्ति कथं तैमन्दिरान्तर्वर्तिनां लिङ्गानां स्नानं भवतीत्याशङ्कय हिमजलविशेषणमाह-कीदृशैहिमजलैः? त्रुटितशिखरश्वभ्रलब्धप्रवेशैः त्रुटितानां शिखराणां श्वश्रेषु छिद्रेषु लब्धः प्राप्तः प्रवेशो यस्तादृशैः । कैः पादपाः पूजयन्ति ? कुसुमनिकरैः-पुष्पसमुदायैः । ननु पुष्पपूजा हस्ताभ्यां पुष्पमोचने ति भवति सा वृक्षाणां कथं सम्भवतीत्याशङ्कय पुष्पसमुदायविशेषणमाह-कीदृशैः कुसुमनिकरैः ? शाखाहस्तास्ते शाखारूपा ये हस्तास्तेभ्यः सस्तैः पतितः, कीदृशा वृक्षाः ? धन्याः निरुक्तकार्यकरणात् प्रशंसाहाः । अत्र रूपकातिशयोक्त्यलङ्कारौ । इदं मन्दाक्रान्तावृत्तम् , तल्लक्षणंतु “मो भ्नौ तौ गौ च धैर्मन्दाक्रान्ता [ मभनततगगाः धैरिति चतुर्भिर्यतिः ] इति छन्दोऽनुशासने ॥४७॥
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
[ टिप्पनक-व्याख्या-विवृतिविभूषिता अत्र यस्य दोष्णीत्यादयश्चत्त्वारः श्लोका मुद्रितग्रन्थे न दृश्यन्ते, किन्त्वये मेघवाननृपवर्णने सन्तीति नास्मामिरत्र व्याख्याताः, टिप्पनिकाकारेण तु भोजवर्णनपरत्वेनात्र व्याख्याताः, ते चेमे
5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥
यस्य दोणि स्फुरद्धेतौ प्रतीये विबुधैर्धवम् । बौद्धतर्क इवार्थानां राज्ञां नाशो निरन्वयः ॥ १
[पथ्यावृत्तम् ]॥ लतावनपरिक्षिप्ते निन्ये यदरिभिनिशा । विन्ध्याद्रेस्तल्परुचिरे न वेश्मनि नवेऽश्मनि॥ २
[ नविपुलावृत्तम् ॥ अन्तर्दग्धागुरुशुचावाप यस्य जगत्पतेः । नारीणां संहतिश्चारुवेषाकारागृहे रतिम् ॥ ३
[नविपुलावृत्तम् ॥ दृष्ट्वा वैरस्य वैरस्यमुज्झितास्त्रो रिपुव्रजः । यस्मिन् विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥ ४
[पथ्यावृत्तम् ॥
यस्येत्यादि । प्रतीये प्रतीतः, को ? नाशो-विघातः, केषां ? राज्ञाम्-अरिनृपाणाम् , किंभूतो ? निरन्वयोऽपगतवंशः, कैः प्रतीये ? विबुधैः देवैः, कस्मिन् सति ? दोष्णि-बाहौ, कीदृशे ? स्फुरद्धेतौ-देदीप्यमानप्रहरणे, कस्य ? यस्य-भोजराजस्य, कस्मिन्निव केषां ? बौद्धतर्क इवार्थानां यथा बौद्धप्रमाणशास्त्रे नाशो विबुधैः विशिष्टपण्डितैः, प्रतीये-प्रतीतोऽर्थानां घटादीनाम् , कीदृशो ? निरन्वयो-ऽनुगमरहितो न[ष्ट] स्यापि द्रव्यस्योत्तरक्षणाऽनुसरणमस्तीत्यर्थः, किंभूते बौद्धतर्के ? स्फुरद्धेतौ-देदीप्यमानस्वभावादिलिङ्गे, कथं प्रतीये ? धुवंनिश्चितम् ॥१॥ लतेत्यादि, यदरिभिः यस्य भोजनृपस्यारिभिः शत्रुभिः, निशा रात्रिः, निन्ये-नीता, कस्मिन् ? अश्मनि दपदि, न वेश्मनि-न गृहे, कस्य अश्मनि ? विन्ध्यान्द्रेः, भयेन विन्ध्यगिरिमारूढा अरय इत्यर्थः, कीदृशेऽश्मनि वेश्मनि च ? तल्पं-शयनीयं तद्वद्रुचिरे-सुकुमारपृथुवादिगुणै रम्ये तल्पेन रुचिरे दीप्ते, तथा नवेनूतने, तथा लतावनपरिक्षिप्ते-अशोकचम्पकलतावनपरिवेष्टिते वेश्मनि वल्लीवनगहनच्छन्नेऽश्मन्यदृश्य इत्यर्थः ॥२॥
अन्तरित्यादि । यस्य-भोजराजस्य, किंभूतस्य ? जगत्पतेः-भुवनरक्षकस्य, नारीणां संहतिः स्त्रीवृन्दम् , आप-लेभे, कां ? रति-प्रीतिमासक्तिं वा, क्व ? गृहे वेश्मनि, कीदृशी ? चारुवेषाकारा-चारु रम्यौ वेषाकारौ नेपथ्याकृती यस्याः सा तथोक्ता, चारुवेषो वा आकारो यस्याः सा तथोक्ता, कीदृशे गृहे ? अन्तर्दग्धागुरुशुचौअन्तर्मध्ये दग्धं यदगुरु कृष्णागुरुकाष्टं तेन शुचि-पवित्रं सुगन्धीत्यर्थोऽन्यत्र यस्य जगत्पतेररीणां सहति वाप न प्राप्तवती, कां ? रति-सुखम् , क्व ? कारागृहे-गुप्तौ, कीदृशी ? चारुवेषा-रम्यनेपथ्या, पुनः किंभूता ! दग्धा-संतप्ता, क्व ? अन्तः-मध्ये चित्त इत्यर्थः, केन ? गुरुशुचा-बृहच्छोकेन ॥ ३ ॥
[दृष्ट्वेत्यादि] रिपुव्रजः अरिसमूहः, व्यधात्-कृतवान्, किं ? कुशलं-कल्याणम् , कस्य ? कुलस्यवंशस्य, किंभूतस्य ? विश्वस्य-सर्वस्य, किं कृत्वा ? विश्वस्य-विश्वास कृत्वा, कस्मिन् ? यस्मिन्-भोजदेवे, कथंभूतो रिपुत्रजः ? उज्झितास्त्रः त्यक्तायुधः, किंकृत्वा ? दृष्ट्वा अवलोक्य, किं ? वैरस्यं विरसतां, कस्य ? चैरस्य-विरोधस्य ॥ ४ ॥
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] येषां सैन्यभराहितोरगपतिश्रान्ति प्रयातां वहिर्जायन्ते स्थगिता हिमांशुमहसः श्वेतातपत्रैर्दिशः । आभान्ति प्रभवो नृणामितरवत् तेऽप्यागताः सेवया, यस्यानेकजनाकुले निजवपुर्मात्राः सभामण्डपे ॥४८॥॥ [शार्दूलविक्रीडितवृत्तम् ॥
ॐ विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ येषामित्यादि । सैन्यभराहितोरगपतिश्रान्ति सेनासंभारकृतनागराजखेदं यथा भवति तथा, प्रयातांगच्छताम् , क्व ? बहिः बहिःप्रदेशम् , मात्रा-परिग्रहः परिवारो वा ॥ ४८ ॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐
अथ कृतदिग्विजयस्याऽस्य यदभूत्तदाह-येषामिति व्याख्या० यस्य भोजस्य सेवयाऽनेकजनाकुले सभामण्डपे तेऽपि नृणां प्रभवो नरेशा इतरवत्सामान्यलोकवन्निजवपुर्मात्रास्त्यक्तसकलपरिवारा आगता आयाता इति । के ते राजान इत्याह-सैन्यभरेणाऽहिता स्थापिता उरगपतेः शेषनागस्य श्रान्तिः श्रमो यथा स्यात्तथा प्रयातां प्रगच्छतां येषां हिमांशुमहसश्चन्द्रतेजसः श्वेतैर्धवलैरातपत्रैर्दिशः स्थगिता आभान्तीति वृत्तार्थः ॥४८॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥
अथ कीदृशा नृपाः कृतदिग्विजयस्य भोजस्य सेवां कुर्वन्तीति दर्शयति-येषामित्यादिना । यस्य सभामण्डपे ते नृणां प्रभवोऽपीतरवदाभान्तीत्यन्वयः । यस्य भोजराजस्य, सभामण्डपे-सभारूपमण्डपे न तु गुप्तप्रदेशे, ते, नृणां मनुजानाम्, प्रभवोऽपि-स्वामिनोऽपि, राजानोऽपीत्यर्थः, आस्तामितरे जनाः, इतरवत्-सामान्यमनुजवत् , आभान्ति-दृश्यन्ते । कीदृशे सभामण्डपे ? अनेकजनाकुले-सचिवादिप्रचुरजनसंकुले न तु जनशून्ये । कीदृशा राजानः ? सेवया आयाताः, सेवया सेवारूपहेतुना, सेवार्थमित्यर्थः, आयाता:-आगताः । पुनः कीदृशाः ? निजव. पुर्मात्राः निजं वपुः शरीरमेव मात्रा परिच्छेदो येषां ते तथा, “ परिच्छदापमानेषु धने कर्णविभूषणे । अक्षरावयवे मात्रा मात्र कास्न्येऽवधारणे ॥” इति शास्वतः । परिच्छदशब्दश्च-उपकरणे, हस्त्यश्वरथपदातौ, वस्त्रादिभूषणे, परिवारे च वर्तते । तथा च त्यक्तोपकरणास्त्यक्तहस्त्यश्वरथपदातयस्त्यक्तवस्त्रादिभूषणास्यक्तपरिवारा वेत्यर्थः । अनेन 'इतरवत्' इति यदुक्तं तत्समर्थितम् । ते के राजानः ? सैन्यभराहितोरगपतिश्रान्ति बहिः प्रयातां येषां श्वेतातपत्रैः स्थगिता दिशो हिमांशुमहसो जायन्ते । सैन्यभराहितोरगपतिश्रान्ति-इदं प्रयाणक्रियाविशेषणम् , तदर्थस्तु सैन्यस्य यो भरो भारस्तेन आहिता स्थापिता कृता उगरपतेः शेषनागस्य श्रान्तिः श्रमो यथा भवति तथा बहिः प्रयातांस्वनगरादन्यत्र प्रयाणं कुर्वताम् , येषामू-इदानी भोजसेवार्थमागतानां नृपाणाम् , श्वेतातपत्रैः स्फटिकमुक्तादिनिमिततया धवलच्छत्रैः, स्थगिताः-आच्छादिताः, दिशः आशाः, हिमांशुमहसः-हिमांशोश्चन्द्रस्य महस्तेजो ज्योत्स्ना यासु तास्तथा, चन्द्रज्योत्स्नाकलिता इव, जायन्ते भवन्ति। अयं भावः-येषां नृपाणां प्रयाणे सति प्रचुरसैन्यभारेण शेषनागस्य श्रमो भवति, स्फटिकादिनिर्मितधवलातपत्रनिकरैश्च दिशश्चन्द्रज्योत्स्नाकलिता इव भवन्ति, एवंविधा अपि नृपाः सामान्यजनवदेकाकिनः समागत्य भोज सेवन्त इति । अत्रोत्प्रेक्षा रूपकम् , परस्परं संसृष्टिः, । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु अष्टात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ४८॥
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक-व्याख्या-विवृतिविभूषिता न स्वप्नेऽपि समाश्रिता रिपुजनं म्लानिं गता नोन्नतौ, लग्ना साधुगुणद्विषां शुचितया कर्णे न दुष्टात्मनाम् । निर्दोषाऽहमनेन दिक्षु गमिते यात्मीयवार्तामिव, व्याकर्तुं व्रजति स्म यस्य तरसा कीर्तिः सुरेन्द्रालयम् ॥४९॥[ शार्दूलविक्रीडितवृत्तम् ॥ ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥
तरसा-शीघ्रम् ॥ ४९ ॥
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 9 अथ यशोवर्णनार्थमाह-यस्य कीर्तिरित्यमुना प्रकारेणाऽऽत्मीयवाता व्याकर्तुं भाषयितुमिवोत्प्रेक्ष्यते । सुरेन्द्रालयमूर्ध्वलोकं तरसा व्रजति स्म शीघ्रं जगामेत्यर्थः । इतिशब्दोक्तां वाती दर्शयति, निर्दोषा सत्यहमनेन राज्ञा दिक्षु गमितेति, अथ निर्दोषत्वमेवाऽऽमनो व्यक्तीकरोति, स्वप्नेऽप्यहं रिपुजन न समाश्रिता, नाऽप्येतद्भूपस्योनतावहं म्लानि गता, साधुगुणद्विषां दुष्टात्मनां कर्णे शुचितयाऽहं न लग्ना, इत्येतावदोषाभावे सत्यप्यहमनेनेतस्ततो भ्रामितेति वार्ताकथनाय सुरेन्द्रालयं यत्कीर्तिर्यातीति वृत्तार्थः ॥४९॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ अथ भोजराजयशो वर्णयति-न स्वप्नेऽपीत्यादिना । यस्य कीर्तिः सुरेन्द्रालयं तरसा नजति स्मेत्यन्वयः। यस्य श्रीभोजराजस्य, कीर्तिः यशः, सुरेन्द्रालय-देवराजभवनम् , देवलोकमित्यर्थः, तरसा-शीघ्रम्, व्रजति स्म जगाम, देवलोकपर्यन्तं प्रसृतेति भावः । अत्रोत्प्रेक्षते कविः किमर्थं देवलोकं जगाम ? आत्मीयवाती व्याकर्तुमिव, आत्मीयवाता-निजसमाचारम् , व्याकर्तुमिव-कथयितुमिव, कीदृशीं वाता ? निर्दोषाऽहमनेन दिक्षु गमितेति, निर्दोषा-दोषरहिता, अहं-कीर्तिः, अनेन भोजराजेन, दिक्षु-आशासु, गमिता-भ्रमिता, इतस्ततः पर्यटनं कारितेत्यर्थः, अनेन कीर्तेः सर्वत्र प्रसारः सूचितः, इति-एवंप्रकारां वार्ताम् । कथं निर्दोषा ? यतः स्वप्नेऽपि रिपुजनं न समाश्रिता, उन्नतौ म्लानि न गता, साधुगुणद्विषां दुष्टात्मनां कर्णे शुचितया न लग्ना, ततो निर्दोषेत्यर्थः । हेतुहेतुमद्भावेन व्याख्यानाद् इत्यर्थलाभः, स्वप्नेऽपि-निद्रावस्थायामपि आस्तां जागरणावस्थायाम् , रिपुजनभोजशत्रुम् , न समाश्रिता-नाश्रयत्वेन स्वीकृतवती, अनेन ये भोजरिपवस्ते न कीर्तिभाजनमिति सूचितम् । उन्नतौ-उदये वृद्धौ वा, म्लानिं तेजोहीनताम्, मन्दतामित्यर्थः, न गतान प्राप्ता, अनेन प्रतिदिनं भोजकीर्त्या वर्द्धमान उदयो ज्ञापितः । साधुगुणद्विषां-उत्तमगुणद्वेषवतां वा, दुष्टात्मना-दुर्जनानाम्, कर्णे-श्रोत्रे, शुचितयापवित्रतया, न लग्ना-न प्रविष्टा, अदितद्विपरीतानां सज्जनानां कर्णकोटरे प्रविष्टा, अनेन सज्जनानां पुरतो भोज कीर्तिवर्णनं भवतीति सूचितम् , अत्र व्रजतीवेति क्रियोत्प्रेक्षालङ्कारः, अतिशयोक्तिः, एकस्यैव 'अहम्' इति पदस्य सकलक्रियाभूतक्तप्रत्ययेऽन्वयाद् दीपकालङ्कारः, एषां मिथो नैरपेक्ष्यात् संसृष्टिः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु अष्टात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ४९ ॥ ॐ अस्य पञ्चाशत्तमस्य श्लोकस्य विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथैतावद्रूपवर्णने किमित्येतत्कथाकरणप्रयोजनं दर्शितमित्येतद्दर्शयति, निःशेषेति, व्याख्या० निःशेषवाङ्मयविदोऽपि समस्तशास्त्रज्ञातुरपि जिनागमोक्ता जिनप्रवचनोक्ताः कथाः श्रोतुं समुपजातकुतूहलस्य संजातकौतुकस्याऽवदातचरितस्य राज्ञो भोजस्य विनोदहेतोः स्फुटः प्रकटोऽद्भुतो रसः शृङ्गारादिको यस्याः सा तथेयं कथा मया रचितेति । भोजराजविनोद एवाऽत्र प्रयोजनं दर्शितं भवतीति वृत्तार्थः ॥५०॥
