SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी ] मासादेषु त्रुटितशिखरश्वभ्रलब्धप्रवेशैः, पातः प्रातस्तुहिनसलिलैः शार्वरैः स्नापितानि । धन्याः शन्ये यदरिनगरे स्थाणुलिङ्गानि शाखाहस्तस्रस्तैः कुसुमनिकरैः पादपाः पूजयन्ति ॥४७॥ [मन्दाक्रान्तावृत्तम् ] ॥ ॐ अस्य सप्तचत्वारिंशत्तमस्य श्लोकस्य विवुधशिरोमणिश्रीशान्त्याचार्यविरचित टिप्पनकं नास्ति ॥ ॥ ॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या है अथ वैरिषु निर्गतेषु तन्नगरे यदभूत्तदाह-शून्ये यदरिनगरे यस्य भोजस्याऽरीणां वैरिणां नगरे धन्या इति वक्ष्यमाणकृत्यकरणात् प्रशंसाहः पादपा वृक्षाः, शाखा एव हस्ताः शाखाहस्तास्तेभ्यः स्रस्ताच्युतास्तैरेवंविधैः कुसुमनिकरैः स्थाणुलिङ्गानि शम्भोलिङ्गानि पूजयन्ति । ननु स्नानपूर्वं पूजनं युक्तं तेन तत्स्नापनं वाच्यमित्याशङ्कयाऽऽह कथंभूतानि स्थाणुलिङ्गानि स्नापितानि स्नानं कारितानि, कैस्तुहिनसलिलैस्तुषारजलैः, कथंभूतैः शार्वरैः शर्वरीसम्बन्धिभी रात्रौ पतितैः, पुनः कथंभूतैस्त्रुटितशिखरश्वभ्रलब्धप्रवेशस्त्रुटितानि यानि शिखराणि तेषां श्वभ्राणि पातालानि तेषु लब्धः प्रवेशो यैस्तथा तैः, तदन्तःप्रविष्टैरित्यर्थः । केषु प्रासादेषु देवतायतनेषु, कथं प्रातः प्रातः प्रभाते प्रभाते त्रुटितशिखरप्रासादप्रविष्टतुहिनस्नापितानि शम्भुलिङ्गानि शाखाहस्तपतितैः पुष्पर्धन्या इव धन्याः पादपाः पूजयन्तीति वृत्तार्थः ॥४७॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ नकर्मणि व्यापृताः । कीदृशानां शत्रूणां ? सहसाऽऽगतं यं श्रुत्वा त्रासेन निजपुराद् निर्गच्छताम् , सहसा-शीघ्नम् , आगतम्-आयातम्, यं-भोजराजम् , श्रुत्वा-आकर्ण्य, त्रासेन आकस्मिकभयेन, निजपुरात्-निजनगरात् , स्वराजधानीत इत्यर्थः । निर्गच्छतां निस्सरताम् । कीदृशो दृशः ? जललवप्रस्यन्दतिम्यत्पुटाः-जललवा निजपतिना सह गमने राजधानीवियोगवनवासादिविचारणाजनितदुःखवेगेन ये अश्रुजलबिन्दवस्तेषां प्रस्यन्देन क्षरणेन तिम्यन्तौ आर्दीभवन्तौ पुटौ पुटाकारौ कनीनिकाच्छादको त्वग्विशेषौ यासां तास्तथा । कुत्र दृशो विमुक्ताः शुमेधवले, सद्मनि-गृहे, धवलप्रासादे इत्यर्थः । पुनः कुत्र ? पल्लविनि-नवीनपत्रसमूहशालिनि, उपवने-गृहासन्नकानने । पुनः कुत्र ? नवाम्भोरुहि-नवीनकमलवत्याम्, वाप्यां-वापिकायाम् । पुनः कुत्र ? क्रीडाद्रौ-क्रीडापर्वते च । कीदृशैरन्तःपुरनारीजनैः ? मुहुर्मुहुः पुनः पुनः, विवलितग्रीवैः-विवलिता ग्रीवा येषां तानि तथा तैः, पुनः कदामीषां मनोहरवस्तूनां मीलनं भविष्यतीति विचारणया पुनः पुनीवां वालयित्वा पश्यद्भिरित्यर्थः । अत्रातिशयोक्तिरलङ्कारः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु अष्टात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ४६ ॥ अथ वैरिनृपेषु निर्गतेषु तन्नगरस्य कीदृशी दशा जातेत्याह-प्रासादेष्वित्यादिना । यदरिनगरे पादपाः स्थाणुलिङ्गानि पूजयन्तीत्यन्वयः । यदरिनगरे यस्य भोजस्य अरिनगरे रिपुनगर्याम् , पादपाः वृक्षाः,स्थाणुलिङ्गानि% शिवलिङ्गानि, पूजयन्ति-शिवलिङ्गपूजां कुर्वन्तीत्यर्थः । ननु देवपूजां तु मानवाः कुर्वन्ति कथमत्र वृक्षा इत्याशङ्कय नगरीविशेषणमाह-कीडशेऽरिनगरे ? शून्ये भोजराजेनातीव भग्नत्वादुद्वासिते निर्जने, जनाभावाद् वृक्षाः पूजयन्तीत्यर्थः । कुत्र स्थितानि शिवलिङ्गानि ? प्रासादेष-देवमन्दिरेषु । ननु पूजा स्नपनपूर्विका भवति कथमिह शिवलिङ्गानां स्नपनमित्याशङ्कय शिवलिङ्गविशेषणमाह-कीदृशानि लिङ्गानि ? प्रातः प्रातः शावरस्तुहिनसलिलैः स्नापितानि, प्रातः प्रातःप्रतिदिनं प्रभाते, शार्वरैः-रजनीभवैः, तुहिनसलिलैः हिमजलैः, स्नापितानि-स्नानं कारितानि । ननु हिमजलानि तु अनावृतप्रदेशे पतन्ति कथं तैमन्दिरान्तर्वर्तिनां लिङ्गानां स्नानं भवतीत्याशङ्कय हिमजलविशेषणमाह-कीदृशैहिमजलैः? त्रुटितशिखरश्वभ्रलब्धप्रवेशैः त्रुटितानां शिखराणां श्वश्रेषु छिद्रेषु लब्धः प्राप्तः प्रवेशो यस्तादृशैः । कैः पादपाः पूजयन्ति ? कुसुमनिकरैः-पुष्पसमुदायैः । ननु पुष्पपूजा हस्ताभ्यां पुष्पमोचने ति भवति सा वृक्षाणां कथं सम्भवतीत्याशङ्कय पुष्पसमुदायविशेषणमाह-कीदृशैः कुसुमनिकरैः ? शाखाहस्तास्ते शाखारूपा ये हस्तास्तेभ्यः सस्तैः पतितः, कीदृशा वृक्षाः ? धन्याः निरुक्तकार्यकरणात् प्रशंसाहाः । अत्र रूपकातिशयोक्त्यलङ्कारौ । इदं मन्दाक्रान्तावृत्तम् , तल्लक्षणंतु “मो भ्नौ तौ गौ च धैर्मन्दाक्रान्ता [ मभनततगगाः धैरिति चतुर्भिर्यतिः ] इति छन्दोऽनुशासने ॥४७॥ For Private And Personal Use Only
SR No.020833
Book TitleTilak Manjri
Original Sutra AuthorN/A
AuthorDhanpal, Padmasagar, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy