________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
[टिप्पनक-व्याख्या-विवृतिविभूषिता दिशतु विरतिलाभानन्तरं पार्श्वसर्प-नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीः। त्रिजगदपगतापत् कर्तुमात्तान्यरूप-द्वय इव भगवान् वः सम्पदं नाभिसूनुः ॥३॥ [मालिनी]॥
+ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ ___ तथाऽपरस्य श्लोकद्वयस्य कियत्पदव्याख्या क्रियते-विरतिलाभः सर्वसावद्ययोगनिवृत्तिप्राप्तिः । पार्श्वसर्पन्नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीः पार्श्वयोरुभयपक्षयोः सर्पन्तौ चलन्तौ नमिविनम्यो राजपुत्रयोः कृपाणौ खड्गौ तयोरुत्संगे मध्ये दृश्ये दर्शनयोग्ये अङ्गलक्ष्म्यौ शरीरशोभे मूर्तिलक्षणे यस्य स तथोक्तोऽत्र च बहुव्रीही समासे नदीलक्षणः को न भवति, तत्रैकवचनान्तस्यैव लक्ष्मीशब्दस्य कविधानाद् । एतेन भगवतो रूपत्रयं जातमिति दर्शितम् , एतदुत्प्रेक्षते कविः-आत्तान्यरूपद्वय इव गृहीतापरमूर्तिद्वितय इव, किं कर्तुं ? त्रिजगत्रिभुवनमपगतापन्निवृत्तविपत्तिकं कर्तुम् , तच्च शरीरत्रयेण सुखेनैवापायरहितं क्रियते रक्षणात् [स्वपदं ] स्वं पदमात्मीयं स्थानं मुक्त्तिमित्यर्थः, संपदं स्वर्गापवर्गसमृद्धिम् ॥ ३ ॥
9 श्रीपद्मसागरविबुधरचिता व्याख्या ॥ अथ सकलजिनानां प्राथम्याद्बहुजनसंमतदेवत्वाच्च सकलाभीष्टार्थसाधनसमर्थत्वेन पुनरादीश्वरं स्तौति दिशत्विति । व्याख्या. वो युष्माकं नाभिसूनुर्वृषभो भगवान् सम्पदं दिशत्विति तावदन्वयः । अथैतस्य भगवतः सम्पदानमापनिराकरणसमर्थत्वे सति संभवतीति विशेषणद्वारैतद्दर्शयति कथंभूतो भगवान् , आत्तान्यरूपद्वय आत्तं गृहीतमधिकारादर्थ इति न्यायाद्धात्वर्थानामनेकत्वाच्च स्वमूर्त्यपेक्षयाऽन्यद्रूपद्वयं येन स तथेति, इवोत्प्रेक्षायाम् , त्रिरूपधारी बभूवेति तात्पर्यम् । ननु भगवतः स्वमूर्त्यपेक्षयाऽपररूपद्वयकरणे किमिति प्रयोजनमित्याशङ्कयाऽऽह किं कर्तुं विधातुं, किं त्रिजगत् त्रयाणां जगतां समाहारत्रिजगत्, कथंभूतमपगतापत् अपगताऽऽपदापत्तिर्यस्य तत्तथेति, विपद्वन्ध्यं त्रिजगत् कर्तुमित्यर्थः । एकेनैकेन रूपेणैकस्यैकस्य भुवनस्याऽऽपदुद्धारसंभवात् । अथ किं तत्स्वरूपान्यरूपद्वयमित्याशङ्कय विशेषणद्वारैतर्शयति, कथंभूतो भगवान् , विरतिलाभानन्तरं पार्श्वसर्पन्नमिविनमिकृपाणोत्संगदृश्याङ्गलक्ष्मीः । विरतिश्चारित्रं तस्य लाभः प्राप्तिर्विरतिलाभस्तदनन्तरं तदनु, चारित्रे गृहीते सतीत्यर्थः । पार्श्वे समीपे सर्पन्तौ गच्छन्तौ यौ नमिविनमी कच्छमहाकच्छसुतौ भगवत्पालितपुत्रौ तयोयौँ कृपाणौ खगौ, गृहीतखगौ हि नमिविनमी भगवत्पार्श्व सपर्यापरौ परिभ्रमत इति श्रुतेस्तयोरुत्संगेन साचिव्येन दृश्या दर्शनीयाऽङ्गलक्ष्मीदेहश्रीर्यस्य स तथा, अयं भावार्थः, पार्श्वे सर्पद्भ्यां नमिविनमिभ्यां गृहीतखड्गद्वयमिषेणाऽतिभास्वरकान्तिमत्तया भगवतैव रूपद्वयं विहितमिति, एकं च रूपं भागवतं वास्तवमेवेति रूपत्रयं सुप्रतीतमिति तृतीयकाव्यार्थः ॥३॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ प्रथमतीर्थकर इत्यर्थः । नः अस्मभ्यम् । मुदं-धर्मप्रकाशकत्वेन हर्षम् । ददतां यच्छतु, 'ददि दाने' इत्यस्य पञ्चम्यैकवचने रूपम् । अथान्यजिनपक्षे-प्राज्यप्रभाः प्राज्या प्रचुरा प्रभा येषां ते तथा। धर्मस्य-अहिंसादिलक्षणस्य । प्रभवः= स्वामिनः, प्रभुशब्दस्य बहुवचनम् । अस्तरजस्तमाः अस्तौ रजस्तमौ रजोगुणतमोगुणौ यद्वा प्रागुक्तकर्मविशेषौ येषां ते तथा, तमशब्दोऽकारान्तोऽप्यस्ति, यदुक्तं शब्दस्तोममहानिधौ तम-पु. ताम्यति तम-अच् । तमोगुणे, मतान्तरे राहौ च । तमालवृक्षे च । रात्रौ स्त्री । अन्धकारे पादाने च नः । इति । यद्वा अस्तं रजो रजस्सदृशं पापं येषां तेऽस्तरजसः, अतिशयेनास्तरजस इति अस्तरजस्तमाः, प्रकृष्टार्थे तमप्प्रत्ययः । निर्वृतात्मानः निवृतिं गतो लोक्ष सुखं सौस्थं वा प्राप्त आत्मा येषां ते तथा । अन्येऽपि न केवलमाद्य एव अपि तु तद्व्यतिरिक्ता अपि । जिनाः रागादिविजेतारो देवाः, अजितादिवर्द्धमानान्तास्त्रयोविंशतिस्तीर्थकरा इत्यर्थः । वा-युष्मभ्यम् । मुदं-धर्मप्रकाशकत्वेन हर्षम् । ददतां यच्छन्तु, 'डुदांग्क दाने' इत्यस्य पञ्चमीबहुवचने रूपम् । इदं मविपुलाख्यं विषमवृत्तम् , तल्लक्षणं तु प्रथमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ २ ॥
For Private And Personal Use Only