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] निःशेषवाङ्मयविदोऽपि जिनागमोक्ताः, श्रोतुं कथाः समुपजातकुतूहलस्य । तस्यावदातचरितस्य विनोदहेतो, राज्ञः स्फुटाद्भुतरसा रचिता कथेयम् ॥५०॥ [ वसन्ततिलकात्तम् ] सप्तभिः कुलकम् ।। आसीद् द्विजन्माखिलमध्यदेश-प्रकाशसाङ्काश्यनिवेशजन्मा । अलब्ध देवर्षिरिति प्रसिद्धिं, यो दानवर्पित्वविभूषितोऽपि ॥५१॥ [ उपजातिवृत्तम् ] ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ अलब्ध देवर्षिरिति प्रसिद्धि [ अलब्ध- ] यो लब्धवान् प्राप्तवान् , कां ? प्रसिद्धि प्रख्याम् , कथं ? देवर्षिरिति-देवमुनिरिति, स कथं ? दानवर्षित्वविभूषितो-दानवमुनित्वशोभितोऽपि, विरोधसूचकपरिहारः पुनर्देवपिरिति नाम दानवर्षित्वं-वितरणवर्षिवं तेन विभूषितो दीनानाथादिदातेत्यर्थः ॥ ५१ ॥
॥ श्रीमत्पनसागरविबुधरचिता व्याख्या 卐 अथ कथाकारः पितामहपितृस्तवनपूर्वकं स्वनामाऽऽविष्करोति, आसीदिति, व्याख्या० अखिलः समस्तो यो मध्यदेशस्तस्य प्रकाशः प्रकटनं यस्मात् स एवंविधो यः शांङ्कास्यनामा निवेशस्तस्मिन् जन्म उत्पत्तिर्यस्य स तथा तादृशो द्विजन्मा ब्राह्मण आसीत् । मध्यदेशमध्यवर्तिशांकास्यनिवेशोत्पन्नब्राह्मण इत्यर्थः । स किंनामा ब्राह्मण इत्याह अलब्धेति, व्याख्या० यो ब्राह्मणो नाम्ना देवर्षिरिति प्रसिद्धिमलब्ध प्राप्तवानिति, अत्र विशेषणव्यङ्गयतां दर्शयति, यः कथंभूतो दानवर्षिन्वविभषितोऽपि, यो हि दानवर्षिः स्यात् स कथं देवर्षिः, अयं च देवर्षिरपि दानवर्षित्वविभूषित इत्येतचित्रम् । स्पष्टार्थस्तु दानवर्षिचं दानवृष्टिस्तया विभूषितो देवर्षिरिति च नाम्ना प्रतीत इति वृत्तार्थः ॥५१॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ मातिरिक्तसकलशास्त्रज्ञातुरपि, जिनागमोक्ता:-जिनप्रवचनप्रतिपाहिताः कथाः-चरित्राणि, श्रोतुम्-आकर्णयितुम् , श्रवणायेत्यर्थः, समुपजातकुतूहलस्य-समुपजात कुतूहलगपूर्वरसो यस्य स तथा तस्य । पुनः कीदृशस्य ? अवदातचरितस्य अवदातं भनोज्ञं चरितं चरित्रं यस्य स तथा तस्य । कीदृशी कथा रचिता ? स्फुटाद्भुतरसा स्फुटाः प्रकटा अद्भुता आश्चर्यजनका रसाः शृङ्गारादयो यस्यां सा तथा । अत्र रूपककाव्यलिङ्गालङ्कारौ । इदं वसन्ततिलकावृत्तम् तलक्षणं तु पञ्चमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ५० ॥
अथ निजपितामहं वर्णयति-आसीदित्यादिना । [स] द्विजन्मा आसीदित्यन्वयः । 'स' इत्यध्याहार्यमुत्तरदले यदुपादानात् , द्विजन्मा ब्राह्मणः, आसीद-अभवत् । कीदृशः ? अखिलमध्यदेशप्रकाशसाङ्काश्यनिवेशजन्मा अखिल: समग्रो यो मध्यदेशः “हिमपद्विन्ध्ययोर्मध्यं यत् प्राक् विनशनादति । प्रत्यगेव प्रयागाच मध्यदेशः प्रकीर्तितः ॥” इत्युक्तो देशविशेषस्तत्र प्रकाश:-प्रकाशते इति प्रकाशः प्रकाशनशाली यः सांकाश्यनिवेशः साकाइयाभिधानं नगरं तत्र जन्म उत्पत्तियस्य स तथा । सङ्काशेन निवृत्तम् , “ सुपन्थ्यादेयः" [ ६, २, ८४ ] इति व्यत्ययः । साङ्काश्य चासौ निवेशो नगरं च साङ्काइयनिवेशः । “निवेश: सैन्यविन्यासे न्यासे द्रङ्गविवाहयोः ।" इत्यनेकार्थसंग्रहः, द्रको नगरम् , यथा--" द्विषां निवेशेषु वरप्रवेशः कार्यों नूपैः..." । एतन्नगरनाम “अपायेऽवधिरपादानम्" [२, २, २९ ] इतिसूत्रबृहद्वृत्तौ कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरैः प्रदर्शितम् , यथा-साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति, [अत्र साङ्काश्यकैः पाटलिपुत्रकाणां समगुणत्वाद् यः साम्यं ज्ञातवान् स प्रकर्षाश्रयेण पुनर्बुद्धया पृथक् कृत्वा वाक्यं प्रयुङ्क्ते इति सिद्धापादानसंज्ञा, इति तदुपरिबृहन्यासे ] एतन्नगरमिदानीमिदानीन्तनाः संयुक्तप्रान्ते फरुखाबाद जिल्ला इति प्रसिद्ध विभागे ‘संकिस' इति ख्यातं दर्शयन्ति । अथ प्रस्तुतमनुसरामः स कः ? यो दानवर्षित्वविभूषितोऽपि देवर्षिरिति ख्यातिमलब्ध, या ब्राह्मणः, दानवर्षित्वविभूषितोऽपि-दानवमुनित्वेनालङ्कृतोऽपि,
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-व्याख्या-विवृतिविभूषिता शास्त्रेष्वधीती कुशलः क्रियासु, बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा, देवः स्वयम्भूरिव सर्वदेवः ॥५२॥ [ इन्द्रवज्रावृत्तम् ] ।
卐 विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ शास्त्रेष्वित्यादि । आत्मजन्मा-पुत्रो ब्रह्माप्यात्मना जन्म यस्य स तथोक्त उभयोः सर्वविशेषणानि योज्यानि ॥ ५२॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ तत्पुत्रं स्वस्य पितरं स्तुवन्नाह-शास्त्रेष्विति, व्याख्या० तस्य देवरात्मजन्मा पुत्रः स्वयम्भूर्देव श्व शम्भुरिव सर्वदेवः परिणामतो नामतश्च समभूद्वभूव । कथंभूतः शास्त्रेष्वधीती पण्डितः, पुनः कथंभूतः कलासु कुशलो दक्षः, चः पुनरर्थे पुनः कथंभूतो गिरां वाचां बन्धे रचनायां, बोधे सम्यग्ज्ञाने, प्रकृष्टः प्रधान इति वृत्तार्थः ॥५२॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ दानवमुनिरपि, देवर्षिः देवमुनिः, इति-एवंप्रकाराम् , ख्याति-प्रसिद्धिम् , अलब्ध-लब्धवान् , अत्र यो दानवमुनिः स देवमुनिन भवितुमर्हति देवदानवयोविरोधादिति विरोधस्तत्परिहारेऽयं प्रकारः-दानवर्षित्वविभूषितः दानं वर्षयति दीनानाथादिभ्यो ददातीति दानवर्षी तस्य भावेन विभूषितः देवर्षिरिति- देवर्षि ' इतिनाम्ना ख्याति प्रसिद्धिम् , अलब्ध-लब्धवान् , देवर्षिनामेत्यर्थः । अत्र विरोधाभासालङ्कारः, छेकानुप्रासवृत्त्यनुप्रासाभ्यां संसृष्टिः । इदमुपजातिवृक्तम् . प्रथमचतुर्थपादयोरिन्द्रवज्रा, द्वितीयतृतीयपादयोरुपेन्द्रवज्रा, एतयोः संकरेणोपजातिः, यदुक्तं छन्दोऽनुशासने-" तौ जगाविन्द्रवज्रा” “जतजा गावुपेन्द्रवज्रा" " एतयोः परयोश्च संकर उपजातिश्चतुर्दशधा" [ एतयोरिन्द्रवज्रोपेन्द्रवज्रयोः सङ्करोऽन्योऽन्यपादमीलनमुपजातिरिति ] ॥ ५१॥
अथ सर्वदेवाभिधं निजपितरं स्तौति-शास्त्रेष्वधीतीत्यादिना । तस्य सर्वदेव आत्मजन्मा समभूदित्यन्वयः । तस्य श्रीदेवर्षिनाम्नो विप्रस्य, सर्वदेवः सर्वदेवनामा, आत्मजन्मा-पुत्रः, समभूत् सम्बभूव, संजात इत्यर्थः । कीदृशः ! शास्त्रेष्वधीती-शास्त्राणि अधीतानि येन स शास्त्रेषु अधीती, अधीतशास्त्रनिकर इत्यर्थः । “ व्याप्ये केन" [२, २, ९९] इति कर्मणि सप्तमी । पुनः कीदृशः ? क्रियासु-धर्मकार्येषु व्यवहारकार्येषु च, कुशल:= चतुरः । पुनः कीदृशः ? गिरां बन्धे बोधे प्रकृष्टः, गिरां-वाणीनाम् , बन्धे-रचनायाम् , ग्रन्थकरण इत्यर्थः, बोधे-ज्ञाने, शास्त्रप्रतिपादितार्थज्ञाने इत्यर्थः, प्रकृष्टः प्रधानः । पुनः कीदृशः ? महात्मा-महान् गुणगणाढ्य आत्मा यस्य स तथा । क श? स्वयम्भूर्देव इव-ब्रह्मा इव । कीदृशो ब्रह्मा ? आत्मजन्मा-आत्मना स्वयं जन्म यस्य स तथा, यदुक्तं पुराणे “ हिरण्यवर्णमभवदत्राण्डमुदकेशयम् । तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूर्लोकविश्रुतः ॥" पुनः कीदृशो ब्रह्मा ? महात्मा-परमात्मा तन्मतानुसारिभिस्तथाङ्गीकारात् । पुनः कीदृशो ब्रह्मा ? सर्वदेवा-सर्वेषां प्राणिनां देवः, पुनः कीदृशो ब्रह्मा ? शास्त्रवधीती-शास्त्राणि वेदा अधीतानि 'इंक् स्मरणे' इति वचनात् प्रथमतः स्मृतानि येन स तथा, प्रथमतः स्मृतसकलवेद इत्यर्थः । पुनः कीदृशो ब्रह्मा ? क्रियासु-जगद्रचनासु कुशलः निपुणः । पुनः कीदृशो ब्रह्मा ? गिरां-वाणीनाम् , बन्धे-रचनायाम् , बोधे-ज्ञाने च, प्रकृष्टः प्रधानः, विविधग्रन्थरचनाशक्तियुक्तः, विविधग्रन्थबोधयुक्तश्चेत्यर्थः । यद्वा गिरां-वेदरूपवाणीनाम् , बन्धे-मुखरूपस्थानस्थापने प्रकृष्टः प्रधानः, चतुर्भिमुखैश्चतुणी वेदानां धारणे निपुण इत्यर्थः, यद्वा गिरां-निजतनयायाः सरस्वत्याः, बन्धेपुत्रीस्नेहेनालिङ्गनादौ हस्तादिना बन्धने वेष्टने, बोधे-तन्मनोभावविज्ञाने च प्रकृष्टः-निपुणः, अत्र पूपिमालङ्कारः । तृतीयपादेऽन्त्यानुप्रासः, द्वितीयपादे छेकानुप्रासः, एषां परस्परनरपेक्ष्यात् संसृष्टिः । इदमिन्द्रवज्रावृत्तम्, तल्लक्षणं तु गतश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ५२ ॥
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] तज्जन्मा जनकाङ्घ्रिपङ्कजरज सेवाप्तविद्यालयो, विमः श्रीधनपाल इत्यविशदामेतामबध्नात् कथाम् । अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना, श्रीमुजेन सरस्वतीति सदसि क्षोणिभृता व्याहृतः ॥५३॥ [ शार्दूलविक्रीडितवृत्तम् ॥ ॐ अस्य त्रिपञ्चाशत्तमस्य श्लोकस्य विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकं नास्तिक
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या 5 अथ पितामहपितृवर्णनानन्तरमात्मानं कथाबन्धकत्वेन दर्शयति, तजन्मेति । व्याख्या० ततः सर्वदेवाजन्मोत्पत्तियस्याऽसौ तजन्मा तत्पुत्रोऽथ पुत्रोऽपि कश्चिदविनीतत्वेन पितृचरणसेवको न स्यादित्याह-कथंभूतोऽसौ जनकस्य पितुरंही चरणौ तावेव पङ्कजे कमले तयो रजः परागस्तस्य सेवयाऽऽप्तः प्राप्तो विद्याया लवो बिन्दुर्यन स तथा । श्रीधनपालनामा विप्र एतां कथामबध्नाद्वबन्धेत्यन्वयः । कथंभूतामविशदां तथाविधबन्धरहितामिदं च वस्त्वेतत्कवेगर्वाभावसूचनपरम् । नन्वेतत्कृतकथायास्तदाऽऽदेयत्वं स्याद्यदाऽस्य महत्पुरुषाङ्गीकृतत्वं स्यादित्येतद्दर्शयति, अक्षुण्णोऽपीति, विविक्ताः सुबद्धा याः सूक्तयः सुष्टु वचनानि तासां रचनेऽक्षुण्णोऽप्यसमर्थोऽपि यो धनपालः सदसि सभायां सर्वविद्याब्धिना श्रीमुखेन महीभृता सरस्वतीति बिरुदेन व्याहृतो भाषितः, अक्षुण्णोऽपीति वचनमात्मनोऽनौद्धत्यदर्शनार्थमन्यथैवं सति सरस्वतीबिरुदमेव न संभवेत् । तथा च मुञ्जराजाभिमतपण्डितस्याऽस्य कृतेरादेयत्वमेवेति वृत्तार्थः ॥५३॥
卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ अथ प्रस्तुतकथाकर्तृत्वेन स्वपरिचयमाह-तज्जन्मेत्यादिना । [स] तज्जन्मा श्रीधनपाल इति विप्र एतां कथामबध्नादित्यन्वयः । 'स' इत्यध्याहार्यमुत्तरदले यदुपादानात् , तज्जन्मा-तस्मात् सर्वदेवनाम्नो विप्राद् जन्म उत्पत्तिर्यस्य स तथा, सर्वदेवविप्रपुत्र इत्यर्थः । धनपाल इति-धनपालनाम्ना प्रसिद्धः, विप्रः ब्राह्मणः, एतां प्रस्तुतां तिलकमञ्जरीनाम्नीम् , कथाम्-आख्यायिकालक्षणं प्रबन्धम् , अबध्नात्-अरचयत् , मेदविवक्षया अन्यार्थविभक्त्या निर्देशः, ननु कथाया वक्ष्यमाणत्वेन कथं भूतकालिको निर्देश इति चेदुच्यते प्राक् कथां कृत्वा तदनु पीठिकाकरणे न भूतनिर्देशो विरोधं वहति, यद्वा धनपालेन वारद्वयं तिलकमञ्जरी रचिता, तत्र पूर्वा भोजेन नाशिता, इयमुत्तरा, अस्याः पीठिकाभागे पूर्वरचितामाश्रित्य भूतकालनिर्देशो न विरोधमावहति । कीदृशो धनपाल: ? जनकाध्रिपङ्कजरजासेवाप्तविद्यालवा-जनकस्य पितुरध्रिपङ्कजयोश्चरणकमलयोर्यद् रजो धूली तस्य सेवया आप्तः प्राप्तो विद्याया लवोंऽशो येन स तथा, अनेन पितृसेवाप्रसादो गर्वपरिहारश्च दर्शितः । कीदृशोऽपि धनपाल एतां कथामबध्नात् ? विविक्तसूक्तिरचने अक्षुण्णोऽपि, विविक्तसूक्तिरचने-विवेकयुताः पवित्रा वा याः सूक्तयः सुभाषितानि तासां रचने रचनायाम् , अक्षुप्रणोऽपि-अभ्यासरहितोऽपि । स कः ? यः श्रीमुजेन क्षोणिभृता सदसि सरस्वतीति व्याहृतः, यः श्रीमुञ्जनश्रीमुञ्जनाम्ना, क्षोणिभृता-भूपालेन, सदसि-सभायाम् , सरस्वतीति-हे सरस्वति ! सरस्वतीस्वरूप ! आगच्छ, यद्वा आगतोऽयं सरस्वती सरस्वतीरूप इत्यादिना, व्याहृतः-भाषितः कथितो वा । कीदृशेन मुजेन ? सर्वविद्याब्धिनासकलविद्यासागरेण । कीदृशी कथाम् । अविशदां न विद्यते विशदा उत्तमा कथा यस्या उपरि सा तथा ताम्, अनुपमामित्यर्थः । अत्रातिशयोक्ति छेकवृत्त्यनुप्रासेन रूपकेण काव्यलिङ्गेन च संसृज्यते । इदं शार्दूलविक्रीडितवृत्तम, तल्लक्षणं तु अष्टयात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ५३ ॥
॥ इति श्रीतिलकमञ्जरीपीठिका ॥
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-व्याख्या-विवृतिविभूषिता ___ अस्ति रम्यतानिरस्तसकलसुरलोका स्वपदापहारशङ्कितशतक्रतुप्रार्थितेन शततमक्रतुवाञ्छाविच्छेदार्थमिव पार्थिवानामिक्ष्वाकूगामुत्पादिता प्रजापतिना [अ],
॥ विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ अस्तीत्यादि नगरीवर्णकः । शतक्रतुः-इन्द्रः ॥ अ॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथोक्तप्रयोजनादिरयं कथामारचयति, अस्ति रम्यतत्यारभ्योत्तरकोशलेष्वयोध्येति पर्यन्तमुत्तरकोशलदेशेवयोध्या नाम नगर्थस्तीति भावः । अथ तस्या विशेषणान्याह-ऋथंभूताऽयोध्या, रम्यतानिरस्तसकलसुरलोका-मनोज्ञत्वेन निरस्तः सकलस्वर्गलोको यया सा तथा, पुनः कथंभूता, उत्पादिता-निष्पादिता, केन प्रजापतिना-ब्रह्मणा, किमर्थं शततमक्रतुवाञ्छाविच्छेदार्थ शततमो यः ऋतुर्यागो देवपूजाविशेषस्तस्य वाञ्छाविनाशाय, इवोत्प्रेक्षायां, केषां पार्थिवानां, कथंभूतानामिक्ष्वाकृणामिक्ष्वाकुवंशोद्भवानां, ननु प्रजापतिना कथमेषां तद्वाञ्छाविच्छेदो विहित इति विशेषणद्वारा दर्शयति, कथंभूतन प्रजापतिना स्वपदापहारशङ्कितशतक्रतुप्रार्थितेन, स्वस्य । स्वपदमिन्द्रपदं तस्याऽपहार उद्दालनं तेन शङ्कितो यः शतक्रतुरिन्द्रस्तत्प्रार्थितन, अयं भावोऽयोध्या हि सुरलोकाधिकत्वेन सामान्यनिर्मिता कथं संभवति, तेन लोके परमोकृष्टेन ब्रह्मणा निर्मितेत्युत्प्रेक्ष्यते । ननुतन्निर्माणे तु शततमऋतुवाञ्छाविच्छेदः कथं प्रयोजनमिति चेच्छृणु, अत्राऽ'युत्प्रेक्षयैवाऽर्थो निगद्यत इक्ष्वाकुपार्थिवैर्हि नवनवतिपूजाविशेषाः कृता यावच तेषां शततमपूजाविशेषवाञ्छ। सगुत्पन्ना तावदिन्द्रेण ज्ञातमेभिः शततमपूजाफलक मत्पदमवश्यं ग्राह्य तथा च कथमहं भविष्यानीति विचिन्त्य ब्रह्मणः प्रार्थितं यत्त्वयैतेषां शततमक्रतुवाञ्छाविच्छेदः कार्य इति, तत्प्रार्थनाभन्मभीरुणा ब्रह्मणा सुरलोकादप्यधिकाऽयोध्या निर्मिता, तां च दृष्ट्वा तैश्चिन्तितं यच्छततमक्रतुलभ्यं स्वर्गाधिपत्य तञ्चैतन्नगर्याधिपत्येन लब्धमेवेति तेषां तद्वाञ्छाविच्छेदो जात इति तात्पर्याथैः ॥ अ॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ ___ कृतमङ्गलाचरणादिपीठिकाभागः कविः कथां कथयति-अस्ति रम्यतेत्यादिना । उत्तरकोशलेषु 'अयोध्या' इति यथार्थाभिधाना नगरी अस्तीत्यन्वयः । उत्तरकोशलेषु-कोशलदेशोत्तरविभागे, कोशलशब्दस्य देशविशेषवाचित्वाद् बहुवचनेन निर्देशः, अयोध्येति='अयोध्या' इतिनाम्नी, यथार्थाभिधाना=अर्थमवयवार्थमनतिकम्य वर्तत इति यथार्थम् , यथार्थमभिधानं नाम यस्याः सा तथा, अवयवार्थश्च योद्धं शक्या योध्या, न योच्या अयोध्या, प्रचुररक्षणसाधनकलिततया रिपुभिरनाक्रमणीयेति भावः । नगरी "पुण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैयुता । अनेकजातिसम्बद्धा नैकशिल्पिसमाकुला । सर्वदैवतसम्बदा नगरीत्यभिधीयते " इत्युक्ता पुरी, अस्ति-विद्यते । कीदृशी नगरी ? रम्यतानिरस्तसमस्तसुरलोका-रम्यतया रमणीतया निरस्तोऽधरीकृतः समस्तः सकल: सुरलोको देवप्रदेशो यया सा तथा । अत्रातिशयोक्तिरलङ्कारः । कीदृशीय नगरी ? उत्पादितेव-निर्मितेव, केन ! प्रजापतिना-ब्रह्मणा, कीदृशेन प्रजापतिना ? स्वपदापहारशङ्कितशतक्रतुमाथितेन-स्वपदमिन्द्ररूपा निजपदवी तस्यापहारेऽपहरणे शङ्कितो यः शतक्रतुरिन्द्रस्तेन प्रार्थितेन, किमर्थं प्रार्थितेन ? इक्ष्वाकूणां पार्थिवानां शततमक्रतुवाञ्छाविच्छेदार्थम्, इक्ष्वाकृणाम्इक्ष्वाकुवंशजातानाम् , पार्थिवानां राज्ञाम् , शततमक्रतुवाञ्छाविच्छेदार्थ-शततमस्य क्रतोरश्वभेधाख्ययज्ञस्य या वाञ्छा इच्छा तस्या विच्छेदार्थ विनाशार्थम् । अत्रोत्प्रेक्षालङ्कारः । अयं भावः-यः कतूनां शतं कुर्यात् स इन्द्रो भवति 'अश्वमेधशतादिन्द्रो जायते' इति श्रुतेः, इक्ष्वाकुभूपालेनेवनवतिः ऋतवः कृता यदि शततम ऋतं करिष्यन्ति तदा ममेन्द्रपदवी तदायत्ता भविष्यतीति शङ्कावता इन्द्रेण ब्रह्मा प्रार्थितः -यदुत, अमीषां भूपानां शततमक्रतुवाञ्छा. विच्छेदो यथा भवेत्तथा कर्तव्यमिति, ब्रह्मणा च स्वर्गादपि सुन्दरीय नगरी रचिता यां दृष्टया निरुक्तभूपानां स्वर्गच्छा तत्कारणीभूतशततमक्रतुवाञ्छा च विलीना [ यद्वा किमर्थ निर्मिता ! इक्ष्वाकूणां पार्थिवानां शततमक्रतवाञ्छाविग्छेदार्थमिति योजना । अनाय भावः-यदीभे इक्ष्वाकुभूपालाः शततमं ऋतुं करिष्यन्ति तदा ममेन्द्रपदवी तदाधिता भविष्यतीति शावता इन्द्रेण ब्रह्मा पार्थितः-यदुत, स्वर्गादपि सुन्दरी एतन्नगरी करणीया येन तामवलोक्यमे भूपाः स्वर्ग तत्साधनं शततम ऋतुं च नेच्छेयुः, ततो ब्रह्मणेयं नगरी निर्मिता ॥ ॥
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] वृत्तोज्ज्वलवर्णशालिनी कर्णिकेवाम्भोरुहस्य मध्यभागमलङ्कृत्य स्थिता भारतवर्षस्य [आ], तुषारधवलभित्तिना विशालवप्रेण परिगता प्राकारेण [३], विपुलसोपानसुगमावतारवापीशतसमाकुलाई,
विवधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ वृत्तोज्ज्वलवर्णशालिनी-शीलनिर्मला ये वर्णा ब्राह्मणादयस्तैः शालिनी च शोभायमाना पुरी, कर्णिका च बीजकोशश्च वृत्ता वर्तुला धवलवर्णशालिनी च ॥ आ॥ वप्रस्तटः ॥ ३ ॥
5 श्रीमत्य मलागरविवुधरचिता व्याख्या 5 पुनः कथंभूताऽयोध्या, वृत्तोज्ज्वलेति, अम्भोरुहस्वेज कालस्येव भारतवर्षस्य भरतक्षेत्रस्य मध्यभागमलङ्कृत्य कर्णिकेव स्थिता, कर्णिकायोध्ययोः सान्यं दर्शयति, कथंभूताऽयोध्या कर्णिक च, वृत्तोज्ज्वलवर्णशालिनी वृनेनाऽऽचारेणोज्जलो वर्षों ब्राह्मणादिकरतेन शालिनी, क िक पक्षे तु वृत्ता वृत्ताकारोज्ज्वलवर्णः श्वेतवर्णस्तेन शालिनीति ॥ आ ॥ पुनरयोध्या कथंभूता परिगता व्यासा, केन प्राकारेण बायकोट्टेन, कथंभूतेन तुपारेति, तुपावद्धिमवद्धवला भित्तिर्यस्य स तथा तेन, कथंभूतेन विशालवप्रेण विशालो विस्तीर्णो वप्रोऽन्तः कोट्टो यत्र स तथा तेन, ॥ इ॥ पुनः कथंभूनाऽयो या, विपुलेति विपुलैदिस्ती : सोपा सुगमोऽवतार उत्तरणं यासां तास्तथैवंविधा वाप्यो दीर्घिकास्ताभिः समाकुलेति ॥ ई॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? भारतवर्षस्य भरतक्षेत्रस्य, मध्यभाग-मध्यप्रदेशम् , अलङ्कृत्य-शोभयित्वा, स्थिता-स्थितिशालिनी । केव स्थिता ? कर्णिकेव-यथा कर्णिका बीजकोषः, अम्भोरुहस्य-कमलस्य, मध्यभागमा लऋत्य स्थिता तथा, कीटशी नगरी कीदृशी च कर्णिका ? वृत्तोज्ज्वलवर्णशालिनी-जनरीपक्षे वृत्तेन सदाचारेण उज्ज्वलाः पवित्रा ये वर्णा ब्राह्मणादयस्तैः शालते श्लाघावती भवतीति तथा, कर्णिकापक्षे वृत्ता वर्तुलाकारा उज्ज्वला विकासिनी वर्णशालिनी पीतादिवर्णशालिनी च यद्वा उज्ज्वलं कनकं तद्वर्णशालिनी यद्वा उज्ज्वलो विशदो दीप्तो वा यो वर्णस्तेन शालते इलाघवती भवतीत्येवंशीलेति तथा। "वृत्तं वृत्तौ दृढे गृते, चरित्रे वतुले छन्दस्यतीताधीतयोवृते।" इत्यनेकार्थसंग्रहः, “गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्तन हितानां च तत्सर्वं वृत्तमुच्यते ॥" उज्ज्वलस्तु विकासिनि, शृङ्गारे विशदे दीप्ते' इत्यनेकार्थसंग्रहः । उज्ज्वल स्वर्ण, इतिशब्दस्तोममहानिधिः । “वर्णो गुणाक्षरयशः-शुक्लादिब्राह्मणादिषु । वर्णः स्तुतौ कथायां च वर्णः स्याद्भेदरूपयोः ॥” इति शास्वतः । अत्र श्लेषानुप्राणितो. त्प्रेक्षालङ्कारः ॥ आ ॥
