________________
Shri Mahavir Jain Aradhana Kendra
५२
www.kobatirth.org
[ टिप्पनक-व्याख्या-विवृतिविभूषिता
Acharya Shri Kailassagarsuri Gyanmandir
श्रुत्वा यं सहसाssगतं निजपुरात् त्रासेन निर्गच्छतां, शत्रूणामवरोधनैर्जललवप्रस्यन्दतिम्यत्पुटाः । शुन पल्लविन्युपवने वाप्यां नवाम्भोरुहि,
क्रीडाद्रौ च मुहुर्मुहुर्विगलितग्रीवैर्विमुक्ता दृशः ॥ ४६ ॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥
अस्य षट्चत्वारिंशत्तम श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥ 5 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या फ
अथाऽस्याऽऽगमनश्रत्रणाद्वैरिभिस्तद्वशाभिश्च किं कृतमिति दर्शयति, श्रुत्वेति, व्याख्या० अमुं भोजं सहसाऽऽगतं श्रुत्वा निजपुरान्निजनगरात् त्रासेनाssकस्मिकभयेन निर्गच्छतां शत्रूणां वैरिणामवरोधनैरन्तः पुरैर्जलस्य वा बिन्दवो जललवास्तान् प्रस्यन्दति श्रवतीति तत्प्रस्यन्दि, एवंविधं तिम्यन्निमीलत्पुटं यासां तास्तथैवंविधा दृशो दृष्टय एतेषु स्थानकेषु विमुक्ताः स्थापिताः । कथंभूतैरन्तःपुरैर्विवलितग्रीवैविं विशेषेण वलिता ग्रीवा यैस्ते तथा तैः । कानि तानि स्थानानीत्याह- शुभ्र सद्मनि धवलमन्दिरे तैर्दृशः स्थापिता इत्यर्थः । पल्लविनि नवपल्लवे, उपवने गृहासन्नकानने, वाप्यां दीर्घिकायाम्, नवान्यम्भोरुहाणि यत्र तत्तस्मिन्नेवंविधे क्रीडाद्रावेतेषु स्थानेषु निजभर्नृपश्चानिर्गच्छद्भिरन्तःपुरैर्वारं वारं ग्रीवा वालयित्वा लोचनानि न्यस्तानीति वृत्तार्थः ॥ ४६ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
ये क्ष्मारुहो वृक्षास्तेषाम् स्वपुष्पगन्धेन शिरोवेदनाजनक वृक्षविशेषाणामित्यर्थः । सुमनसः पुष्पाणि, सद्यः शीघ्रम्, शिरोवेदनां = मस्तकपीडाम्, विदधिरे - चकुः । कीदृशाः सुमनसः ? शरद् आयाता इत्युदीर्य मुदितैर्दारैः पुरोदर्शिताः, शरद्=आश्विनकार्तिकमासात्मक ऋतुविशेषः, युद्धयात्राहः काल इति गुप्तार्थः, आयाता - प्राप्ता, शरयेव सप्तपर्णपुष्पाणां प्रादुर्भावः, इदानीं च तानि पुष्पाणि जातानि अतः शरद् आयातेति भावः । इत्युदीर्य एवं कथयित्वा मुदितैः सप्तपरीपुष्पावलोकन हर्षितैः, दारैः नारीजनैः पुरः = अग्रे, लीलोद्यानवर्तिनां सप्तपर्णतरूणां शाखास्तवकेवित्यर्थः । दर्शिताः =दर्शनं कारिताः, एतेन विनोदार्थं लीलोद्यानविहारो दर्शितः । कीदृशाः ? लीलोद्यानभवाः= लीलार्थमुद्यानमारामस्तत्र भवा जाताः । पुनः कीदृशाः ? नवाः - नवीना न तु प्राचीनाः । केषां शिरोवेदनां विदधिरे ? यत्सैन्यागमशङ्किनाम् असुहृदाम् यत्सैन्यागमशङ्किनां यस्य भोजस्य सैन्यागमशङ्किनां सैन्यागमने शङ्कावताम्, युद्धार्हः शरत्कालः समायातोऽतो भोजसैन्यमागमिष्यतीति शङ्कावताम् असुहृदां - भोजरिपुनृपाणाम् । कैः कीदृशा इव सन्तः सुमनसः शिरोवेदनां विदधिरे ? अत्रोत्प्रेक्षते खेदनिरायतः श्वासैराकृष्टगन्धा इव, खेदनिरायतैः = खेदेन भोजसैन्यागमनशङ्काजनितविषादेन निरायतैरतिदीधैः, श्वासैः नासिक वायुभिः आकृष्टगन्धा इव गृहीतगन्धा इव आघाता इवेत्यर्थः एवंविधा इव सन्तः शिरोवेदनां विदधिरे । अत्रायं भावः - शरत्समयारम्भे लीलोद्याने भोजारिनृपा नारीभिः साकं विहरन्ति तत्र प्रफुल्लानि सप्तदलकुसुमानि समवलोक्य सानन्दा नारीजना निजनिजस्वामिनः प्रति वदन्ति, यदुत-स्वामिन् आयाता शरद् विलोकयेमानि नवानि सप्तदलकुसुमानि एतदाकर्ण्यामी अरिनृपा विचारयन्ति, यदुत, समायातः शरत्कालः, स च युद्धयात्रार्हः अस्मिन् काले राजानो योद्धुं निर्गच्छन्ति, कदाचित् ससैन्यो भोज आगमि ष्यति तदाऽस्माकं किं भावीति न ज्ञायते इति विचारणया सखेदा दीर्घश्वासान् विदधति, भयाक्रान्तचिन्तया शिरोव्यथापि जायते, अत्र कवेरुत्प्रेक्षा - इयं शिरोवेदना निरुक्त पुष्पगन्धग्रहणेन जाता, यतस्तानि आघ्रातानि दीर्घश्वासैरिति । अत्रोत्प्रेक्षाऽतिशयोक्त्या संकीर्यते । इदं शार्दूलविक्रीडितवृत्तम्, तलक्षणं तु अष्टात्रिंशत्तम श्लोकविवृतिप्रान्ते प्रोक्तम् ॥४५॥
भोजागमनवार्ताश्रवणेन तदरीणां कीदृशी दशा जातेति वर्णयति - श्रुत्वेत्यादिना । शत्रूणामवरोधनैर्दृशो विमुक्ता इत्यन्वयः । शत्रूणां=भोजरिपूणां नृपाणाम्, अवरोधनैः = अन्तःपुरनारीजनैः दृशः = नयनानि विमुक्ताः-अवलोक
For Private And Personal Use Only