________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
[ टिप्पनक-व्याख्या-विवृतिविभूषिता सरिर्महेन्द्र एवैको, वैबुधाराधितक्रमः। यस्यामयोचितमौढि,-कविविस्मयकृद् वचः ॥३४॥ [ पथ्यावृत्तम् ] ॥ स मदान्धकविध्वंसी, रुद्रः कैर्नाभिनन्द्यते ? । सुश्लिष्टललिता यस्य, कथा त्रैलोक्यसुन्दरी ॥३५॥ [ पथ्यावृत्तम् ] ॥
+ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ महेन्द्र एवैको ऽद्वितीयः, सूरि आचार्यो वर्त्तते, वैबुधाराधितक्रमः-विविधविद्वद्वन्दसेवितपादः, यस्यमहेन्द्रसूरेर्वचो वचनमस्ति, कीदृशम् ? अमोचितप्रौढिकविविस्मयकृद-अमोचितप्रौढयो देवयोग्यप्रौढता ये कवयः कवितारस्तेषां विस्मयकृद् आश्चर्यकारि, अन्यत्र महेन्द्र एव देवराज एवैकः सूरिः विद्वान् , कीदृशो ? वैबुधाराधितक्रमोदेवसमूहसेवितचरणो, यस्य महेन्द्रस्य वचोऽमयोचितप्रौढिकविविस्मयकृद्-अमयों देवः, उचितप्रौढिश्च योग्यप्रौढिमा च यः कविवृहस्पतिस्तस्य विस्मयकृद्-आश्चर्यकारि ॥३४॥
स रुद्रो रुद्राभिधानः कविः, कैर्नाभिनन्द्यते सर्वैरपि प्रशस्यते, कीदृशो ? मदान्धकविध्वंसी-मदान्धा दर्पान्धा ये कवयस्तान् ध्वंसते तिरस्करोति पराभवतीति स तथोक्तः । यस्य कथा वर्त्तते, किमाख्या ? त्रैलोक्यसुन्दरी, किंभूता ? सुश्लिष्टललिता-पुष्टश्लेषघना लालित्ययुक्ता चान्यत्र रुद्रो-हरः, कैर्नाभिनन्द्यते ? सर्वैरपि प्रशस्यते, कीदृशः ? समदान्धकविध्वंसी-समदो मदसहितोऽन्धकोऽन्धकासुरस्तस्य विध्वंसी विघाती, यस्य सुश्लिष्टललिता-आलिङ्गनवती गौरी, किंभूता ? त्रैलोक्यसुन्दरी त्रैलोक्ये त्रिभुवनमध्ये सुन्दरी सौन्दर्ययुक्ता ॥३५॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या + अस्य चतुस्त्रिंशत्तमस्य श्लोकस्य श्रीमत्पद्मसागरविबुधरचिता व्याख्या नोपलभ्यते । अथ रुद्रकविं रुद्रोपमया स्तुवन्नाह-[समदान्धेति ] स रुद्रः कैर्नाऽभिनन्द्यते न स्तूयतेऽपि तु सर्वैरपि स्तूयते, कथमित्याह-कथमिति विशेषणद्वारा तत्स्वरूपं दर्शयति, कथंभूतो रुद्रो मदान्धकविध्वंसी रुद्रकविपक्षे तु मदेनाऽन्धा ये कवयस्तान् मदोत्तारेण ध्वंसत इति मदान्धकविध्वंसी । ईश्वरपक्षे तु सह मदेन वर्तते यः स समद एवंविधो योऽन्धको दैत्यविशेषस्तं ध्वंसत इति तद्वंसी । प्राप्तरुद्रोपमानः कोऽसौ कविरित्याशङ्कयाऽऽह-यस्य कृतिरूपा त्रैलोक्यसुन्दरीनाम्नी कथा, सुश्लिष्टानि मनोज्ञानि ललितानि वाक्यानि यस्यां सा तथाऽस्तीत्यध्याहारः, कोऽसावीश्वर इत्याशङ्कायामीश्वरपक्षे तु यस्येश्वरापरपर्यायस्य रुद्रस्य कथा चरित्रमवदात इति यावत् , त्रैलोक्यसुन्दरी त्रिलोक्यां बन्धुरा सती सुश्लिष्टं प्रशस्यं ललितं चेष्टितं यस्याः सा सुश्लिष्टललिताऽस्तीति वृत्तार्थः ॥३५॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ अथ स्वधर्मगुरुं स्वबन्धुशोभनमुनिदीक्षागुरुं च महेन्द्रसूरिवरं कविवरं स्तौति-सूरिरित्यादिना । [स] महेन्द्र एवैकः सूरिः [अस्ति] इत्यन्वयः । उत्तरदले यच्छन्दोपादानेन तच्छब्दार्थाक्षेपात् स इत्यध्याहार्यम् , तथा च स महेन्द्रः महेन्द्रनामा, एव, एक अद्वितीयः, सूरिः-आचार्यो विद्वांश्च, अस्तीतिशेषः । कीदृशः ? वैबुधाराधितक्रमः विविधा बुधाः पण्डिता विबुधास्तेषां समूहो वैवुधं तेन. यद्वा वै निश्चयेन बुधैः पण्डितैराराधितौ सेवितौ क्रमौ पादौ यस्य स तथा, नानाविद्वत्सेवितपाद इत्यर्थः । स कः ? यस्य महेन्द्रसूरेः, वचः-वचनम् , अस्तीति शेषः । कीदृशं वचनम् ? अमोचितप्रौढिकविविस्मयकृद्-अमर्त्या देवास्तेषामुचिता योग्या प्रौढिः प्रौढता निपुणता येषां तादृशा ये कवयः काव्यकारास्तेषां विस्मयकृद् आश्चर्यजनकम् । यद्वा आमयोचितप्रौढि-आ समन्ताद्
For Private And Personal Use Only