________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६
[ टिप्पनक-व्याख्या- विवृतिविभूषिता
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
त्पत्त्यनन्तरं प्रथमे, धर्मकथाविधौ धर्मस्य दानशीलतपोभावनारूपस्य साधुधर्मगृहिधर्मादिभेदस्य वा या कथा कथनं तस्या विधौ कार्ये, अत्रापि 'आद्यस्य जिनपतेः' इत्यस्य योजना कार्या । तथा चायमर्थः - लब्धकेवलज्ञानेन भगवता श्रीवृषभदेवेन समवसरणे उपविश्य या प्रथमधर्मदेशनायां भारती प्रवर्तिता, मनुजादिना चात्यन्ताश्चर्यरसपूर्वकं श्रुता सा पाश्विति भावः । इदं शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणन्तु - 'अतिधृत्यां सौ ज्सौ तौ गः शार्दूलविक्रीडितं छै: ' [ मसजसततगाः, छैरिति द्वादशभिर्यतिः ] इतिच्छन्दोऽनुशासने ||४||
Acharya Shri Kailassagarsuri Gyanmandir
,
"
अन्यादिति । गिरामधिपतेर्देव्या मूर्त्तिर्जगन्त्यव्यादित्यन्वयः । गिरां वाणीनाम्, अधिपतेः = स्वामिन्याः, देव्याः=देवतायाः, सरस्वत्या इत्यर्थः, मूर्त्तिः = आकृतिः, जगन्ति = जगत्त्रयम्, त्रिभुवनगत प्राणिन इत्यर्थः, अन्याद्रक्षतु । कथम्भूताया देव्या इत्याकाङ्क्षायां 'पुरुषोत्तमनाभिसूतेर्देवस्य वक्त्रकमलोदरमावसन्त्याः इत्यन्वयः, पुरुषोतमनाभिसूतेः पुरुषेषु उत्तमः पुरुषोत्तमः स चासौ नाभिश्व नाभिनामा राजा च पुरुषोत्तमनाभिः तस्मात् सुतिरूपत्तिर्यस्य स पुरुषोत्तमनाभिसूतिस्तस्य तथा । यद्वा पुरुषोत्तमश्चासौ नाभिसूतिश्च नाभिजन्मा च पुरुषोत्तमनाभिसूतिस्तस्य तथा, देवस्य = परमेश्वरस्य नाभिनृपनन्दनस्य ऋषभदेवस्येत्यर्थः । यद्वा पुरुषोत्तमेषु उत्तमजनेष्वपि नाभिः प्रधाना सूतिरुत्पत्तिजन्म यस्य तस्य तथा, तीर्थंकरस्येत्यर्थः, यतस्तीर्थंकरजन्मनि त्रिभुवनव्यापी उद्योतः षट्पञ्चाशतो दिक्कुमारीणां चतुष्षष्टेरिन्द्राणाञ्चागमनम्, मेरुशिखरेऽभिषेकः, इत्यादिकं भवति । " प्राण्यङ्गे क्षत्रिये नाभिः प्रधाने नृपतावपि " इति शास्वतः । वक्त्रकमलोदरं वक्त्रं वदनं तदेव प्रफुल्लतादिसाम्यात् कमलं तस्योदरं मध्यभागम्, “ उपान्वध्यावस: ' [२, २. २१ ] इत्यधिकरणस्य कर्मत्वविधानेन द्वितीया, अतोऽधिकरणार्थी बोध्यः तथा च ' मुखकमलमध्यभागे ' इत्यर्थो बोध्यः, आवसन्त्याः = निवासं कुर्वन्त्याः, सरस्वती नाम वाण्यधिष्ठात्री शरदिन्दुगौरदेहा देवी, तदधिष्टिता वाण्यपि सरस्वतीशब्देनोच्यते, एवं तन्मूर्त्तिरपि द्वेधा भवति, एका करचरणादिमंद्देहरूपा, अपरा वाणीसंदोहरूपा च, अस्मिन् पद्ये उभय्यपि समाश्रिता, 'आवसन्त्याः ' इत्यत्र वाणीरूपा सरस्वती गृहीता, ' शरदिन्दुगौरी' इत्यत्र करचरणादिमद्देहरूपा सरस्वतीमूर्त्तिर्गृहीता, 'धौतेव' इत्यत्र वाणीसंदोहरूपा सरस्वती मूर्तिर्गृहीता । कथम्भूता मूर्त्तिरित्याहशरदिन्दुगौरी=शरद् आश्विन कार्तिकमासात्मक ऋतु:, तस्या य इन्दुश्चन्द्रस्तद्वद् गौरी धवला, आश्विनकार्तिकमासयोमध्ये रजोॠष्टिजलवृष्टिघनघटादिविरहेण स्वच्छे गगने चन्द्रोऽतीवधवलो दृश्यते तत्सादृश्यप्रतिपादनार्थं शरदुपादानम् । कथं शरदिन्दुगौरी जातेत्यत्रोत्प्रेक्षते दन्तकिरणप्रकरेण धौतेव, दन्तकिरणप्रकरेण दन्तानां किरणप्रकरेण धवलकान्तिसमूहेन धौतेव-प्रक्षालितेव वाणीरूपमूर्त्या मूखान्निर्गमनसमये दन्तकिरणप्रवाहेण प्रक्षालनं जातमतः शरदिन्दुगौरी जातेति भावः । अत्र सरस्वतीदेहवाण्योरभेद आश्रितः । लौकिकैः सरस्वती ब्रह्मणः पुत्रीति प्रतिपन्नम्, तदुनुकूलोsर्थोऽयं बोध्यः । तथाहि । पुरुषोत्तमनाभिसूतेः पुरुषोत्तमो लोकरूड्या कृष्णस्तस्य नाभिः तात्थ्यात् तद्द्व्यपदेशेन नाभिगतं कमलं तत्र सूतिस्त्पत्तिर्यस्य स तथा तस्य, ब्रह्मण इत्यर्थः, लौकिकैः किल ब्रह्मण उत्पत्तिः कृष्णनाभिकमलादभ्युपगता, नन्वस्य ब्रह्मणो लौकिकैर्देवत्वमपि स्वीकृतं तत् किं न निर्दिश्यतेऽत आह- देवस्य कीदृश्याः सरस्वत्या इत्याह-वक्त्रकमलोदरम् आवसन्त्याः, वक्त्रकमलोदरं वक्त्रमेव कमलं वक्त्रकमलं तेन सन्निहितं वक्त्रकमलसन्निहितम्, वक्त्रकमलसन्निहितम् उदरं यस्मिन् कर्मणि तत् वक्त्रकमलोदरम् मध्यमपदलोपी समासः, क्रियाविशेषणं च, तथा चायमर्थः, वक्त्रकमलसन्निहितमुदरं यथा स्यात्तथा आवसन्त्या पितृपुत्रीभावमर्यादया निवासं कुर्वन्त्याः । अयं भावः । सरस्वती पितृस्नेहेन ब्रह्मण उत्सङ्गे तिष्टति, ब्रह्मा च पुत्रस्नेहेन तन्मुखं चुम्बति एतच्चुम्बनकाले ब्रह्मणो वदनकमलं स्वोदरसन्निहितं भवति, एवं मुखविकाशे धवलदन्तकिरणजालेन उत्सङ्गस्थितसरस्वतीदेहो धौतो भवति एतदाह-दन्तकिरणप्रकरेण धौतेवेति, अतः कीदृशी जातेत्याह - शरदिन्दुगौरी शेषं स्पष्टम् ॥
इदं वसन्ततिलकावृत्तम् । तल्लक्षणं तु 'त्भौ जौ गौ वसन्ततिलका' [ तभजजगगाः ] इतिच्छन्दोऽनुशासने ॥५॥
For Private And Personal Use Only