SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी] सततगृहव्यापारनिषण्णमानसाभिनिसर्गतो गुरुवचनानुरागिणीभिरनुल्वणोज्ज्वलवेपाभिः स्वकुलाचारकौशलशालिनीभिः शालीनतया सुकुमारतया च कुचकुम्भयोरपि कदर्थ्यमानाभिरुद्धत्या मणिभूषणानामपि खिद्यमानाभिर्मुखरतया रतेष्वपि ताम्यन्तीभिः वैयात्यपरिग्रहेण स्वप्नेऽप्यलड्डयन्तीमिारतोरण विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् + अनुल्वणः अनुभूटः। शालीनता-कुलीनता सलज्जता च । उद्धत्या-उद्धतत्वेन । वैयात्यंधृष्टता । असतीव्रताभिः सह तीव्रतया वर्तन्ते यास्ताः सतीव्रता न तथा असतीव्रतास्ताभिः, तीक्ष्णत्वरहिताभिरितिविरोधपरिहारो विरोधस्तु स्वयमेवोद्भाव्यः।कृतकुसंगाभिः विहितपृथ्वीसंबन्धाभिः,चरणोर्न स्वभावे-प्रकृतौ कृतकुत्सितसंबन्धाभिः॥औ॥ ॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ पुनः कथंभूताऽयोध्याऽलङ्कता भूषिता, काभिर्वधूभिः, कथंभूताभिः सततेति, सततं निरन्तरं गृहव्यापारे निषण्णं स्थितं मानसं यासांतास्तथा ताभिः, पुनः कथंभूताभिस्ताभिनिसर्गत इति, निसर्गतः स्वभावेन गुरुवचनेष्याराध्यवचनेष्वनुरागोऽस्त्यासामिति तास्तथा ताभिः, पुनः कथंभूताभिरनुल्वणेति, अनुल्वणोऽनकटः स्वजात्यचित उज्ज्वलः श्वेतो वेषो यास तास्तथा ताभिः, श्वेतवेषस्तु नवपरिणीतत्वात्तासामिति । पन: कथंभूताभिर्वधूभिः स्वकुलाचारेति, स्वकुलस्य य आचारः स्वकुलाचारस्तत्र यत्कौशलं नैपुण्यं तेन कृत्वा शालिनीभिमनोज्ञाभिः । पुनः कथंभूताभिवधूभिः शालीनेति, शालीनतयाऽधृष्टतया, चः पुनरर्थे, सुकुमारतया कचकम्भयोरपि कदर्थ्यमानाभिरिति भोगीभिस्तत्रापाद्यमानकदर्थनाभिरित्यर्थः । पुनः कथंभूताभिर्वधूभिरुद्धृत्येति, मणिभूषणानामुदत्या, उदूचं ग्रीवादी धरणेन भूयोभारात् खिद्यमानाभिः । पुनः कथंभूताभिस्ताभिस्ताम्यन्तीभिरिति, रतेष्वपि मैथुनेष्वपि नवत्वेन मुखरतया वाचालतया ताम्यन्तीभिः क्लेश्यमानाभिः, पुनः कथंभूताभिर्वधभिर्वयात्येति. वि विशेषेण याति सन्मार्गमिति वैयात्यं ब्रह्म तत्परिग्रहेण तत्स्वीकारेण स्वप्नेऽपि निद्रायामपि द्वारतोरणमलनयन्तीमिस्तदनुलनेन बहिरगच्छन्तीभिः । ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? कुलप्रसूताभिः उत्तमकुलोत्पन्नाभिः, वधूभिः नवपरिणीतनारीभिः, अलकृता-सुशोभिता। कीदृशीभिर्वधभिः ? सततगृहव्यापारनिषण्णमानसाभिः सततं निरन्तरं गृहस्य व्यापारेषु कार्येष निषण्णं लीनं मानसं मनो यासां तास्तथा ताभिः । पुनः कीदृशीभिवेधूभिः ? निसर्गतः-स्वभावतः, गुरुवचनानरागिणीभिः गुरूणां महतां वचनेषु अनुरागोऽत्यन्तं प्रीतिरस्त्यासामिति तास्तथा ताभिः । पुनः कीदृशीभिर्वधभिः? अनुल्वणोज्ज्वलवेषाभिः-अनुल्वणोऽनुद्भटः स्वकुलाचारोचित उज्ज्वलो विशदश्च वेषो यासां तास्तथा ताभिः । पुनः कीदृशीभिः ? स्वकुलाचारकौशलशालिनीभिः स्वकुलस्याचारे यत् कौशलं निपुणता तेन शालन्ते श्लाघावन्त्यो भवन्तीत्येवंशीलास्तास्तथा ताभिः । पुनः कीदृशीभिः? शालीनतया-कुलीनतया लज्जालुतया च, सुकुमारतया-सुकुमालतया, चाम्समुच्चये, कुचकुम्भयोरपि-कलशाकारस्तनयुगलस्यापि, उद्धत्या-उच्चत्वेन महत्त्वेन वा, कदर्थ्यमानाभिः= पीड्यमानाभिः, पीनोच्चस्तनवहने सुकुमालतया पीनत्वप्रयुक्तं लज्जालुतया लोकदृश्यमानोच्चत्वप्रयुक्तं च दुःखं दधानाभिरित्यर्थः, अपिशब्देनात्यन्त सुकुमारत्वं सूच्यते । स्वभावे लज्जालुता स्तनयोः स्थूलता शेषावयवेषु च सुकुमारतेति भावः । पुनः कीदृशीभिवधूभिः ? मणिभूषणानामपि-मणिखचितालङ्काराणामपि आस्तामन्येषाम् , मुखरतया परस्परस्फालनेन वाचालतया, खिद्यमानाभिः खेदं वहमानाभिः, एतेन मणिभूषणधारणमवाचालत्वं च सूच्यते । पुनः कीदृशीभिर्वधूभिः ? रतेष्वपि-मैथुनक्रियास्वपि, आस्तामन्यत्र, वैयात्यपरिग्रहेण= निर्लजताङ्गीकारेण, निर्लज्जतामन्तरेण मैथुनक्रियानुपपत्तेः, ताम्यन्तीभिः खिद्यमानाभिः । एतेनात्यन्तं लजालत सुचिता । पुनः कीदृशीभिः ? स्वप्नेऽपि-निद्रावस्थायामपि, आस्तां जागरणे, द्वारतोरणं-स्वगृहद्वारबहिर्भागम्, अलजयन्तीभिालनमकुर्वन्तीभिः । परपुरुषं मनसापि नेच्छन्तीभिरिति भावः। अत्र रूपकोत्प्रेक्षातिशयोक्तिकाव्यलिङ्गानां संसृष्टिः। For Private And Personal Use Only
SR No.020833
Book TitleTilak Manjri
Original Sutra AuthorN/A
AuthorDhanpal, Padmasagar, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy