SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [टिप्पनक-व्याख्या-विवृतिविभूषिता मनोरथानामपि दुर्विलड्वेन प्लवमानकरिमकरकुम्भीरभीषणोमिणा जलपतिबिम्बितप्राकारच्छलेन जलराशिशङ्कया मैनाकमन्वेष्टुमन्तःमविष्टहिमवतेव महता खातवलयेन वेष्टिता [3], पवनपटुचलितधवलध्वजकलार्जामदग्न्यमार्गणाहतकौञ्जादिच्छिट्टैरिवोद्भ्रान्तराजहंसैराशानिर्गममार्गायमाणैश्चतुर्भिरत्युच्चै!पुरैरुपेता [1], 卐 श्रीमत्पद्मसागरविवुधरचिता व्याख्या 卐 पुनः कथंभूताऽयोध्या, महतेति, महत्या खातिकया वेष्टिता, कथंभूतेन खातवलयेनाऽन्तःप्रविष्टहिमवते वाऽन्तर्मध्ये प्रविटो हिमवान् पर्वतो यत्र स तथा तेन, इवेत्युत्प्रेक्षायां, केन जलप्रबिम्बितप्राकारच्छलेन खातिकाजलप्रतिबिम्बितकोट्टछद्मना, किमर्थमसौ तत्र प्रविष्ट इत्याह-किंकर्तुमन्वेष्ट्र चीक्षितुं के मैनाकं मैनाकनामकं स्वपुत्रं, कया जलराशिशङ्कया समुद्राशयेत्यर्थः । अथ खातवलयस्य समुद्रौपम्यं विशेषणाभ्यां द्रढयति, कथंभूतेन खातवलयेन मनोरथानामपि दुर्विलचेन्न, तल्लङ्कने मनोरथा अपि कर्तुमशक्या इत्यर्थः । पुनः खातवलयेन कथंभूतेन प्लवमानकरिमकरकुम्भीरभीषणोमिणाप्लवमानास्तरन्तः करिणो हस्तिनो मकरा मत्स्याः कुम्भीरा जलजीवविशेषास्तीषणा भयकारिण ऊर्मयः कलोला यस्य स तथा तेनेति ।। उ ॥ पुनः कथंभूताऽयोध्याऽन्युच्चैश्चतुर्भिर्गोपुरैः प्रतोलीभिरुपेता, कथंभूतैर्गोपुरैः पवनपटुचलितधवलध्वजकलापैः पवनेन वायुना पटु यथा स्यात्तथा चलितः कम्पितो धवल वजकलापो येषां ते तथा तैः, जामदग्न्यमार्गणाहतकोजादिछिद्रेरिव, इवोत्प्रेक्ष्यते, जमदग्नेरपत्यं जामदग्न्यः परशुरामस्तस्य मार्गणा बाणास्तैराहतो विद्धः कोजाद्रिः कौजपर्वतस्तस्य छिद्राणीव छिद्राणि तैर्गोपुरच्छलेन जातान्येवंविधानि कौञ्जादिछिद्राणीत्यर्थः । कथंभूतैस्तच्छिट्टैरिति, उद्भान्तेति, कम्पितध्वजच्छलातूद्धान्ता उच्चलिता राजहंसा येषु तानि तथा तैर्वजानां श्वेतवर्णत्वेन राजहंसोत्प्रेक्ष्यत्वम् । पुनः कथंभूतैर्गोपुरैस्तच्छिद्रेश्वाऽऽशानिर्गममार्गायमाणैराशासु दिक्षु निर्गनं विहरणं मार्गायमाणा गवेषयन्तो जना येषु ते तथा तैस्तेषु गोपुरेषु स्थित्वा जनाः पूर्वेय पश्चिमेयमित्यादिदिग्विभागं निर्णयन्तीत्यर्थः । कोजादिछिद्रपक्षे त्वाशानिर्गम मार्गायमाणा हंसा येषु ते तथा तैरित्यर्थः ॥ऊ। ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? महता सातवलयेन वेष्टिता, महता-विशालेन, खातवलयेन-खातं परिखा, तदेव वलयाकारत्वाद् वलयं तेन वेष्टिता-आवृता । कीदृशेन खातवलयेन ? मनोरथानामपि-अभिलाषाणामपि,दुर्विलजेनदुः खेन लङ्यतेऽतिक्रम्य गम्यते इति दुर्विलङ्गस्तेन तथा, यद्विलङ्घने मनोरथा अपि दुष्करा आस्तां पारगमनवातेति भावः । पुनः कीदृशेन खातक्लयेन ? प्लवमानकरिमकरकुम्भीरभीषणोर्मिणा-'लवमानास्तरन्तो ये करिणो जलहस्तिनो मकराः स्वनामख्याता जलजन्तुविशेषाः कुम्भीरा जलसूकरास्तैर्भीषणा भयानका उर्मयः कल्लोला यस्मिन् तेन तथा । पुनः कीदृशेनेव खातवलयेन ? अन्तःप्रविष्टहिमवतेव-अन्तःप्रविष्टो मध्यगतो हिमवान् हिमाचलो यत्र तेन तथैव, कया रीत्या हिमवानन्तः प्रविष्टः ? जलप्रतिबिम्बितप्राकारच्छलेन-जले खातोदके प्रतिबिम्बित आसनवर्तितया प्रतिबिम्बरूपेण दृश्यमानो यः प्राकारस्तस्य छलेन व्याजेन । किं कर्तुं हिमवान् अन्तःप्रविष्टः ? मैनाकमैनाकनामानं स्वपुत्रम्, अन्वेष्टुम् अदृश्यतां गतं द्रष्टुम् , अन्वेषणायेत्यर्थः, ननु मैनाकस्तु समुद्रं प्रविश्यादृश्यो जातः कथमत्रान्वेषणा! जलराशिशङ्कया-प्रस्तुतखातस्य विशालागाधतया हिमवतो जलधिशङ्का जाता, अतो मैनाकान्वेषणायान्तः प्रविष्ट इत्यर्थः । अत्रोत्प्रेक्षारूपकालङ्कारौ ॥ उ॥ पुनः कीदृशी नगरी ? गोपुरैः=नगरद्वारैः, उपेता-सहिता, कीदृशैर्गोपुरैः ? पवनपटुचलितधवलध्वजकलापैः-पटु यथा स्यात्तथा चलित इति पहुंचलितः, पवनैः पटुचलितो धवलवजानां श्वेतपताकानां कलापः समूहो येषु ते तथा तैः । कीदृशैरिव गोपुरैः ? जामदग्न्यमार्गणाहतकौनाद्रिच्छिद्रेरिव-जामदग्न्यस्य परशुरामस्य For Private And Personal Use Only
SR No.020833
Book TitleTilak Manjri
Original Sutra AuthorN/A
AuthorDhanpal, Padmasagar, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy