SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [टिप्पनक-व्याख्या-विवृतिविभूषिता वसमाकर्ण्यमानमधुरतारघटीयन्त्रचीत्कारैः परित्यक्तसकलव्यापारेण पौरवनितामुखार्पितदृशा सविक्रियं प्रजल्पता पठता गायता च भुजङ्गजनसमाजेन क्षणमप्यमुच्यमानमनोभवभवभवानीभवनैः प्रतिदिवसमधिकाधिकोन्मीलन्नीलकान्तिभिः स्वसन्ततिप्रभवपार्थिवभीतये दिनकरेणेवाकृष्यसञ्चार्यमाणसकलशर्वरीतिमिरैरमरकाननानुकारिभिरारामैः श्यामायमानपरिसरा [ऋ.] विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिपनकम् ॥ परिसरः-पर्यन्तः॥ ऋ॥ ॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या है ङ्गजनसमाजेन भुजङ्गजना गणिकापतयस्तेषां समाजेनैकीभूतत्वात् परिषदा वृन्देनेत्यर्थः, किं कुर्वता भुजम जनसमाजेन सविक्रियं विक्रियासहितं यथा स्यात्तथा प्रजल्पता लपता पटता भणता गायता गानं बुद्धता, पुनः कथंभूतेन भुजङ्गजनसमाजेन पौरवनितामुखार्वितदृष्टिना नगरस्त्रीवदनदत्तचक्षुपाऽत एवं कथंभूतेन पुनस्तेन परित्यक्तसकलव्यापारेणेति । अथ पुनः कथंभूतैरारामैस्त्वति त्वरया वेगेन पतन्ति यानि जलानि तेषां विसरः समूहो यस्यां सा तथैवंविधा सारिणी कुल्या तया सिताः सेकं प्रापिताः सान्द्राः सरसा वालटुमा वाटवृक्षा येषु ते तथा तैः । पुनः कथंभूतैरारामैः, आकयेत्याकण्यमानाः सन्तो मधुरतरा घटीयन्त्रस्याऽरघट्टस्य चीत्कारा येषु ते तथा तैराकर्ण्यमानाः केनेत्याह-परीति, श्रमवता पथिकजगेनेत्यर्थः । अत एव ता कभूतेन द्रुमतलनिपादिना द्रुमतलोपविटेनेत्यर्थः ॥ ३ ॥ ॐ श्रीविजयलाघण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? आरामैः केलिवनैः, श्यामायमानपरिसरा-श्यामायमानः श्याम इव दृश्यमानः परिसरः स्वसमीपस्थो बहिर्भागो यस्या : सा तथा । कीदृशैराराभैः । त्वरापतजलविसरसारणीसिक्तसान्द्रबालद्रुमैः त्वरया वेगेन पततां जलानां विसरः समुदायो यत्र तादृशी या सरणी कुल्या कृत्रिमक्षुद्रनदी तया सिक्ता सेचनं प्रापिता सान्द्रा निविडा वालद्रुमा लघुवृक्षा येषु ते तथा नैः । पुनः कीदृशैरारामैः ? दुमतलनिषादिना परिश्रान्तपथिकलोकेन प्रतिदिवसमाकर्ण्यमानमधुरतारघटीयन्त्रचीत्कारैः, द्रमतलनिपादिना वृक्षाधोभागनिषण्णेन, परिश्रान्तपथिकलोकेन-परिश्रमयुक्तप्रवासिजनसमुदायेन, जातावेकवचनम् , प्रतिदिवसं-दिने दिने, आकर्ण्यमानमधुरतारघटीयन्त्रचीत्कारैः आकर्ण्यमानाः श्रूयमाणा मधुराः कर्णप्रियास्तारा दीर्घा घटीयन्त्रस्य अरघट्टनाम्नो जलोद्धारणयन्त्रस्य चीत्कारा येषु ते तथा तैः । पुनः कीदृशैरारामैः ? परित्यक्तसकलव्यापारेण पौरवनितामुखार्पितदृशा सविक्रिय प्रजल्पता पठता गायता च भुजंगसमाजेन क्षणमायमुच्यमानमनोभवभवभवानीभवनैः । परित्यक्तसकलव्यापारेण= परित्यक्तो मुक्तो सकलव्यापारो विलासातिरिक्तं सकलं कार्य येन स तथा तेन, पौरवनितामुखार्पितदृशापौरवनितानां गणिकानां मुखेषु अर्पिता स्थापिता दृग् दृष्टियन स तथा तेन, सविक्रियं-भ्रविक्षेपादिविविधक्रियायुक्तं यथा स्यात् तथा, प्रजल्पता-सामान्यतो वदता, पठता-पाठं कुर्वता, गायता गायनं कुर्वता, च-समुच्चये, भुजंगसमाजेन जारसमुदायेन, क्षणमपि कञ्चितत्कालमपि, अमुच्यमानमनोभवभवभवानीमवनैः अमुच्यमानानि मनोभवस्य कामदेवस्य भवस्य शंकरस्य भवान्या पार्व-या भवनानि येषु ते तथा तैः, यद्वा मनोभवः कामदेवः स एव भवः शङ्करस्तस्या भवान्या रतेर्भवनानि गृहाणि, तथा च अमुच्यमानानि मनोभवभवभवानीभवनानि रतिगृहाणि यत्र ते तथा तैः । अत्र ‘भवभवभवानीभवन' इतिव्यञ्जनवर्णस्यासकृत्साम्याद् बृत्यनुप्रासालङ्कारः, रूपकम् , अतिशयोक्तिश्च तेषां संसृष्टिः । पुनः कीदृशैरारामैः ? प्रतिदिवसं-दिने दिने, अधिकाधिकोन्मीलन्नीलकान्तिभिः-अधिकाधिकमत्यन्तमुन्मीलन्ती विकसन्ती नीला श्यामा कान्तिर्येषु ते तथा तैः । अत एव कीदृशैरिवारामैः ? स्वसन्ततिप्रभवपार्थिवप्रीतये दिनकरेणाकृष्य संचार्यमाणसकलशर्वरीतिमिरैरिव, स्वसन्ततिप्रभवपार्थिवप्रीतये स्वसन्ततिः स्वापत्यप्रवाहस्तत्र प्रभवा उत्पन्ना For Private And Personal Use Only
SR No.020833
Book TitleTilak Manjri
Original Sutra AuthorN/A
AuthorDhanpal, Padmasagar, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy