SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ [टिप्पनक-व्याख्या-विवृतिविभूषिता जितं प्रवरसेनेन, रामेणेव महात्मना । तरत्युपरि यत्कीर्तिः, सेतुर्वाङ्मयवारिधेः ॥२२॥ [ पथ्यावृत्तम् ] ॥ प्रसन्नगम्भीरपथा, रथाङ्गमिथुनाश्रया। पुण्या पुनाति गङ्गेव, गां तरङ्गवती कथा ॥२३॥ [ मविपुलावृत्तम् ] ॥ ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ जितं-जयः प्राप्तः कविमध्ये, केन ? प्रवरसेनेन कविना, कीदृशेन ? महात्मना बृहत्तरेण, यत्कीतिः यस्य यशः, कोऽसौ ? सेतुः सेतुबन्धशास्त्रं कीर्तिहेतुत्वात् कीर्तिः, किं ? तरति-प्लवते, व ? उपरि-उपरिष्टात् , कस्य ? वाङ्मयवारिधेः=निःशेषशास्त्रवृन्दोदधेः, सकलशास्त्राणामुपरि वर्तत इत्यर्थः, केन इव रामेणेव-यथा रामेण दशरथात्मजेन जयः प्राप्तो लोकमध्ये, तेनापि कथंभतेन ? प्रवरसेनेन तथा महात्मना-पूज्येन विष्णोरवतारात्, यत्कीर्तिः सेतुबन्धो गिरिकृतस्तरति-प्लवते, न निमज्जाते, क्व तरति ? उपरि, कस्य ? वारिधेः लवणसमुद्रस्य ॥२२॥ पुनाति-पवित्रयति, का ? कथा, किमभिधाना ? तरजवती, कां ? गां-पृथिवीम् , केव ? गङ्गेव-सुरनदीव, किंभूता तरङ्गवती गङ्गा च ? प्रसन्नगम्भीरपथा-प्रसादवद्गम्भीरार्थवचनमार्गा निर्मलालब्धमध्यप्रवाहा, तथा रथाङ्गमिथुनाश्रया-चक्रवाकयुगलाधिता. चक्रवाकयुगलं हि तत्र वर्ण्यत इति । गङ्गा च चक्रवाकयुगलानामाधारभूता, तत्र तानि सुखमाहारादिकं लभन्त इति, तथा पुण्या पवित्रा पुण्यकारणं च, गङ्गा कीदृशी ? तरङ्गवती कल्लोलयुक्ता ॥२३॥ ॥ श्रीमत्पद्मसागरविवुधरचिता व्याख्या 卐 अथ तथाविधकथाकारिणो महाकवीन् त्रिजगतीव्याप्तख्यातीन् दर्शयति-जितमिति । व्याख्या० रामेणेव लक्ष्मणाप्रजेनेव महात्मना प्रवरसेनेन प्रवरसेननाम्ना कविना तथाविधानेकप्रबन्धकारित्वेन जितं, तथाविधानेकप्रबन्धकारिपुरोगामी स बभूवेत्यर्थों, रामेणेवेति, यथा प्रवरा सेना सैन्यं यस्य स तथा तेन रामेण जितं जयवता जातं तथाऽस्याऽपि प्रवरसेनत्वाविशेषाज्जयित्वमिति भावः। नन्वस्य रामसाम्यस्पष्टीकरणाय किंचित्तत्स्वरूपमिहाऽऽरोप्य दर्शनीयमित्यतस्तत्स्वरूपमिहाऽऽरोपयति, तरतीति यत्कोतिरूपसेतुः पद्यवाङ्मयवारिधेः शास्त्ररूपसागरस्योपरि तरति, यथा रामबद्धः सेतुः सागरोपरि तरति तथाऽस्य कीर्तिस्तस्कृतशास्त्रोपरि तदध्येतृकविजनप्रशंसया तरतीत्यर्थ इति वृत्तार्थः ॥२२॥ अथ प्रवरसेनरचिंतकथातिशय दर्शयति, प्रसन्नेति । व्याख्या० गङ्गेव भागीरथीव पुण्या पवित्रा कथा गां वाचं गङ्गापक्षे तु गां पृथ्वीं पुनाति पवित्रीकरोति, गङ्गाकथयोर्विशेषणसाम्यं दर्शयति, कथंभूता कथा प्रसन्नगम्भीरपथा, प्रसन्नैर्व्यक्ततरैगम्भीरैर्गुढाथैः शब्दैः पथो मार्गः प्रस्तावनारूपो यस्याः सा तथा, यद्वा प्रसाद्यते व्यक्तीक्रियतेऽर्थ एभिरिति प्रसन्नाः शब्दास्तैर्गम्भीरो निर्बुद्धधगम्यः पथो मार्गो रचनारूपो यस्याः सा तथा, यद्वा प्रसन्नोऽकर्कशो गम्भीरः सद्बुद्धिगम्यः पथो मार्ग उपदेशरूपो यस्यां सा तथा । गङ्गापक्षे तु कथंभूता गङ्गा भीरपथा, भीभयमीरक् गताविति धातोरीते गच्छतीति भीरो भयदायी पथो मार्गों यस्याः सा तथा, के प्रति प्रसन्नगं प्रति, प्र प्रकर्षेण सन् प्रधानो नगः पर्वतस्तं प्रसन्नगं महान्तं पर्वतं प्रति गङ्गामार्गः प्रबलप्रवाहमयत्वेन विदारणभयाद्भयं ददातीवोत्प्रेक्षितं विशेषणं, पुनः कथा कथंभूता रथाङ्गमिथुनाश्रया रथेऽझं वपुर्यस्य तद्रथाङ्गं तन्मिथुनं चेति कदाचिदपि पादाभ्यामहिण्डनेन रथस्थं मिथुनं राजराजपत्नीरूपं तयो स्थादिनैव यायित्वात्तन्मिथुनं प्रबन्धावदाताविष्करणेनाऽऽश्रयतीति तदाश्रया, कथायां हि प्रायो राजराश्योरवदाताविष्करणात् । गङ्गापक्षे तु रथाङ्गमिथुन चक्रवाकमिथुनं तदाश्रया तत्तटे चक्रवाकमिथुनस्य सत्त्वात् , पुनः कथा कथंभूता तरङ्गवती, तस्तत्त्वं तस्मिन् रङ्गोऽस्या अस्तीति तरङ्गवती, गङ्गापक्षे तु तरङ्गाः कल्लोलास्तद्वतीति वृत्तार्थः ॥२३॥ ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ सेतुबन्धकथाकारस्य प्रवरसेनकवेः प्रशंसामाह-जितमित्यादिना । प्रवरसेनेन जितमित्यन्वयः । प्रवरसेनेन For Private And Personal Use Only
SR No.020833
Book TitleTilak Manjri
Original Sutra AuthorN/A
AuthorDhanpal, Padmasagar, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy