________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
[ टिप्पनक - व्याख्या-विवृतिविभूषिता
ध्वानेनाऽमृतवर्षिणा श्रवणयोरायोजनं भ्राम्यता,
भिन्दाना युगपद् विभिन्नविषयं मोहं हृदि प्राणिनाम् । आधे धर्मकथाविधौ निपतेराद्यस्य वाणी नृणां,
वृन्दैरुद्यदपूर्वविस्मयरसैराकर्णिता पातु वः ॥ ४ ॥ [ शार्दूलविक्रीडितम् ] ।।
5 विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकम् 5
मोहमत्र ज्ञानं संशयविपर्ययरूपम्, विभिन्नविषयमनेकार्थसंबन्धिनम् । क्व ? हृदि मनसि मनोगतमित्यर्थः । केषां ? प्राणिनां देवनरतिरश्वाम् । भिन्दाना विदारयन्ती । कथं ? युगपदेककालम् । का ? वाणी भारती । क्वाद्ये धर्मकथाविधौ प्रथमे धर्मकथने समवसरणव्यवस्थितस्योत्पन्नकेवलज्ञानस्य ॥ ४ ॥
5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या
Acharya Shri Kailassagarsuri Gyanmandir
अथाऽस्य भगवतो वाणीगुणं वर्णयितुमाह-ध्वानेनेति । व्याख्या० अस्य [ आयस्य ] जिनपतेर्वाणी वो युष्मान् पातु रक्षतु, अथ वाणीफलं तु श्रवणेनैव स्यादित्याशङ्कयाऽऽह कथंभूता वाणी आकर्णिता श्रुता, कैर्नृणां मनुष्याणां वृन्दैः समूहैः, किंलक्षणैरुद्यदपूर्वविस्मयरसैः, उद्यन्तौ दीप्तावपूर्वी पूर्व कचिदप्यननुभूतौ विस्मय आश्चयं रसः शान्तादिको यैस्ते तथा तैः । अथ वाणीश्रवणात् किं फलं भवतीत्येतद्दर्शयति, किं कुर्वाणा वाणी भिन्दाना भेदं विनाशं कुर्वाणा भिन्दाना, कं मोहं मूढताम्, क प्राणिनां हृदि जन्तूनां हृदये, जन्तुहृदयस्थमोहभेदकरणमाहकेन कृत्वा ध्वानेन शब्देन, अथ शब्दस्यैव स्वरूपमाह-किलक्षणेन ध्वानेनाऽमृतवर्षिणाऽमृतममृतप्रायं माधुर्य वर्त्रतीत्यमृतवर्षी तेनाऽमृतवर्षिणा, व श्रवणयोः कर्णयोः, श्रोतॄणां कर्णयोर्मध्येऽमृतस्राविणेत्यर्थः । अथाऽस्य शब्दस्य शक्तिविशेषणमाह-किं कुर्वता शब्देनाऽऽयोजनं भ्राम्यता, योजनमामर्यादीकृत्य पर्यटता, योजनगामित्वाद्भगवच्छब्दस्येतिं । ननु समस्तानामपि जिनपतीनां स्वस्वतीर्थप्रवर्तकत्वेनाऽऽयत्वमेवाऽस्ति तथा चाऽस्याऽऽद्यस्य जिनपतेरित्युक्ते को विशेष इत्याशङ्कयाऽऽह - वाऽऽद्यत्वमस्याऽऽद्ये कर्मविधौ प्रथमसकलकर्मारम्भे भगवत एव मुख्यत्वेन कर्तृत्वादाद्यत्वमिति चतुर्थकाव्यार्थः ॥ ४ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः
"
ध्वानेनेत्यादि । 'आद्यस्य जिनपतेर्वाणी वः पातु ' इत्यन्वयः । आद्यस्य प्रथमस्य, जिनपतेः = जिनेश्वरस्य तीर्थंकरस्येति यावत्, वृषभदेवस्येत्यर्थः, तस्य चतुर्विंशतौ तीर्थकरेषु प्रथमत्वात् । वाणी - भारती । वः - युष्मान्, पातु रक्षतु । किंविशिष्टा वाणीत्याकाङ्क्षायां ' ध्वानेन मोहं भिन्दाना' इत्यन्वयः, ध्यानेन वनिना मोहम्-अज्ञान. संशयविपर्ययरूपं रागद्वेषादिरूपं वा, भिन्दाना - नाशयन्ती । कीदृशेन ध्यानेनेत्याकाङ्क्षायां 'श्रवणयोरमृतवर्षिणा आयोजनं भ्राम्यता चेत्यन्वयः । श्रवणयोः कर्णयोः, अमृतवर्षिणा - अमृतवृष्टिं कुर्वता, अत्यन्तमधुरेणेत्यर्थः, आयोजनंयोजनं योजनमितक्षेत्रमभिव्याप्येत्यायोजनम्, कोशचतुष्टयरूपयोजनमित क्षेत्र सर्वभागेष्वित्यर्थः । भ्राम्यता - प्रसरता । कथम्भूतं मोहमित्याह - विभिन्नविषयं - कञ्चन कामिन्यादिविविधवस्तुसम्वन्धिनम्, कुत्र स्थितमित्याह - प्राणिनां हृदि, प्राणिनां - देवनरतिरश्चाम्, हृदि - मनसि स्थितमिति शेषः । कया रीत्या भिन्दानेत्याह - युगपद् = एककालम्, मोहस्य तदाश्रयप्राणिनां चानेकविधत्वेऽपि वागतिशयविशेषान्न तत्र कालक्रमापेक्षा; इदमुक्तं भवति - तीर्थंकरस्य भगवत एकरूपापि अर्द्धमागधीभाषा प्रचुरपुण्यजनितातिशयबलाद् वारिदमुक्तवारिवदाश्रयानुरूपतया परिणमते, यदुक्तम्- "देवा देवीं नरा नारीं शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि तैरवीं मेनिरे भगवद्गिरम् ॥१॥ I नह्येवंविधभुवनाद्भुतातिशयमन्तरेणानेकप्राणिनां विभिन्नविषयो मोहो युगपच्छेत्तुं शक्यः । पुनः कथम्भूता वाणीत्याकांक्षायां नृणामुद्यदपूर्वविस्मयरसैवृन्दै कर्णिता ' इत्यन्वयः । नृणां-मनुजानाम्, “नुर्वा ” [ १, ४, ४८ ] इति दीर्घविकल्पनाद् हस्वत्वम् । नृमात्रस्योपादानं तेषां
"
For Private And Personal Use Only
C