पुनः कीदृशी नगरी ! प्राकारेण-कोट्रेन, परिगता-वेष्टिता, कीदृशेन प्राकारेण ? तुषारधवलभित्तिनातुषारो हिमं कपूरं वा तद्वद् धवला शुभ्रा भित्तिर्यस्य स तथा तेन । पुनः कीदृशेन ? विशालवप्रेण विशालो विस्तृतो वप्रः परिखोघृतमृत्तिकास्तूपरूपा प्राकाराधारभूता मूलभूमियस्य स तथा तेन, “चयो वप्रोऽस्य पीठभूः" [ अस्य प्राकारस्य पीठभूमूलभूमिः ] इत्यभिधानचिन्तामणि: । अत्र लुप्तोपनालङ्कारः ॥ इ॥
____ पुनः कीदृशी नगरी ? विपुलसोपानसुगमावतारवापीशतसमाकुला=विपुलैः विस्तृतैः सोपानैः पाषाणादिरचितावतरणसाधनैः सुगमः सुखकरोऽवतारोऽवतरणं यासु तादृशीनां वापीनां जलाशयविशेषाणां शतैः समाकुला व्याप्ता, “शतेन धनुभिः पुष्करणी, त्रिभिर्दीर्घिका, चतुर्भिोण: पञ्चभिस्तडागः । द्रोणाद् दशगुणा वापी ।" इति शब्दस्तोममहानिधिः ॥ ई॥
For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-व्याख्या-विवृतिविभूषिता मनोरथानामपि दुर्विलड्वेन प्लवमानकरिमकरकुम्भीरभीषणोमिणा जलपतिबिम्बितप्राकारच्छलेन जलराशिशङ्कया मैनाकमन्वेष्टुमन्तःमविष्टहिमवतेव महता खातवलयेन वेष्टिता [3], पवनपटुचलितधवलध्वजकलार्जामदग्न्यमार्गणाहतकौञ्जादिच्छिट्टैरिवोद्भ्रान्तराजहंसैराशानिर्गममार्गायमाणैश्चतुर्भिरत्युच्चै!पुरैरुपेता [1],
卐 श्रीमत्पद्मसागरविवुधरचिता व्याख्या 卐 पुनः कथंभूताऽयोध्या, महतेति, महत्या खातिकया वेष्टिता, कथंभूतेन खातवलयेनाऽन्तःप्रविष्टहिमवते वाऽन्तर्मध्ये प्रविटो हिमवान् पर्वतो यत्र स तथा तेन, इवेत्युत्प्रेक्षायां, केन जलप्रबिम्बितप्राकारच्छलेन खातिकाजलप्रतिबिम्बितकोट्टछद्मना, किमर्थमसौ तत्र प्रविष्ट इत्याह-किंकर्तुमन्वेष्ट्र चीक्षितुं के मैनाकं मैनाकनामकं स्वपुत्रं, कया जलराशिशङ्कया समुद्राशयेत्यर्थः । अथ खातवलयस्य समुद्रौपम्यं विशेषणाभ्यां द्रढयति, कथंभूतेन खातवलयेन मनोरथानामपि दुर्विलचेन्न, तल्लङ्कने मनोरथा अपि कर्तुमशक्या इत्यर्थः । पुनः खातवलयेन कथंभूतेन प्लवमानकरिमकरकुम्भीरभीषणोमिणाप्लवमानास्तरन्तः करिणो हस्तिनो मकरा मत्स्याः कुम्भीरा जलजीवविशेषास्तीषणा भयकारिण ऊर्मयः कलोला यस्य स तथा तेनेति ।। उ ॥ पुनः कथंभूताऽयोध्याऽन्युच्चैश्चतुर्भिर्गोपुरैः प्रतोलीभिरुपेता, कथंभूतैर्गोपुरैः पवनपटुचलितधवलध्वजकलापैः पवनेन वायुना पटु यथा स्यात्तथा चलितः कम्पितो धवल वजकलापो येषां ते तथा तैः, जामदग्न्यमार्गणाहतकोजादिछिद्रेरिव, इवोत्प्रेक्ष्यते, जमदग्नेरपत्यं जामदग्न्यः परशुरामस्तस्य मार्गणा बाणास्तैराहतो विद्धः कोजाद्रिः कौजपर्वतस्तस्य छिद्राणीव छिद्राणि तैर्गोपुरच्छलेन जातान्येवंविधानि कौञ्जादिछिद्राणीत्यर्थः । कथंभूतैस्तच्छिट्टैरिति, उद्भान्तेति, कम्पितध्वजच्छलातूद्धान्ता उच्चलिता राजहंसा येषु तानि तथा तैर्वजानां श्वेतवर्णत्वेन राजहंसोत्प्रेक्ष्यत्वम् । पुनः कथंभूतैर्गोपुरैस्तच्छिद्रेश्वाऽऽशानिर्गममार्गायमाणैराशासु दिक्षु निर्गनं विहरणं मार्गायमाणा गवेषयन्तो जना येषु ते तथा तैस्तेषु गोपुरेषु स्थित्वा जनाः पूर्वेय पश्चिमेयमित्यादिदिग्विभागं निर्णयन्तीत्यर्थः । कोजादिछिद्रपक्षे त्वाशानिर्गम मार्गायमाणा हंसा येषु ते तथा तैरित्यर्थः ॥ऊ।
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? महता सातवलयेन वेष्टिता, महता-विशालेन, खातवलयेन-खातं परिखा, तदेव वलयाकारत्वाद् वलयं तेन वेष्टिता-आवृता । कीदृशेन खातवलयेन ? मनोरथानामपि-अभिलाषाणामपि,दुर्विलजेनदुः खेन लङ्यतेऽतिक्रम्य गम्यते इति दुर्विलङ्गस्तेन तथा, यद्विलङ्घने मनोरथा अपि दुष्करा आस्तां पारगमनवातेति भावः । पुनः कीदृशेन खातक्लयेन ? प्लवमानकरिमकरकुम्भीरभीषणोर्मिणा-'लवमानास्तरन्तो ये करिणो जलहस्तिनो मकराः स्वनामख्याता जलजन्तुविशेषाः कुम्भीरा जलसूकरास्तैर्भीषणा भयानका उर्मयः कल्लोला यस्मिन् तेन तथा । पुनः कीदृशेनेव खातवलयेन ? अन्तःप्रविष्टहिमवतेव-अन्तःप्रविष्टो मध्यगतो हिमवान् हिमाचलो यत्र तेन तथैव, कया रीत्या हिमवानन्तः प्रविष्टः ? जलप्रतिबिम्बितप्राकारच्छलेन-जले खातोदके प्रतिबिम्बित आसनवर्तितया प्रतिबिम्बरूपेण दृश्यमानो यः प्राकारस्तस्य छलेन व्याजेन । किं कर्तुं हिमवान् अन्तःप्रविष्टः ? मैनाकमैनाकनामानं स्वपुत्रम्, अन्वेष्टुम् अदृश्यतां गतं द्रष्टुम् , अन्वेषणायेत्यर्थः, ननु मैनाकस्तु समुद्रं प्रविश्यादृश्यो जातः कथमत्रान्वेषणा! जलराशिशङ्कया-प्रस्तुतखातस्य विशालागाधतया हिमवतो जलधिशङ्का जाता, अतो मैनाकान्वेषणायान्तः प्रविष्ट इत्यर्थः । अत्रोत्प्रेक्षारूपकालङ्कारौ ॥ उ॥
पुनः कीदृशी नगरी ? गोपुरैः=नगरद्वारैः, उपेता-सहिता, कीदृशैर्गोपुरैः ? पवनपटुचलितधवलध्वजकलापैः-पटु यथा स्यात्तथा चलित इति पहुंचलितः, पवनैः पटुचलितो धवलवजानां श्वेतपताकानां कलापः समूहो येषु ते तथा तैः । कीदृशैरिव गोपुरैः ? जामदग्न्यमार्गणाहतकौनाद्रिच्छिद्रेरिव-जामदग्न्यस्य परशुरामस्य
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी
[६३ मांशुशिखराग्रज्वलत्कनककलशैः सुधापधवलमाकारवलयितैरमरमन्दिरमण्डलैमण्डलितमोगमध्यप्रवेशितोन्मणिफणासहखं शेषाहिमुपहसद्भिरुद्भासितचखरा [ऋ, खरापतज्जलविसरसारणीसिक्तसान्द्रवालद्रुमर्दुमतलनिषादिना परिश्रान्तपथिकलोकेन प्रतिदि
॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या के ___पुनः कथंभूताऽयोध्या, उद्भासितचत्वरोद्भासितं प्रकाशितं चत्वरं यस्याः सा तथा, कैरमरमन्दिरमण्डलैर्देवगृहसमूहैरित्यर्थः, कथंभूतैः प्रांशुशिखराग्रज्वलत्कनककलशैः प्रांशून्युच्छ्रितानि यानि शिखराणि तेषामग्रेषु ज्वलन्तो दीप्तिमन्तः कनककलशा येषु ते तथा तैः । पुनःकथंभूतैः सुधापङ्कधवलप्राकारवलयितैः सुधापङ्केनाऽमृतकर्दमेन लिप्तत्वाद्धवला ये प्राकारास्तैबलयितैर्वलयाकारीकृतैरत एव तैः किं कुर्वद्भिपहसद्भिः, कं शेषाहि शेषनाग, कथंभूतं मण्डलितेति, मण्डलितस्य मण्डलीभूतस्य भोगस्य देहस्य मध्ये प्रवेशितमेवंविधं सत् , उद्ध्वं मणयो यत्र तदेवंविधं फणासहस्रं येन स तथा तमित्यर्थः ॥ ऋ॥ पुनः कथंभूताऽयोध्या श्यामायमानपरिसरा श्याम इवाऽऽचरन् श्यामायमानः परिसरो बहिर्भागो यस्याः सा तथा, कैरारामैः काननैः, कथंभूत रमरकाननानुकारिभिनन्दनवनानुकारिभिरित्यर्थः । पुनः कथंभूतैः प्रतिदिवसमिति प्रतिदिनमुन्मीलन्ती विकसन्ती नीला श्यामा कान्तिर्येषु ते तथा तैः । अत्रोत्प्रेक्षामाह-इवोत्प्रेक्ष्यते दिनकरण सूर्येणाऽऽकृप्य संचार्यमाणानि क्षेप्यमानानि सकलानि शर्वरीतिमिराणि रात्रिसम्बन्धिध्वान्तानि येषु ते तथा तैननु सूर्येणैतावानाक्षेपः किमर्थं क्रियत इत्याह-स्वसन्ततिप्रभवपार्थिवप्रीतये, इक्ष्वाकुवंशस्य सूर्यप्रभवत्वेन स्वसन्ततौ प्रभवा ये पार्थिवा इक्ष्वाकुराजास्तेषां प्रीतये । तर्हि तथाविधेषु वनेषु समायाताः सन्तः प्रीतिं प्राप्नुवन्तीति सूर्येणेव तानि तथा कृतानीति । पुनरारामैः कथंभूतैः क्षणमप्यमुच्यमानमनोभवभवानीभवनैः, क्षणमपि समयमप्यमुच्यमानो मनोभवः कन्दर्पो येषु तान्येवंविधानि भवानीभवनानि पार्वतीमन्दिराणि प्रासादा येषु ते तथा तैः । ननु मनोभवस्य केनाऽमुच्यमानत्वमित्याह भुज
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ मार्गणैर्वाणैराहतस्य ताडितस्य कौआद्रेः क्रौञ्चपर्वतस्य छिट्टैरिव विवरैरिव, “क्रुञ्चतीति क्रुञ्चः प्रज्ञाद्यणि क्रौञ्चः, कौखोऽपि " इत्यभिधानचिन्तामणिवृत्तिः। पुनः कीदृशोपुरैः ? उद्घान्तराजहंसैः-उद् ऊध्वं भ्रान्ताः पवनकम्पितहंससदृशधवलपताकाभिर्धान्तिविषया राजहंसा रक्तवर्णचरणचञ्चुयुक्ताः श्वेतवर्णा हंसविशेषा येषु ते तथा तैः, कौञ्जाद्रिच्छिद्रपक्षे उद्घान्ता उपरि भ्रमणं कृतवन्त इति । पुनः कीदृशैर्गोपुरैः ! आशानिर्गममार्गायमाणैः आशानां दिशा निर्गमेषु निष्क्रमणेषु मार्गायमाणैर्विशालतया चतुर्दिगवस्थिततया च मार्गसदृशाचरणकारिभिः, मार्गतुल्यैरिति भावः । पुनः कीदृशैर्गोपुरैः ? अत्युचैः-अतिशयेनोवं गतैः, कतिसंख्यकर्गोपुरैः ? चतुर्भिः चतुस्संख्यकैः । अत्रोत्प्रेक्षातिशयोक्त्योः संसृष्टिः ॥ ऊ ।। पुनः कीदृशी नगरी ! अमरमन्दिरमण्डलैः देवमन्दिरसमुदायैः, उद्भासितचत्वरा-उद्भासितानि प्रकाशितानि चत्वराणि अङ्गणानि यस्याः सा तथा । कीदृशैरमरमन्दिरमण्डलैः ? प्रांशुशिखराग्रज्वलत्कनककलशैः-प्रांशूनामुच्चानां शिखराणामग्रेषु ज्वलन्तो दीप्यमानाः कनककलशाः सुवर्णकुम्भा यत्र तानि तथा तैः । पुनः कीदृशैः ? सुधापङ्कधवलप्राकारवलयितैः=सुधापरून ताम्बूलचर्वणोपयोगिचूर्णाख्यद्रव्यलेपेन धवला ये प्राकारास्तैर्वलयितैः वेष्टितैः । अत एव किं कुर्वद्भिः ? शेषाहि-शेषनागम् , उपहसद्भिः-उपहास कुर्वद्भिः, कीदृशं शेषाहिं ! मण्डलितभोगमध्यप्रवेशितोन्मणिफणासहस्र-मण्डलितस्य वर्तुलाकार प्रापितस्य भोगस्य देहस्य मध्ये प्रवेशितम् उन्मणि उपरिभागस्था मणयो यत्र एवंविधं च फणासहस्रं यस्य स तथा तम् । वर्तुलदेहस्थानापन्ना धवलप्राकारवलयवेष्टिता मन्दिरभागाः, फणास्थानापन्नानि शिखराणि, मणिस्थानापन्नाः कनककलशाः, तत्र तत्र शोभातिरेकेण शेषनागस्योपहासः । अत्र काव्यलिङ्गमलङ्कारोऽतिशयोक्त्या संसूज्यते ॥ ऋ॥
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-व्याख्या-विवृतिविभूषिता वसमाकर्ण्यमानमधुरतारघटीयन्त्रचीत्कारैः परित्यक्तसकलव्यापारेण पौरवनितामुखार्पितदृशा सविक्रियं प्रजल्पता पठता गायता च भुजङ्गजनसमाजेन क्षणमप्यमुच्यमानमनोभवभवभवानीभवनैः प्रतिदिवसमधिकाधिकोन्मीलन्नीलकान्तिभिः स्वसन्ततिप्रभवपार्थिवभीतये दिनकरेणेवाकृष्यसञ्चार्यमाणसकलशर्वरीतिमिरैरमरकाननानुकारिभिरारामैः श्यामायमानपरिसरा [ऋ.]
विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिपनकम् ॥ परिसरः-पर्यन्तः॥ ऋ॥
॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या है ङ्गजनसमाजेन भुजङ्गजना गणिकापतयस्तेषां समाजेनैकीभूतत्वात् परिषदा वृन्देनेत्यर्थः, किं कुर्वता भुजम जनसमाजेन सविक्रियं विक्रियासहितं यथा स्यात्तथा प्रजल्पता लपता पटता भणता गायता गानं बुद्धता, पुनः कथंभूतेन भुजङ्गजनसमाजेन पौरवनितामुखार्वितदृष्टिना नगरस्त्रीवदनदत्तचक्षुपाऽत एवं कथंभूतेन पुनस्तेन परित्यक्तसकलव्यापारेणेति । अथ पुनः कथंभूतैरारामैस्त्वति त्वरया वेगेन पतन्ति यानि जलानि तेषां विसरः समूहो यस्यां सा तथैवंविधा सारिणी कुल्या तया सिताः सेकं प्रापिताः सान्द्राः सरसा वालटुमा वाटवृक्षा येषु ते तथा तैः । पुनः कथंभूतैरारामैः, आकयेत्याकण्यमानाः सन्तो मधुरतरा घटीयन्त्रस्याऽरघट्टस्य चीत्कारा येषु ते तथा तैराकर्ण्यमानाः केनेत्याह-परीति, श्रमवता पथिकजगेनेत्यर्थः । अत एव ता कभूतेन द्रुमतलनिपादिना द्रुमतलोपविटेनेत्यर्थः ॥ ३ ॥
ॐ श्रीविजयलाघण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? आरामैः केलिवनैः, श्यामायमानपरिसरा-श्यामायमानः श्याम इव दृश्यमानः परिसरः स्वसमीपस्थो बहिर्भागो यस्या : सा तथा । कीदृशैराराभैः । त्वरापतजलविसरसारणीसिक्तसान्द्रबालद्रुमैः त्वरया वेगेन पततां जलानां विसरः समुदायो यत्र तादृशी या सरणी कुल्या कृत्रिमक्षुद्रनदी तया सिक्ता सेचनं प्रापिता सान्द्रा निविडा वालद्रुमा लघुवृक्षा येषु ते तथा नैः । पुनः कीदृशैरारामैः ? दुमतलनिषादिना परिश्रान्तपथिकलोकेन प्रतिदिवसमाकर्ण्यमानमधुरतारघटीयन्त्रचीत्कारैः, द्रमतलनिपादिना वृक्षाधोभागनिषण्णेन, परिश्रान्तपथिकलोकेन-परिश्रमयुक्तप्रवासिजनसमुदायेन, जातावेकवचनम् , प्रतिदिवसं-दिने दिने, आकर्ण्यमानमधुरतारघटीयन्त्रचीत्कारैः आकर्ण्यमानाः श्रूयमाणा मधुराः कर्णप्रियास्तारा दीर्घा घटीयन्त्रस्य अरघट्टनाम्नो जलोद्धारणयन्त्रस्य चीत्कारा येषु ते तथा तैः । पुनः कीदृशैरारामैः ? परित्यक्तसकलव्यापारेण पौरवनितामुखार्पितदृशा सविक्रिय प्रजल्पता पठता गायता च भुजंगसमाजेन क्षणमायमुच्यमानमनोभवभवभवानीभवनैः । परित्यक्तसकलव्यापारेण= परित्यक्तो मुक्तो सकलव्यापारो विलासातिरिक्तं सकलं कार्य येन स तथा तेन, पौरवनितामुखार्पितदृशापौरवनितानां गणिकानां मुखेषु अर्पिता स्थापिता दृग् दृष्टियन स तथा तेन, सविक्रियं-भ्रविक्षेपादिविविधक्रियायुक्तं यथा स्यात् तथा, प्रजल्पता-सामान्यतो वदता, पठता-पाठं कुर्वता, गायता गायनं कुर्वता, च-समुच्चये, भुजंगसमाजेन जारसमुदायेन, क्षणमपि कञ्चितत्कालमपि, अमुच्यमानमनोभवभवभवानीमवनैः अमुच्यमानानि मनोभवस्य कामदेवस्य भवस्य शंकरस्य भवान्या पार्व-या भवनानि येषु ते तथा तैः, यद्वा मनोभवः कामदेवः स एव भवः शङ्करस्तस्या भवान्या रतेर्भवनानि गृहाणि, तथा च अमुच्यमानानि मनोभवभवभवानीभवनानि रतिगृहाणि यत्र ते तथा तैः । अत्र ‘भवभवभवानीभवन' इतिव्यञ्जनवर्णस्यासकृत्साम्याद् बृत्यनुप्रासालङ्कारः, रूपकम् , अतिशयोक्तिश्च तेषां संसृष्टिः । पुनः कीदृशैरारामैः ? प्रतिदिवसं-दिने दिने, अधिकाधिकोन्मीलन्नीलकान्तिभिः-अधिकाधिकमत्यन्तमुन्मीलन्ती विकसन्ती नीला श्यामा कान्तिर्येषु ते तथा तैः । अत एव कीदृशैरिवारामैः ? स्वसन्ततिप्रभवपार्थिवप्रीतये दिनकरेणाकृष्य संचार्यमाणसकलशर्वरीतिमिरैरिव, स्वसन्ततिप्रभवपार्थिवप्रीतये स्वसन्ततिः स्वापत्यप्रवाहस्तत्र प्रभवा उत्पन्ना
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमजरा
गिरिशिखरततिनिमशातकुम्भप्रासादमालाध्यासितोभयविभागैः स्फुटविभाव्यमानमर तेन्द्रनीलवज्रवैडूर्यराशिभिश्चामीकराचलतटीव चण्डांशुरथचक्रमागैः पृथुलायतैर्विपणिप प्रसाधिता [ल],
5 विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ प्रसाधिता-मण्डिता ॥ ल॥
श्रीमत्पन्नसागरविबुधरचिता व्याख्या + अथ पुनःकथंभूताऽयोध्या, प्रासाधिता प्र प्रकर्षेण आ समन्तात् राधं साधंट् संसिद्धावितिधातोः साधि प्रतिष्ठा प्रापिता, कैर्विपणिपथैहट्टमार्गः, कथंभूतैर्विपणिपथैश्चडांशुरथेति, चण्डा अंशवः किरणा येषां तथैवंविधा रथास्तेषां चक्रमार्गो येषु ते तथा तैः । पुनः कथंभूतैर्विपणिपथैः स्फुटेति, स्फुटं प्रकटं विभा० मानानां विलोक्यमानानां मरकतरत्नानामिन्द्रनीलरत्नानां वज्ररत्नानां वैडूर्यरत्नानां राशिः पुञ्जो येषु ते तथा तैः । पुर कथंभूतैर्विपणिमागैगिरिशिखरेति, पर्वतशिखरसंनिभसुवर्णप्रासादश्रेण्याऽभ्यासितावधिष्टितावुभयविभागौ पार्श्वद्वयं येषां । तथा तैरेवंविधचतुष्पथप्रसाधिताऽयोध्येति । केव चामीकराचलतटीव मेरुपर्वततटभूमिरिव, तदर्थे तु विपणिपर विशेषणानि विशेषाण्येत्र वाच्यानि, तथाहि-यथा चण्डांशुरथेति, चण्डांशोः सूर्यस्य रथचक्रयोर्मामरुती प्रसाधित भवति तथैवविधैर्विपणिपथैरियमपि । स्फुटविभाव्यमानेत्येवंविधा, एतावता रत्नानां राशिभिर्यथा मेस्तटी प्रसाधिता तो वंविधैर्विपणिपथैरियमपि। गिरिशिखरेति, एवंविधप्रासादमालाधिष्ठितोभयविभागैर्यथा मेरुतटी प्रसाधिता तवविध विपणिपथैरियमपीति तात्पर्यार्थः ॥ ल ॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ ये पार्थिवा राजानस्तेषां प्रीतये, दिनकरेण-सूर्येण, आकृप्य सूर्यवंशजराजभूमावितस्तत आकर्षणं कृत्वा, संचार्य माणसकलशर्वरीतिमिररिव-संचार्यमाणं प्रवेश्यमानं सकलं शर्वरीतिमिरे रात्रेरन्धकारं यत्र ते तथा तैः । अर भावः-अयोध्यानगरीनृपा इक्ष्वाकुवंशजाः, इक्ष्वाकुवंशश्च सूर्यतो जात इति स्वसन्ततिप्रभवा राजानोऽयोध्यानृपाः, अथ योध्यानृपभूमौ निशान्धकारं प्रसृतम् , सूर्येण चेतस्तत आकृष्यैष्वारामेषु संचारितम् , तेनान्यत्र भूमावन्धकाराभावं जातः, एतेनामी राजानः प्रीतिं गता इति । अत्रोत्प्रेक्षालङ्कारः ॥ ऋ॥
पुनः कीदृशी नगरी ? विपणिपथैः हट्टमार्गः, प्रसाधिता-अलता, कीदृशैविपणिपथैः ? गिरिशिखर गिरिशिखराणां ततिनिभाः पलि सदृशा ये शातकुम्भस्य सुवर्णस्य प्रासादाः सुवर्गखचितप्रासादा इत्यर्थः, तेषां मालाभि श्रेणिभिरध्यासितौ सहितावुभयभागौ पार्श्वद्वयं येषां ते तथा तैः । पुनः कीदृशैविपणिपथैः ? स्फुटविभाव्यमानः स्फुटं प्रकटं यथा स्यात्तथा विभाव्यमाना ज्ञायमानाः, प्रत्यक्षं दृश्यमाना इत्यर्थः, एवंविधा मरकतानां हरिद्वर्णमणिविशेष णाम् इन्द्रनीलानां "क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां ब्रजेत् । इन्द्रनीलमिति ख्यातम्" इत्युक्तानां मणिविशेषाण वज्राणां हीरकाणां वैाणां मणिविशेषाणां च राशयः पुजा यत्र ते तथा तैः । पुनः कीदृशैविपणिपथैः ? पृथुला यतैः पृथुलैविस्तृतैरायतैर्दीधैः । कैः केव ? चण्डांशुरथचक्रमार्गः चण्डांशुः सूर्यस्तस्य यो रथस्तस्य ये चक्रे तन्मार्गः चामीकराचलतटीव-चामीकराचलः सुवर्णमयो मेरुस्तस्य तटीव तटप्रदेश इव । अत्रापि निरुक्तविशेषणानि योज्यानि पूर्णोपमालङ्कारः ॥ ल॥
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६६
[ टिप्पनक - व्याख्या- विवृतिविभूषिता धृतोद्धुरप्राकारपरिवेषरभ्रंकषप्रतोलिभिरुत्तुङ्गमकरतोरणावनद्धहरितवन्दनमालै दौलाविभूषिताङ्गणवेदिभिरश्रान्तकालागुरुधूपधूमा श्लेषभयपल। यमानदन्तवलभिकाभित्तिचित्रानिव विचित्रमयूखजालकमुचो माणिक्यजालकान् कलयद्भिरद्भुताकारैरनेक भूमिका भ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचन्द्रोदया [],
Acharya Shri Kailassagarsuri Gyanmandir
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या फ्र
पुनरयोध्या कथंभूता प्रवर्तिताविरतचन्द्रोदया प्रवर्तितोऽविरतं निरन्तरं चन्द्रस्योदयो यस्यां सा तथा, कैः सौधैर्मन्दिरैः कथैभूतैरनेकभूमिका भ्राजिष्णुभिः सप्तादिभूमिकायुक्तः, सौधैः किं कुर्वद्भिर्माणिक्यजालकान् कलयद्भिः, कथंभूतान् विचित्रेति, विचित्रा विविधा ये मयूखाः किरणास्तेषां जालक समूहं मुञ्चतीति तन्मुचो विचित्रकिरणान् विस्तारयत इत्यर्थः । पुनर्माणिक्यजालकान् कथंभूतान्, अथान्तेति, अश्रान्तोत्क्षेपणादविरतो यः कालागुरुधूपस्तस्य यो धूमस्तदा श्लेषभयात् पलायमानानि दन्तवलभिकया दन्तमयछदिराधारेणोपलक्षितभित्तौ चित्राणीव भवन्ति ये ते तान् । इवोत्प्रेक्षायां तत्किरणानि हि दन्तवलभिकाधोभित्तौ चित्राकारेण निपतन्ति तेनैवमुत्प्रेक्ष्यते, यत्तथाविधधूमाश्लेषभयेन जाने गृहमध्यस्थितभित्तित्तः पलाय्याऽत्राऽऽयातानि चित्राणीतितात्पर्यम् । शेषं सौधविशेषणत्रयं तु स्पष्टमेव । एवंविधैश्व सौधैः सर्वदा प्रकाशादविरतचन्द्रोदयत्वमस्याः सिद्धमिति ॥ 11
ह
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
पुनः कीदृशी नगरी ? सौघैः= राजमन्दिरैः, प्रवर्तिताविरतचन्द्रोदया - प्रवर्तितः प्रकर्षेण विहितोऽविरो बिरामरहितश्चन्द्रस्योदयः प्रकाशो यस्यां सा तथा । कीदृशैः सौधैः ? धृतोद्धुरप्राकारपरिवेषैः धृत उद्धरैः प्राकारैः कोट्टैः परिवेषो वेष्टनं यैस्ते तथा तैः । पुनः कीदृशैः सौधैः ? अभ्रंकषप्रतोलिभिः = अभ्रंकषा अत्युच्चाः प्रतोलयः ‘पोळ' इति प्रसिद्धानि प्रवेशद्वारस्थानानि येषु ते तथा तैः पुनः कीदृशैः सौधैः ? उत्तुङ्गमकर०= उत्तुङ्गा उच्चा मकरतोरणा उत्कीर्णमकराख्यजलजन्तुसम्बद्ध स्तोरणा बहिर्द्वाराणि तेष्ववनद्धा बद्धा हरितवन्दनमाला हरितवर्णा आम्रदलादिनिर्मिता 'तोरण' इति लोकप्रसिद्धा मङ्गलार्थं मालाविशेषा येषु ते तथा तैः ८८ 1 तोरणोतु मङ्गल्यं दाम वन्दनमालिका ”[ तोरणस्योपरि मङ्गलार्थं सहकारादिपल्लवनिर्मितं दाम माला वन्दनाय माला वन्दनमाला ] इत्यभिधानचिन्तामणिः । पुनः कीदृशैः सौधैः ? दोलविभूषिता० - दोलाभिर्हिण्डोलकाख्यदोलनयन्नैर्विभूषिता अङ्गणस्य वेदयः परिष्कृताश्चतुरखा भूमयो येषु तथा तैः । पुनः कीदृशैः सोधैः ? माणिक्यजालकान् = मणिखचितगवाक्षान्, कलयद्भिः = दधानैः, कीदृशान् माणिक्यजालकान् ? विचित्रमयूखजालक मुचः - विचित्रा विविधा ये मयूखाः किरणास्तेषां जालकं समूहं मुञ्चन्तीति तथा तान्, गवाक्षवृन्ददम्भेषु जालं मत्स्यादिबन्धने । ” इति शास्वतः, जालशब्दात्के जालकान् । कीदृशानिव माणिक्यजालकान् ? अथान्तकालागुरु० =अथान्तः पुनः पुनः प्रक्षेपणाद् विरामरहितः कालागुरुधूपस्य यो धूमस्तस्याश्लेषभयेन संबन्धभयेन पलायमाना या दन्तवलभयछदिराधारभूता हस्तिदन्तमया वक्रदारवस्तासां भित्तिचित्रानिव भित्तिषु प्रतिविम्वतया दृश्यमानविचित्रवर्णानिव । वलभी छदिराधारः " इत्यभिधान चिन्तामणिः । पुनः कीदृशैः सौधैः ? अद्भुताकारैः अद्भुत आकारोरा येषां ते तथा तैः । पुनः कीदृशैः ? अनेक भूमिका भ्राजिष्णुभिः = अनेका या भूमिका गर्भगृहास्ताभिर्भ्राजिष्णुभिर्दीप्तिशीलैः । अतिशयोक्तिः, रूपकम्, उत्प्रेक्षा च । एषां संकरः ॥ ॥
(*
86
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
प्रतिगृहं स्वच्छधवलायताभिर्दृष्टिभिरिव दिदृक्ष। रसेन वसुधया व्यापारिताभिः क्रीडासरसीभिः संवलिता[ए],मृदुपवनचलितमृद्वीका लतावलयेषु वियति विलसतामगुरुधूपधूमयोनीनामासारवारिणेवोपसिच्यमानेष्वतिनीलसुरभिषु गृहोपवनेषु वनितासखैः विला सिभिरनुभूयमानमधुपानोत्सव [],
5 विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकम् 5 मृद्वीका - द्राक्षा | धूमयोनिः - मेघः ॥ ऐ ॥
श्रीमत्पद्मसागरविवुधरचिता व्याख्या फ
पुनरयोध्या कथंभूता संवलिता सं सम्यग् ' वलि वह्नि धारण' इति धातोवलिता व्याप्ता, काभिः क्रीडासरसीभिः केलिसरोवरैरित्यर्थः । इवोत्प्रेक्ष्यते, दृष्टिभिर्लोचनैः कथंभूताभिर्वसुधया पृथ्व्या व्यापारिताभिः, केन दिक्षारसेन द्रष्टुमिच्छा दिदृक्षा तद्रसेन, कथं प्रतिगृहं प्रतिमन्दिरमित्यर्थोऽयं भावः प्रतिमन्दिरस्थितसरसीछलेन जाने पृथ्व्या नगरदर्शनवाञ्छया दृष्टयः संचारिता इति । अथ सरसीदृष्टयोः साम्यं दर्शयति कथंभूताभिः सरसीभिर्दृष्टिभिश्च स्वच्छधवलायताभिः स्वच्छो निर्मलो धवलः श्वेत आयतो विस्तारो यासां तास्तथा ताभिरति ॥ ए ॥ पुनः कथंभूताऽयोध्या, अनुभूयमानमधुपानोत्सवाऽनुभूयमानो मधुपानस्योत्सवो यस्यां सा तथा कैर्विलासिभि भौगिभिः, कथंभूतैर्वनितासखैः, स्त्रीसहितैः केष्वतिनीलसुरभिगृहोपवनेषु गृहासन्नानि वनानि गृहोपवनानि नीलानि च सुरभीणि च तानि गृहोपवनानि च तानि तथा तेषु, नीलत्वमेवैतेषां द्रढयति, कथंभूतेषु गृहोपवनेषूपसिच्यमाने, केनाssसारवारिणा वेगवर्षिणा जलेन, कथमिवोत्प्रेक्ष्यते, वियत्याकाशे स्थितत्वेन विलसन्तो ये सितागुरुधूपाः कृष्ण गुरुधूपास्त एव धूमयोनयो मेघास्तेषामिति । " धूमज्योतिः सलिलमरुता संनिपातः क्व मेघ " इति वचनाद्भूमयोनिरिति मेघनाम संभाव्यते । अथा[न्या ] ऽर्थासंगतेरिति, अयं भावो नगरे किल दह्यमानकृष्णागुरुधूपधूमा गगनगताः सन्तो वेगवृष्टिमन्तो मेघा इव भान्ति तेनेत्थमुत्प्रेक्ष्यते, एतेषां वारिणोपसिच्यमानत्वेनैतानि वनानि नीलानि सन्तीति तात्पर्यम् । पुनरुपवनेषु कथंभूतेषु मृदुपवनेति, मृदुना पवनेन वायुना चलितानि कम्पितानि मृद्वीकालतानां द्राक्षावलीनां वलयानि येषु ते तथा तेष्विति ॥ ५ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः
पुनः कीदृशी नगरी ? क्रीडासरसीभिः = क्रीडार्थ निर्मितैस्तडागैः, संवलिता-सहिता, कुत्र ? प्रतिगृहं - गृहे गृहे । कीदृशीभिरिव क्रीडासरसीभिः ? वसुधया - पृथिव्या, दिदृक्षारसेन = अपूर्वदर्शनाभिलाषकुतूहलेन, व्यापारिताभिः=दर्शनकार्यनियोजिताभिः दृष्टिभिरिव - लोचनैरिव, कीदृशीभिः क्रीडासरसीभिः ? कीदृशीभिश्च दृष्टिभिः ? स्वच्छधवलायताभिः=स्वच्छाभिर्निमलाभिः, धवलाभिः शुभ्राभिः, आयताभिः दीर्घाभिः कर्मधारयसमासः । स्वच्छधवलेति पर्यायशब्दत्वात् पुनरुक्तवदाभासालङ्कारोऽतिशयोक्तिश्च ॥ ५ ॥
"
पुनः कीदृशी नगरी ? विलासिभिः - विलासप्रवृत्तजूनैः, अनुभूयमानमधुपानोत्सवा-अनुभूयमानः साक्षाक्रियमाणो मधुपानस्योत्सवो महो यस्यां सा तथा । " मधुश्चैत्रदैत्येषु जीवाशाकमधुकयोः । मधु क्षीरे जले मये क्षोद्रे पुष्परसेऽपि च । ” इत्यनेकार्थसंग्रहः । कीदृशैर्विलासिभिः ? वनितासखैः- वनितानां नारीणां सखायो मित्राणि वनितासखाः " राजन्सखे: [ ७.३.१०६ ] इति समासान्तो ऽह् प्रत्ययः तैस्तथा, नारीकलितैरिति भावः । कुत्रानुभूयमानमधुपानोत्सवा नगरी ? गृहोपवनेषु गृहाणामुपवनेषु कृत्रिमवनेषु । कीदृशेषु गृहोपवनेषु ! मृदुपवन०= मृदुना कोमलेन पवनेन चलितानि कम्पितानि मृदीकानां द्राक्षाणां लतावलयानि लतामण्डलानि यत्र ते तथा तेषु । पुनः कीदृशेष्विव गृहोपवनेषु ? वियति = आकाशे, विलसतां - विलासं कुर्वताम्, शोभमानानामिति भावः, अगुरुधूपधूमयोनिनाम् - अगुरुधूपस्य ये धूमास्त एवं योनिरुत्यत्तिस्थानं येषां ते तथा तेषाम्, मेघानामित्यर्थः, तेषां धूमत उत्पत्तेरङ्गीकारात्, आसारवारिणा = धारासम्पातजलेन, सिच्यमानेष्विव क्रियमाणसेचनेष्विव, उत्प्रेक्षा । अत एव arry गृहोपवनेषु ! अतिनीलसुरभिषु - अतिशयेन नीलवर्णयुतेषु सुगन्धयुतेषु च । उपवनानां नीलत्वं सुरभित्वं च स्वाभाविकं भवति तत्रेयमुत्प्रेक्षा- अस्यां नगर्यामगुरुधूपो दह्यते, तस्य धूमो नीलः सुरभिश्व भवति, एतादृशधूमाद्यो मेघो जातः सोऽपि नीलः सुरभिश्च एतादृशमेघधारा सम्पातेने मान्युपवनानि सिच्यमानानि सन्ति, अतस्तान्यपि अतिनीलसुरभीणि जातानि अत्रोत्प्रेक्षालङ्कारोऽतिशयोक्त्या संकीर्यते ॥ ऐ ॥
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक-व्याख्या-विवृतिविभूषिता मज्जकोशलविलासिनीनितम्बास्फालनस्फारिततरङ्गया गृहीतसरलमृणालयष्टिभिः पूर्वार्णववितीर्णैः वृद्धकन्चुकिमिरिवराजहंसैः क्षणमप्यमुक्तपार्श्वया कपिलकोपानलेन्धनीकृतसगरतनयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थितयासरिता सरय्वाख्यया कृतपर्यन्तसख्या ओ],
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ) पुनः कथंभूताऽयोध्या कृतपर्यन्तसख्या कृतं परि समन्तादन्तेन सह सख्यं मैत्री यस्याः सा कृतपर्यन्तसख्या, कया मैत्री कृतेत्याह-सरितानद्या, कथंभूतया सरय्वाख्यया सरयूनाम्न्या, कथंभूतया सरय्वा नद्योपस्थितया, का भागीरथीं गङ्गाम् , किं कर्तुं प्रष्टुं प्रश्नयितुम् , कां कपिलेति, कपिलेन कपिलनाम्ना। देवेन कोपानले कोपाग्नाविन्धनीकृता ये सगरतनयाः सगरपुत्रास्तेषां स्वर्गवार्ता स्वर्गप्राप्तिवार्ता कथमिवेत्युत्प्रेक्षायाम् , अयोध्यापरिसरे किलैवंविधा सरयूनदी वहत इत्यर्थः । पुनः कथंभूतया सरय्या क्षणमपीति, क्षणमप्यमुक्तं पार्श्व समीपं यस्याः सा तया, कै राजहंसैः कथमिवोत्प्रेक्षते, इमे राजहंसा वृद्धाः कञ्चुकिपुरुषा एव सन्ति, कथमित्याह-कथंभूतै राजहंसैः, गृहीतसरलेति, गृहीता सरला मृणालरूपा यष्टियस्ते तथा तैः, पुनः कथंभूतया सरय्वा मजदिति, सुगममिति ॥ओ।
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥
पुनः कीदृशी नगरी ? सरय्वाख्यया-सरयूनाम्न्या, सरिता-नद्या सह, कृतपर्यन्तसख्यं कृतं पर्यन्ते परिसरे सख्यं मिलनरूपा मैत्री यया सा तथा तया, अयोध्यापरिसरे सरयूनाम्नी नदी वहतीत्यर्थः । कीदृश्या सरिता ? मजकोशल०-मजन्तीनां मज्जनं कुर्वन्तीनां कोशलविलासिनीनां कोशलदेशनारीणां ये नितम्बास्तेषामास्फालनेन संघटनेनास्फालितास्ताडितास्तरङ्गाः कल्लोला यस्याः, सा तथा तया, नितम्बोऽप्यपरस्तस्याः श्रोणिभागः यडिस्तथा ।” इति शास्वतः । पुनः कीदृश्या सरिता ? राजहंसैः-हंसविशेषैः, क्षणमपि-कञ्चित्कालमपि, अमुकपार्श्वया-न मुक्तं पार्वं यस्याः सा तथा तया । कीदृशैरिव राजहंसः ? वृद्धकञ्चुकिभिरिव वृद्धा गतयौवना ये कञ्चुकिनो राज्ञा स्थापिता अन्तःपुररक्षकास्तैरिव, नद्या नारीलिङ्गत्वात् तद्रक्षाकरणाय रक्षकस्थानापन्ना राजहंसा इति भावः । कीदशै राजहंसः कीदृशेश्च कञ्चुकिभिः ? गृहीतसरलमृणालयष्टिभिः गृहीता सरला मृणालरूपा पक्षे कमलनालसदृशी यष्टियस्ते तथा तैः । पुनः कीदृशैः ? पूर्वार्णववितीर्णैः पूर्वार्णवः पूर्वसमुद्रस्तेनावितीर्णैः प्रदत्तैः, पूर्वसमुद्रेण सह सम्बन्धात्पूर्वसमुद्रादायातैरिति भावः । कञ्चकिपक्षे पूर्वः पूर्वदेशः स एवार्णवो विशालत्वात्समुद्रस्तेन प्रदत्तैः पूर्वदेशात्समायातैरित्यर्थः । पुनः कीदृश्या सरिता ? भागीरथीं गङ्गाम् , उपस्थितया-मिलितया, किमर्थम् ? प्रष्टुं-प्रश्नाय, कां प्रष्टुं ? कपिलकोपानलेन्धनी-कपिलस्य । ऋषः क्रोधाग्निना इन्धनीकृता भस्मीकृता ये सगरतनयाः सगरनुपपुत्रास्तेषां स्वर्गवाती देवलोकगमनादिसमाचारम । अत्राय जैनेतररामायणलेशः-आसीदयोध्यायां सूर्यवंशीयः सगरनामा भूपः । तस्य द्वे भार्ये केशिनी सुमतिश्च । केशिन्यामेक एव पुत्रो जातोऽसमजसनामा, सुमतौतु षष्ठिः सहस्राणि पुत्रा अभूवन् । अथ कृतनवनवतियज्ञ आरब्धशततमाश्वमेघाख्ययज्ञः सगरोऽश्वरक्षणाय निजतनयान् निरयुक्त। ततः स्वपदापहारशङ्कितेनेन्द्रेण सोऽश्वोऽपहत्य कपिलाश्रमे मुक्तः। अन्यत्राश्वमनवलोकमानाः सगरतनयाः नखाप्रैः पृथिवों विदार्य पातालस्थं कपिलाश्रम गताः तत्राश्वं मुद्रिताननं कपिलं च विलोक्य कटु क्वणन्तः कपिलकोपानले शलभायन्ते स्म। इमे च मृताः सगरतनया असमञ्जपुत्रांशुमत्पुत्र दिलीपपुत्रभगीरथानीतगंगया पावित्र्यमापाद्य दिवं गमिताः । अत्र पूर्णोपमोत्प्रेक्षारूपकातिशयोक्तीनां संकरः । ॥ ओ॥
