SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी] स्पष्टभावरसा चित्रैः, पदन्यासैः पर्तिता । नाटकेषु नटस्त्रीव, भारती भवभूतिना ॥३०॥ [ पथ्यावृत्तम् ] ॥ दृष्ट्वा वाक्पतिराजस्य, शक्तिं गौडवघोद्धराम् । बुद्धिः साध्वसरुदेव वाचं न प्रतिपद्यते ॥३१॥ [ पथ्यावृत्तम् ॥ 9 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ प्रतिता प्रकर्षेण नर्त्तनं कारिता विस्फारितेत्यर्थः, का ? भारती-वाणी, केन ? भवभूतिना कविना, केषु ? नाटकेषु-वीरचरित्रोत्तरचरित्रादिषु, कथंभूताः ? स्पष्टभावरसा व्यक्तशोकादिभावशृंगारादिरसा, कैः प्रतिता ? पदन्यासैः-सुबन्ततिङन्तपदरचनाभिः, किंभूतैः ? चित्र नानारूपैः समासादिभेदेन, केव ? नटस्त्रीव-भरतभार्येव, यथा नटी नटेन प्रनय॑ते, कैः ? पदन्यासैः पादनिक्षेपैः, कीदृशैः ? चित्रैः-जनाश्चर्यकारिभिरनेकप्रकारैर्वा, कीदृशी ? स्पष्टभावरसा स्पष्टभावा व्यक्तस्वररूपा रसाः शृङ्गारादयो यस्याः सा तथोक्ता, भावरसा च अभिप्रायाग्रहो (2) नर्तने यस्याः सा तथोक्ता, यद्वा पूर्ववद्वयाख्या ॥३०॥ बुद्धिः मतिः, न प्रतिपद्यते-न गृह्णाति न स्वीकरोति, कां ? वाचं-वचनं काव्यकरणे न प्रवर्तते, कथंभूतेव ? साध्वसरुद्धव-भयनिषिद्धेव, किं कृत्वा ? दृष्ट्वा अवलोक्य, का ? शक्ति-सामर्थ्यम् , कस्य ? वाक्पतिराजस्य-बृहस्पतिराजस्य, किंभूतां ? गौडवधोद्धरां-गौडवधो नामातिशायिगाथाकोशकाव्यशास्त्र तत्र उद्धरामुद्भटामन्यत्र वाक्पतिराजस्य-जयवर्मराजस्य (जयवर्मणो राज्ञः), शक्ति-प्रहरणविशेषं दृष्ट्वा, किंभूतां ? गोडवधोद्धरां-गौडानां गौडनृपाणां यो वधो घातः तत्रोद्भुरामुद्भटाम् , बुद्धिः साध्वसरुद्धव वाचं न प्रतिपद्यते, भयेन मुखाद् वचनं न निःसरतीत्यर्थः ॥३॥ 卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथ भवभूति स्तुवन्नाह-स्पष्टभावेति-व्याख्या० नाटकेषु नाटयशास्त्रेषु नृत्येषु च, इव यथा नटस्त्री नृत्यकरी तथा भारती वाणी भवभूतिना भवभूतिनाम्ना कविना प्रनर्तिता नृत्यं कारिता, यथा नटस्त्री नाटकेषु नृत्यति तथा नाटकशास्त्रेषु भवभूतिभारती विलासापन्नत्वेन नृत्यतीवेत्यर्थः । नटस्त्रीभात्योः साम्यं दर्शयति, कैः कृत्वा प्रनर्तितेति करणं दर्शयति, कैः पदन्यासैः, नटनयर्थे चरणन्यासै रत्यर्थे विभक्त्यन्तपदन्यासः, कथंभूतैश्चित्रविचित्रश्वरणन्यासैः, विभक्त्यन्तपदन्यासार्थे तु चिज्ज्ञानं त्रायन्तीति चित्रास्तैश्चित्रैः । अथ कथंभूता भारती स्पष्टभावरसा, स्पष्टो भावो येषां ते स्पष्टभावा रसाः शङ्गारादिका यस्याः सा स्पष्टभावरसा, नटस्त्रीपक्षे तु कथंभूता सा स्पष्टभा स्पटा भाः कान्तियस्याः सा स्पष्टभा, पुनः कथंभूता वरसा, वरा प्रधाना सा लक्ष्मीर्यस्याः सा वरसेत्युभयोः साम्यमिति वृत्तार्थः ॥३०॥ ___अथ वाक्पतिराजकवि स्तुवन्नाह-दृष्ट्वा वेति, व्याख्या० वाक्पतिराजस्य वाक्पतिराजनाम्नः कवेगौडवधोछुरां गौडवधकाव्यरचनोऽधुरां शक्तिं दृष्ट्वेवोत्प्रेक्ष्यते, साध्वसरुद्धा भयाक्रान्ता बुद्धिर्वाचं गिरं न प्रतिपद्यते, कवीनां हि काचिद् बुद्धिर्भवत्येव परं तच्छक्तिं दृष्ट्वा नैतादृशं मया कर्तुं शक्यमिति कृत्वा न मुखे सा बुद्धिरायात्यन्तरेव विलयं यातीत्यर्थ इति वृत्तार्थः ॥३१॥ ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ अथ भवभूतिनामानं कवि वर्णयति-स्पष्टभावरसेत्यादिना । भवभूतिना भारती प्रनर्तितेत्यन्वयः । भवभूतिनाभवभूतिनाम्ना कविना, भारती-वाणी, प्रनर्तिता-प्रकर्षेण नर्तनं कारिता, विस्फारितेत्यर्थः । कुत्र प्रनर्तिता ? For Private And Personal Use Only
SR No.020833
Book TitleTilak Manjri
Original Sutra AuthorN/A
AuthorDhanpal, Padmasagar, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy