________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ अस्मिन् किलावसर्पिणीकाले प्रथमोपकारित्वाद् आदिनाथस्य नमस्कारमाह-दिशतु विरतीत्यादि । विरतिलाभानन्तरं पार्श्वसर्पन्नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीस्त्रिजगद् अपगतापत् कर्तुमात्तान्यरूपद्वय इत्र भगवान् नाभिसूनुर्वः सम्पदं दिशत्वित्यन्वयः। विरतिलाभानन्तरं-विरतेः सम्यग्ज्ञानपूर्वकसर्वसावद्ययोगनिवृत्तिरूपाया दीक्षाया यो लाभः प्राप्तिः स्वीकार इति यावत् , तस्माद् अनन्तरमव्यवहितोत्तरकालम् । पार्श्वसर्पन्नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीः पार्श्वयोरुभयोः पक्षयोः सर्पन्तौ चलन्तौ यौ नमिविनमी नमिविनमिनामानौ पुत्रत्वेन पालितौ स्वपौत्रौ तयो? कृपाणौ खगौ तयोरुत्संगे मध्ये दृश्ये दर्शनीये अङ्गलक्ष्म्यौ शरीरशोमे मूर्तिलक्षणे यस्य स तथा । अत्र लक्ष्मीशब्दान्तबहुवीहे: “पुमनड्डुनौपयोलक्ष्म्या एकत्वे" [७, ३, १४३ ] इति समासान्तः कच् प्रत्ययो न भवति, उक्तसूत्रे एकवचनान्तस्य लक्ष्मीशब्दस्य ग्रहणात् प्रस्तुते तु द्विवचनान्तत्वात् । एतेन विशेषणेन भगवतो रूपत्रयं जातमिति दर्शितम् । एतदुप्रेक्षते कविः-आत्तान्यरूपद्धय इव-आत्तं गृहीत. मन्यद् अपरं रूपद्वयं शरीरद्वयं येन स तथैव । किं कर्तुम् ? त्रिजगत्-त्रिभुवनम् । अपगतापत्-अपगता दूरीभूता नष्टा वा आपद् आपत्तियस्य तादृशम् , कर्तु-विधातुम् । भुवनस्य त्रयत्वाद् शरीरस्यापि त्रये सति सुखेनैवापत्तेर्दूरीकरणं भवेदित्यर्थः । भगवान्-भगो ज्ञानादिरस्यास्तीति भगवान् , “ भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छाश्रीधर्मेश्वर्ययोनिषु ॥१॥” इति वचनाद् अनुपमज्ञानादिगुणकलितः परमात्मा। नाभिसूनुः श्रीनाभिनरेन्द्रनन्दन ऋषभनाथ इत्यर्थः । सम्पदं-सम्यग् अनन्तसुखनिधानत्वेन शोभनं पदं मोक्षरूपं स्थानम् , यद्वा सम्पद् स्वर्गापवर्गादिका सम्पत्तिः ताम् , 'स्वपदम्' इति पाठे तु स्वमात्मीयं पदं स्थानं मुक्तिमित्यर्थः । वा-युष्मभ्यम् । दिशतु ददातु ॥ अत्राय सम्प्रदायः___ एकदा भगवतो वृषभनरेन्द्रस्य नमिविनमिनामानौ नन्दननन्दनौ नगरान्तरमनाखिष्टाम् , इतश्च भगवान् वृषभनरेन्द्रश्चिन्तयामास, यदुन, असारोऽयं संसारः, इमे भोगा भोगभाजा भोगाभा भीमा भालितमात्राः सुदृशा, स्पृष्टाश्वाचिरं चित्तविचित्ततां तन्वाना अन्ते विषमविषमादधाना कटुफलम् , नास्ति च च्युतिप्रसूतिभ्यां सहचरतैषाम् , इमेऽमेयजन्ममालायां मिलितास्तथापि केऽपि न सहायाताः, केषाञ्चिदपि न निष्पन्ना स्मृतिः सत्त्वानाम् , एवमेतद्भवभवानामपि भावना भाव्या । कथमेतदर्थं निरर्थकं मनुष्यत्वं कर्तव्यं सुकृतिभिः । समित्संदोहैः समीरसख इव कीलालालिभिः कीलालालिरिव विषयेस्तृष्णास्तृप्ति नाभ्युपयन्ति कदाचन । स्वजना अपि निशि शाखिशाखाशायिनः शकुनय इवासादितसंगाः स्वावासनिबन्धनवन्धनविघटनाद् विविक्ताः सन्तो दैवानुसारेण यथोचितमध्वानमध्यारोक्ष्यन्ति । धर्ममधारयमाणः प्राणी चारघट्टघटिकाघटनया भ्रमितोऽमितवारमपारे भवकूपारे । धर्म एवाशरणशरणम् , धर्मा देव भाविनी भविनां भवभिदा, स च प्रवज्याप्रधान इति च्यात्वा तनुजेभ्यो राज्यदायं दत्त्वा प्रतिपद्य च प्रव्रज्यां वसुधायां विजहार । प्रत्यायातौ चतौ नमिविनमी राज्यदायार्थ यत्र भगवान कायोत्सर्गमुद्रया स्थितस्तत्र गत्वा कण्टकादीनपास्योद्घाटितं कृपाणमारच्य प्रत्येक प्रभुपाचे सेवार्थ समुपस्थितौ । इदं वृत्तमवधिज्ञानेनावबुध्य विबुधाधिपतिना विद्याविद्याधरधराप्रभृति वितीर्णमिति । ___ इदं मालिनी नाम वृत्तम् । तल्लक्षणं तु 'नौ म्यौ यो मालिनी' [ ननमयया, जैरिति वर्तते, जैः अष्टभिश्चेद् यतिः] इतिच्छन्दोऽनुशासने ॥३॥
For Private And Personal Use Only