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] सततगृहव्यापारनिषण्णमानसाभिनिसर्गतो गुरुवचनानुरागिणीभिरनुल्वणोज्ज्वलवेपाभिः स्वकुलाचारकौशलशालिनीभिः शालीनतया सुकुमारतया च कुचकुम्भयोरपि कदर्थ्यमानाभिरुद्धत्या मणिभूषणानामपि खिद्यमानाभिर्मुखरतया रतेष्वपि ताम्यन्तीभिः वैयात्यपरिग्रहेण स्वप्नेऽप्यलड्डयन्तीमिारतोरण
विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् + अनुल्वणः अनुभूटः। शालीनता-कुलीनता सलज्जता च । उद्धत्या-उद्धतत्वेन । वैयात्यंधृष्टता । असतीव्रताभिः सह तीव्रतया वर्तन्ते यास्ताः सतीव्रता न तथा असतीव्रतास्ताभिः, तीक्ष्णत्वरहिताभिरितिविरोधपरिहारो विरोधस्तु स्वयमेवोद्भाव्यः।कृतकुसंगाभिः विहितपृथ्वीसंबन्धाभिः,चरणोर्न स्वभावे-प्रकृतौ कृतकुत्सितसंबन्धाभिः॥औ॥
॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ पुनः कथंभूताऽयोध्याऽलङ्कता भूषिता, काभिर्वधूभिः, कथंभूताभिः सततेति, सततं निरन्तरं गृहव्यापारे निषण्णं स्थितं मानसं यासांतास्तथा ताभिः, पुनः कथंभूताभिस्ताभिनिसर्गत इति, निसर्गतः स्वभावेन गुरुवचनेष्याराध्यवचनेष्वनुरागोऽस्त्यासामिति तास्तथा ताभिः, पुनः कथंभूताभिरनुल्वणेति, अनुल्वणोऽनकटः स्वजात्यचित उज्ज्वलः श्वेतो वेषो यास तास्तथा ताभिः, श्वेतवेषस्तु नवपरिणीतत्वात्तासामिति । पन: कथंभूताभिर्वधूभिः स्वकुलाचारेति, स्वकुलस्य य आचारः स्वकुलाचारस्तत्र यत्कौशलं नैपुण्यं तेन कृत्वा शालिनीभिमनोज्ञाभिः । पुनः कथंभूताभिवधूभिः शालीनेति, शालीनतयाऽधृष्टतया, चः पुनरर्थे, सुकुमारतया कचकम्भयोरपि कदर्थ्यमानाभिरिति भोगीभिस्तत्रापाद्यमानकदर्थनाभिरित्यर्थः । पुनः कथंभूताभिर्वधूभिरुद्धृत्येति, मणिभूषणानामुदत्या, उदूचं ग्रीवादी धरणेन भूयोभारात् खिद्यमानाभिः । पुनः कथंभूताभिस्ताभिस्ताम्यन्तीभिरिति, रतेष्वपि मैथुनेष्वपि नवत्वेन मुखरतया वाचालतया ताम्यन्तीभिः क्लेश्यमानाभिः, पुनः कथंभूताभिर्वधभिर्वयात्येति. वि विशेषेण याति सन्मार्गमिति वैयात्यं ब्रह्म तत्परिग्रहेण तत्स्वीकारेण स्वप्नेऽपि निद्रायामपि द्वारतोरणमलनयन्तीमिस्तदनुलनेन बहिरगच्छन्तीभिः ।
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? कुलप्रसूताभिः उत्तमकुलोत्पन्नाभिः, वधूभिः नवपरिणीतनारीभिः, अलकृता-सुशोभिता। कीदृशीभिर्वधभिः ? सततगृहव्यापारनिषण्णमानसाभिः सततं निरन्तरं गृहस्य व्यापारेषु कार्येष निषण्णं लीनं मानसं मनो यासां तास्तथा ताभिः । पुनः कीदृशीभिवेधूभिः ? निसर्गतः-स्वभावतः, गुरुवचनानरागिणीभिः गुरूणां महतां वचनेषु अनुरागोऽत्यन्तं प्रीतिरस्त्यासामिति तास्तथा ताभिः । पुनः कीदृशीभिर्वधभिः? अनुल्वणोज्ज्वलवेषाभिः-अनुल्वणोऽनुद्भटः स्वकुलाचारोचित उज्ज्वलो विशदश्च वेषो यासां तास्तथा ताभिः । पुनः कीदृशीभिः ? स्वकुलाचारकौशलशालिनीभिः स्वकुलस्याचारे यत् कौशलं निपुणता तेन शालन्ते श्लाघावन्त्यो भवन्तीत्येवंशीलास्तास्तथा ताभिः । पुनः कीदृशीभिः? शालीनतया-कुलीनतया लज्जालुतया च, सुकुमारतया-सुकुमालतया, चाम्समुच्चये, कुचकुम्भयोरपि-कलशाकारस्तनयुगलस्यापि, उद्धत्या-उच्चत्वेन महत्त्वेन वा, कदर्थ्यमानाभिः= पीड्यमानाभिः, पीनोच्चस्तनवहने सुकुमालतया पीनत्वप्रयुक्तं लज्जालुतया लोकदृश्यमानोच्चत्वप्रयुक्तं च दुःखं दधानाभिरित्यर्थः, अपिशब्देनात्यन्त सुकुमारत्वं सूच्यते । स्वभावे लज्जालुता स्तनयोः स्थूलता शेषावयवेषु च सुकुमारतेति भावः । पुनः कीदृशीभिवधूभिः ? मणिभूषणानामपि-मणिखचितालङ्काराणामपि आस्तामन्येषाम् , मुखरतया परस्परस्फालनेन वाचालतया, खिद्यमानाभिः खेदं वहमानाभिः, एतेन मणिभूषणधारणमवाचालत्वं च सूच्यते । पुनः कीदृशीभिर्वधूभिः ? रतेष्वपि-मैथुनक्रियास्वपि, आस्तामन्यत्र, वैयात्यपरिग्रहेण= निर्लजताङ्गीकारेण, निर्लज्जतामन्तरेण मैथुनक्रियानुपपत्तेः, ताम्यन्तीभिः खिद्यमानाभिः । एतेनात्यन्तं लजालत सुचिता । पुनः कीदृशीभिः ? स्वप्नेऽपि-निद्रावस्थायामपि, आस्तां जागरणे, द्वारतोरणं-स्वगृहद्वारबहिर्भागम्, अलजयन्तीभिालनमकुर्वन्तीभिः । परपुरुषं मनसापि नेच्छन्तीभिरिति भावः। अत्र रूपकोत्प्रेक्षातिशयोक्तिकाव्यलिङ्गानां संसृष्टिः।
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक-व्याख्या-विवृतिविभूषिता मङ्गीकृतसतीव्रताभिरप्यसतीव्रताभिरलसाभिनितम्बमारवहने तुच्छाभिरुदरे तरलामिश्चक्षुषि कुटिलाभिर्भुवोरतृप्ताभिरङ्गशोभायामुद्धताभिस्तारुण्ये कृतकुसङ्गाभिश्चरणयोर्न स्वभावे कोपेऽ प्यदृष्टमुखविकाराभिःळलीकेऽप्यनुज्झितविनयाभिः खेदेऽप्यखण्डितोचितपतिपत्तिभिः कलहेड प्यनिष्ठुरभाषिणीभिः सकलपुरुषार्थसिद्धिभिरिव शरीरबद्धाभिः कुलप्रसूताभिरलंकृता वधूमिः। [ औ],
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या पुनः कथंभूताभिरङ्गीकृतेति, अत्र विरोधालङ्कारमाहाऽङ्गीकृतं सत्याः शीलवत्या वत याभिस्तास्तथा ताभिरेवंविधाभिरप्यसतीव्रताभिरिति विरोधस्तत्परिहारस्तु सह तीव्रया कार्कइयेन वर्तन्ते यास्ताः सतीव्रता न सतीव्रता असतीव्रतास्ताभिरसतीनताभिरित्यर्थः। पुनः कथभूताभिर्वधूभिरलसेति, नितम्बरबहनेन नितम्बप्रौढ्या आलस्यवतीभिरित्यर्थः । पुनः कथंभूताभिवधूभिस्तुच्छेति, मुष्टिग्राह्यमध्यत्वात् तुच्छोदराभिरित्यर्थः । पुनः कथंभूताभिरतृप्तेति, शरीरशोभायां तृप्तिरहिताभिः । पुनः कथंभूताभिस्ताभिरुद्धतेति, यौवनोद्धताभिरित्यर्थः । पुनः कथंभूताभिस्ताभिः कृतेति, चरणयोः पादयोः कृतः कु कुत्सितेनाऽलक्तकादिना सङ्गो याभिस्तास्तथा ताभिने तु स्वभावे, उत्तमस्वभावत्वात्तासामिति । पुनः कथंभूताभिस्ताभिः कोपेऽपीति, कोपेऽप्यविकृतमुखाभिस्तासां कोपस्य बहिरदर्शनात् । पुनः कथंभूताभियंलीकेऽपीति, व्यसनेऽप्यमुक्तविनयाभिरित्यर्थः । पुनः कथंभूताभिः खेदेऽपीति, खेदेऽपिविषादेऽप्यखण्डितोचितप्रतिपत्तिाभिस्तास्तथा ताभिः । पुनः कथंभूताभिस्ताभिः कलहेऽपीति, राट्यवसरेऽप्यकर्कश वचनवादिनीभिरित्यर्थः । पुनः कथंभूताभिस्ताभिः सकलेति, इवोत्प्रेक्ष्यते शरीरबद्धाभिमूतिमतीभिः समस्तपुरुषार्थसिद्धिभिरित्यर्थः पुनः कथंभूताभिः कुलप्रसूताभिरुत्तमकुलोत्पन्नाभिरेवंविधाभिवधूभिरलङ्कृताऽयोध्येति ॥ औ ॥
श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ पुनः कीदृशीभिवधूभिः ? अङ्गीकृतसतीव्रताभिरपि अङ्गीकृतं सतीव्रतं शीलवतो धर्मो याभिस्तास्तथा ताभिरपि, असतीव्रताभिन्न विद्यते सतीनतं यासां तास्तथा ताभिरिति विरोधः, तत्परिहारश्च न सह तीव्रतया अत्यग्रतया वर्तन्त इति तथा ताभिरिति । अत्र विरोधाभासालङ्कारः । नितम्बभरवहने नितम्बस्य " नितम्बोऽप्यपरस्तस्याः श्रोणिभागस्तथा कटिः” इत्युक्तस्य यो भरो भारस्तद्वहने, नान्यत्र गृहकार्याहौ, अलसाभिः-मन्दाभिः । एतेन नितम्बविपूलता दर्शिता, सा च नारीणां भूषणम् । पुनः कीदृशीभिः ? उदरे-कुक्षौ, न तु स्वभावादी, तुच्छाभिः-मुष्टिग्राह्यत्वादुदरस्य कृशाभिः, एतेन कृशोदरीता सूचिता, सा च भूषणम् । पुनः कीदृशीभिर्वधूभिः ? चक्षषि-नेत्रे, न तु स्वभावादी, तरलाभिः-चञ्चलाभिः, एतेन नयनचञ्चलता ज्ञापिता, सा च नारीणां भूषणम् । पुनः कीदृशीभिर्वधूभिः ? भ्रवो नेत्रोस्थरोमराज्योः, न पु स्वभावादौ, कुटिलाभिः वक्राभिः, एतेन ध्रुवोः कुटिलता ज्ञापिता, सा च भूषणम् । पुनः कीदृशीभिर्वधूभिः ? अङ्गशोभायां-शरीरशोभाकरणे, न तु भोजनादौ, अतप्ताभिः-तृप्तिरहिताभिः । एतेन वधूत्वात् शरीरशोभाकरणतत्परता सूचिता। पुनः कीदृशीभिर्वधूभिः ? तारुण्ये यौवने, न तु गुरुजनानामग्रे वर्तनविधौ, उद्धताभिः अविनीताभिः, एतेन यौवनं दर्शितम् , तच्चोतं भवति, यदुक्तं"यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता । प्रत्येकमप्यनर्थाय किमुत यत्र चतुष्टयम् ॥ इति । अत्र नितम्बवर्णनादारभ्य यौवनवर्णनपर्यन्तमार्थी परिसंख्याऽलङ्कारः । पुनः कीदृशीभिर्वधूभिः १ चरणयोः पादयोः, कृतकुसंगाभिः कृतः कोः पृथिव्याः संगो याभिस्तास्तथा ताभिः, न स्वभावे-प्रकृतौ कृतः कुसंगो दुष्टजनसम्बधो याभिस्तास्तथा ताभिः । अत्रशाब्दी अप्रश्नपूर्विका परिसंख्याऽलङ्कारः । पुनः कीदृशीभिः ? कोपेऽपि%3D क्रोधदशायामपि, अदृष्टमुखविकाराभिः-न दृष्टो मुखविकारो यासां तास्तथा ताभिः, व्यलीकेऽपि-केनापि महता अप्रिये असत्ये वा प्रोक्तेऽपि, अनुज्झितविनयाभिः=न उज्झितस्त्यक्तो विनयो याभिस्तास्तथा ताभिः, खेदऽपि-परिश्रमेऽपि शोकेऽपि वा, अखण्डितोचितप्रतिपत्तिभिः न खण्डिता उचितानां योग्यानां महतां प्रतिपत्तिः सन्कारादिगौरवं याभिस्तास्तथा ताभिः कलहेऽपि-वचनयुद्धेऽपि, अनिष्ठुरभाषिणीभिः-न निष्ठुरं कठोरं भाषन्त इत्येवंशीलाभिः, शरीरबद्धाभिः शरीरयुक्ताभिः, सकलपुरुषार्थसिद्धिभिरिव= धमार्थकाममोक्षरूपपुरुषार्थसम्पत्तिभिरिव । अत्रोत्प्रेक्षालङ्कारः ॥ औ॥
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
तिलकमञ्जरी ] इतराभिरपि त्रिभुवनपताकायमानाभिः कुवेरपुरपण्याङ्गनाभिरिव कृतपुण्यजनोचिताभिः पादशोभयाऽपि न्यक्कृतपद्माभिरूश्रियाऽपि लघूकृतरम्भास्तम्भाभि¥र्यापि च्छायया सौभाग्य
विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ इतराभिरपि त्रिभुवनपताकायमानाभिः, यदीतराः सामान्याः कथं त्रिभुवनपताकायमाना इति विरोधः, विरोधपरिहारे तु इतराभिः अन्याभिः । कृतपुण्यजनोचिताभिः एकत्र कृतं पुण्यं शुभकर्म यैस्ते तथोक्तास्ते च ते जनाश्च कृतपुण्यजनास्तेषामुचिता योग्या, अन्यत्र पुण्यजना यक्षाः कृतं पुण्यजनानामुचितमनुरूपं यकाभिस्तास्तथोक्तास्ताभिः, न्यक्कृतपद्माभिः, पद्म-कमलं पद्मा लक्ष्मीः । लघुकृतरम्भास्तम्भाभिः तिरस्कृतकदलीस्तम्भाभिरपनीतरम्भाप्सरोदप्पामिश्च । गौर्यापि-सुवर्णवर्णया भवान्यापि ।
श्रीमत्पद्मसागरविबुधरचिता व्याख्या + पुनः कथंभूताऽयोध्या वितीर्णत्रिभुवनजिगीषुकुसुमसायकसाहायका, वितीर्णो विस्तारितस्त्रिभुवनं जिगीषुर्जेतुमिच्छुः कुसुमसायकः कन्दर्पः साहायकः सखा यस्यां सा तथा । ननु काभिः कन्दर्पो विस्तारित इत्याहविलासिनीभिः साधारणस्त्रीभिः, कथंभूताभिर्विलासिनीभिस्त्रिभुवनेति, त्रिजगत्युत्तमाभिः । पुनः कथंभूताभिर्विलासिनीभिः कृतपुण्यजनोचितेति, कृतं पुण्यं यैस्ते तथैवंविधा जना लोकास्तेषां योग्याभिः । अत्र दृष्टान्तमाह कुबेरेति, यथा कुबेरपुरस्य धनदपुरस्य पण्याङ्गनाः साधारणस्त्रियः । कृतेति, कृतं निर्मितं पुण्यजनानां यक्षाणामुचितं याभिस्तास्तथैता अपि सन्तीति तर्दृष्टान्तेन विलासिनीविशेषणमिदम् , पुनः कथंभूताभिर्विलासिनीभिः पादेति, पादशोभया रक्तत्वसौकुमार्यादिरूपया न्यक्कृतं पद्म कमलं याभिस्तास्तथा ताभिः । व्याथार्थत्वे तु पादशोभयाऽपि चरणशोभयापि न्यक्कृता तिरस्कृता पद्मा याभिस्तास्तथा तामिर्लक्ष्मीतोऽप्येतासां चरणशोभाऽधिकेति भावः । पुनः कथंभूताभिस्ताभिरुश्रियेति, ऊर्वोः शोभया लघूकृतो रम्भास्तम्भः कदलीस्तम्भो याभिस्तास्तथा ताभिः । पुनः कथंभूताभिस्ताभिर्याऽपीति, गौर्या पार्वत्या, छाययेति, छायामिषेण, सौभाग्यहेतोः सौभाग्यार्थमुपासिताभिः सेविताभिः ।
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? विलासिनीभिः विलासप्रधाननारीभिः, वैश्याभिरित्यर्थः । वितीर्णत्रिभुवनविजिगीषुकुमुमसायकसाहायका-वितीर्णं दत्तं त्रिभुदनविजिगीषोर्भुवनत्रयजयाभिलाषुकस्य कुसुमसायकस्य कामस्य साहायक सहायता यया सा तथा । कीदृशीभिर्विलासिनीभिः ? इतराभिरपि त्रिभुवनपताकायमानाभिः, इतराभिरपि पामराभिरपि, त्रिभुवनपताकायमानाभिः त्रिभुवने भुवनत्रये पताकायमानाभिजायमानाभिः, याः पामरास्ताः कथं त्रिभुवने पताकायमानाः स्युरिति विरोधः, तत्परिहारे, इतराभिः अन्याभिः कुलवधूभिन्नाभिरित्यर्थः । “ इतरः पामरेऽन्यस्मिन्" इति शास्वतः । अत्र विरोधाभासालङ्कारः । पुनः कीदृशीभिः ? कुबेरपुरपण्याङ्गनाभिरिव-कुबेरपुरस्य यक्षराजनगरस्य अलकापुर्या इत्यर्थः, पण्याङ्गनाभिरिव वेश्याभिरिव, कृतपुण्यजनोचिताभिः कृतं पुण्यं शुभकर्म यैस्तेषामुचिताभिोग्याभिः, पक्षे कृतं पुण्यजनानां यक्षाणामुचितं योग्यं याभिस्तास्तथा ताभिः “यक्षः पुण्यजनः" इत्यभिधानचिन्तामणिः । अत्र पूर्णोपमालङ्कारः। पुनः कीदृशीभिः ? पादशोभयापि-पादयोश्चरणयोः शोभयापि आस्तामन्येषामवयवानां नयनकरादीनाम् , न्यक्कृतपद्माभिः न्यक्कृतं तिरस्कृतं पद्मं कमलं याभिस्तास्तथा ताभिः, यद्वा पादशोभयापि-पादश्चतुथांशस्तन्मितयापि शोभया, आस्तां सम्पूर्णया, न्यक्कृतपद्माभिः न्यक्कृता तिरस्कृता पद्मा लक्ष्मीर्याभिस्तास्तथा ताभिः । कमलतोऽप्यधिका या पादशोभा लक्ष्मीतोऽप्यधिका वा या शोभा तां दधानाभिरित्यर्थः । अत्र काव्यलिङ्गातिशयोक्त्यलंकारौ । पुनः कीदृशीभिः ? अरुधियापि-ऊर्वोः जानूपरिभागयोः श्रियापि शोभयापि, लघुकृतरम्भास्तम्भाभिः लघुकृतोऽधरीकृतो रम्भास्तम्भः कदलीकाष्ठमप्सरोगौं वा याभिस्तास्तथा ताभिः । पुनः कीदृशीभिः ? गौर्यापिगौरवर्णयापि पार्वत्यापि वा, छायया कान्त्या, सौभाग्यहेतोः सौभाग्यार्थम् , उपासिताभिः सेविताभिः, आश्रिताभिरित्यर्थः। अतिगौरवर्णाभिरिति भावः । अन काव्यलिङ्गातिशयोक्त्यलंकारौ ।
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७२
[ टिप्पनक-व्याख्या-विवृतिविभूषिता हेतोरुपासिताभिरिन्दुनापि प्रतिदिनं प्रतिपन्नकलान्तरेण प्रार्ध्यमानमुखकमलकान्तिभिर्मकरध्वजे नापि दर्शिताधिना लब्धहृदयप्रवेशमहोत्सवाभिरप्रयुक्त योगाभिरेकावयवप्रकटाननमरुतामपि गतिं स्तम्भयन्तीभिरव्यापारितमन्त्राभिः सकृदाद्दानेन नरेन्द्राणामपि सर्वस्वमाकर्षयन्तीभिर5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् प्रतिपन्नकलान्तरेण=अभ्युपगतव्याजेन, अन्यत्र अवाप्तान्यान्यषोडशभागेन । दर्शिताधिना, आधिर्मानसी पीडा । 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या क
पुनः कथंभूताभिस्ताभिरिन्दुनाऽपीति, इन्दुना चन्द्रणे प्रतिदिनं प्रतिदिवस प्रतिपन्नमेकस्याः कलाया अन्या कला कलान्तरं येन स तथा तेन, भिन्नां भिन्नां कलां कृत्वेत्यर्थः, प्रार्थ्यमानमुखकमलकान्तिर्यासां तास्तथा ताभिः । पुनः कथंभूताभिस्ताभिर्मकरध्वजेति, दर्शित आधिर्मनः पीडा येन स तथा तेन, मकरध्वजेनाऽपि कन्दर्पणाऽपि लब्धः प्राप्तो हृदये प्रवेशरूपो महोत्सवी यासां तास्तथा ताभिः । पुनः कथंभूताभिर्विलासिनीभिः, अप्रयुक्तोऽनिर्मितो योगः पाणिग्रहणस्य सम्बन्धो याभिस्तास्तथा ताभिस्तासां केनाऽप्यपरिणीतत्वात् । पुनः कथंभूताभिरेकावयवेति - एकस्य स्तनादेवयवर व प्रकटनेन प्रकाशनेन मरुतामपि देवानामपि गति स्तम्भयन्तीभिः स्वलयन्तीभिरित्यर्थस्तासां येकाव यवदर्शनाक्षिप्ता देवाः कार्यविशेषेण यान्तोऽपि तासां पुरस्तिष्ठन्तीति भावः । पुनः कथंभूताभिस्ताभिरव्यापारितेतिअप्रकाशनेनाऽव्यापारितो मन्त्रो गुह्यं याभिस्तास्तथा ताभिः । पुनः कथंभूताभिस्तभिः सकृदाह्रानेति - सकृदेकवारमाहानेनाssकारणेन नरेन्द्राणामपि सर्वस्वं सर्वधनमाकर्षयन्तीभिरेकवारामन्त्रिता हि नरेन्द्रास्तासां मन्दिरे गत्वा व्यामोहिताः सन्तः सर्वस्वमर्पयन्तीति भावः । नत्वेतासां वशीकरणे किंचिदोषध्यादि भविष्यतीत्याशङ्कामपाकर्तुमाह, कथंभूताभिस्ता+ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
पुनः कीदृशीभिः ? प्रतिदिनं दिने दिने प्रतिपन्नकलान्तरेण= मूलधनस्यापरा कला कलान्तरं यलोके 'व्याज' इति कथ्यते, वृद्धिः कलान्तरमिति हैमः, यद्वा कला चन्द्रमण्डलस्य षोडशांश:, पूर्वकलापेक्षया अन्या कला कलान्तरम्, प्रतिपन्नं स्वीकृतं कलान्तरं मूलधनवृधिरूपं स्वमण्डलषोडशांशरूपं च येन स तथा तेन इन्दुना = चन्द्रेण, प्रार्थ्यमान मुखकमलकान्तिभिः = प्रार्थ्यमाना मुखकमलस्य कान्तिर्यासां तास्तथा ताभिः । अयं भावः, यथा कश्चिद्धनेच्छुर्धनिकस्य पार्श्वे कलान्तर[ व्याज ] स्वीकारेण धनं प्रार्थयते तथा कान्तिरूपधनेच्छुश्चन्द्रो धनिकस्थानापन्न विलासिनीनामग्रे कलान्तरस्वीकारेण धनस्थानापन्नमुखकान्ति प्रार्थयते । प्रचुरमुखकमलकान्तियुक्ताभिरिति भावः, अत्र रूपकातिशयोत्तयलंकारौ । पुनः कीदृशीभिः ? दर्शिताधिना -दर्शित आधिर्मानसी पीडा येन स तथा तेन, मकरध्वजेनापि कामेनापि, लब्धहृदयप्रवेशमहोत्सवाभिः - लब्धः प्राप्तो हृदयप्रवेशस्य महोत्सवो यासां तास्तथा ताभिः । अयं भावः- आसां विलासिनीनां हृदये प्रवेशो जनानामतीव दुर्लभः, यतः कामेनापि प्रथमं वासनादिरूपा मनोव्यथा दर्शिता ततो हृदयप्रवेशो लब्ध इति, हार्दिकानुरागमकुर्वन्तीभिर्गुढहृदयाभिर्वेति फलितोऽर्थः । अत्र पर्यायोक्तमलंकारः । पुनः कीदृशीभिः ? अप्रयुक्तयोगाभिरपि = न प्रयुक्तो योगो योगिजनस्य योगक्रिया याभिस्तास्तथा ताभिरपि, एकावयवप्रकटनेन - एकावयवानां समानशरीरविभागानां प्रकटनेन प्रकाशनेन निश्चलताकरणेनेत्यर्थः, मरुतां वायुनाम्, गतिं गमनम् स्तम्भयन्तीभिः= निरोधयन्तीभिः, योगाभ्यासमन्तरेण वायुनिरोधो न सम्भवतीति विरोधः, तत्परिहारे अप्रयुक्तयोगाभिः न प्रयुक्तो योगः पाणिग्रहणस्य सम्बन्धो याभिस्तास्तथा ताभिः, एकावयवप्रकटनेन - एकावयवस्य स्तनादे: प्रकाशनेन, मरुतामपि देवानामपि, आस्तामितरेषाम्, गतिं गमनम्, स्तम्भयन्तीभिः = निवारयन्तीभिः, देवा अपि यत्स्तनादिसौदर्ये विलोक्य स्थिरा भवन्तीति भावः, अतिसुन्दरीभिरिति फलितोऽर्थः । अत्र विरोधाभासालंकारोऽतिशयोक्त्या संकीर्यते । पुनः कीदृशीभिः ? अव्यापारितमन्त्राभिरपि न व्यापारितः प्रयुक्तो मन्त्रो याभिस्तास्तथा ताभिरपि, सकृद् एकवारम्, आह्वानेन आकारणेन, नरेन्द्राणां - मन्त्रेण सर्पादिविषवारणपटूनां वैद्यानाम्, सर्वस्वं विषवारणलभ्यं सकलधनम्, आकर्षयन्तीभिः = गृह्णन्तीभिः, मन्त्रप्रयोगमन्तरेण मान्त्रिकलभ्यं धनं न लभ्यते इति विरोधस्तत्परिहारे-अव्यापारितमन्त्राभिः = न व्यापारितः कृतो मन्त्रो गुप्तभाषणं याभिस्तास्तथा ताभिः वेश्याजनत्वेन प्रकटभाषित्वादित्यर्थः । नरेन्द्राणामपि - राज्ञामपि, आस्तामितरेषाम्, सर्वस्वं सकलधनम् । सकृदाहूता राजानो मोहिताः सन्तः सर्वस्वं समर्पयन्तीति भावः । अत्यन्तं मोहोत्पादिकाभिरित्यर्थः । अत्र विरोधाभासालङ्कारः । पुनः
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
धातु रत्नाकर भाग
$€€€€€€€€€€€€€€€€€€€€€€€® श्रीविजयनेमिसरि-ग्रन्थमालाया लभ्या ग्रन्थाः
35
35
33
39
35
39
25
23
35
१
२
४
५.
६
७
www.kobatirth.org
29
29
सिद्धमदीपिका [ अष्टाध्यायमयी ]
सिद्धहेमदीपिकाप्रकाश-प्रथमभागः
तत्त्वार्थत्रिसूत्री- प्रकाशिका
प्रथम कर्मग्रन्थ, पद्यानुवाद-विवेचन-कोष्टकादि-विभूषित. चैत्यवन्दनभाष्य छन्दोबद्धभाषानुवाद
स्याद्यन्तरत्नाकर ( साधनिकादिसहित शब्दरूपसागर )...
तिलकमञ्जरी टीकात्रयोपेता प्रथमांशः
जिनसंगीतसरिता (नोटेशनयुक्त तथा स्नात्रयुक्त )
सरस्वती पुस्तक मंडार रतनपोळ, हाथीखाना अमदावाद.
मुद्रयमाणग्रन्थाः
१ सिद्धहेमशब्दानुशासनं बृहद्वृत्तिबृहन्न्यासलघुन्यासादिसंवलितम् । २ तिलकमञ्जरी टीकात्रयोपेता ।
३ नयरहस्य-प्रकरणं प्रमोदाविवृतिविभूषितम् ।
४ सप्तभङ्गीनयप्रदीपप्रकरणं बालबोधिनीविवृतिसंकलितम् ।
५. अनेकान्तव्यवस्थाप्रकरणं तत्त्ववोधिनीविवृतिसहितम् ।
श्री क्रीश्ना प्रिन्टरी : रतनपोळ : अमदावाद.
Acharya Shri Kailassagarsuri Gyanmandir
प्राप्तिस्थानम्
५-०-०
For Private And Personal Use Only
४-०
710
४-०-०
२-८–०
५-५-० (107
२-०-०
०-१४-० (100)
४-८-०
०-६-०
OWD
०-८-०
१-४-० 007
०-१२-०
गुर्जरग्रन्थरत्न कार्यालय. गांधी रस्तो, अमदावाद.
०-१२-०
C••••••••••••••••••••••••