________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[टिप्पनक-टीका-विवृतिविभूषिता ॐ विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ भव्यग्रामानुशासी चरणजयकृतौ सिंहकल्पश्च शास्त्रविद्यादक्षः प्रदाता प्रतिदिनरजनि क्षेत्रभृद्राज्यभीतेः । यो नित्यं दान्तराजैविहरति च सदाचारलब्धखरूपः श्रीशान्ति तं क्षमाभृन्निकर उभयतश्चक्रिणं नन्नमीमि ॥ ३ ॥ स्रग्धरा ॥
卐 परागविवृतिमङ्गलाचरणटिप्पनिका ॥ कल्लोलस्य हर्षस्य माला पङ्क्तिर्यस्यां सा तथा, जडपरिणतिः-युगलजानाम् ऋजुजडत्वात् जडानां युगलजजनानां परिणतिर्मनोभावना । यद्वा जडानां मूर्खाणामास्तां विदुषाम् । गाहते-सेव्यतयाऽवगाहते, सद्वंशः सन् उत्तमो वंशोऽन्वयो यस्य स तथा। वारिराशौ वाशब्दः समुच्चये, अरीणां परस्परं भक्ष्यत्वादिना प्रतिपक्षभावमापनानां जीवानां राशौ निचयरूपायाम् , संसृतौ संसारे, सदमृतसरणि सद् उत्तमं यद् अमृतं मोक्षं तस्य सरणि मार्गम् , संश्रितः आश्रितः । श्रीनामिसूतः= आदिनाथः । धीवराणाम्-प्रवरमतिमताम्, नराणाम् जनानाम्, विलसनवसतिः-विलासस्थानम् , अस्तु भवतु ॥ पोतः प्रवहणं तत्पक्षे
लब्धानल्पार्थसार्थः लब्धः प्राप्त ऊढोऽनल्पो विपुलोऽर्थसार्थों धनधान्यादिसंचयो येन स तथा, मकरधिजलधिम्, अधरीकृत्य अधः कृत्वा, सत्तया स्थित्या, आस्ते विराजते । जडपरिणतिः डलयोरैक्यात् जलपरिणामरूपा, उद्यत्कल्लोलमाला-उद्यन्ती उद्यतां वा कल्लोलानां तरङ्गाणां माला पङ्क्तिः , गाहते अवगाहते । सद्वंशः सन्त उत्तमा विद्यमाना वा वंशा वेणवो यत्र स तथा । वारिराशौ-जलधौ, संसृतौ-संचरणक्रियायाम् , सदमृतसरणि सतीमुत्तमाममृतस्य जलस्य सरणिं मार्गम् , संश्रितः आश्रितः, धीवराणाम् मासिकानाम्, उपलक्षणत्वात् जलयात्रां चिकीकृणामित्यर्थः । विलसनवसतिः विलासवसतिः, अस्तु-भवतु ॥ २ ॥
उभयतः उभयस्मिन् द्विविधेऽपीत्यर्थः, क्षमाभून्निकरे क्षमाभूतो मुनयो राजानश्च तेषां निकरे समूहे, मुनिसमुदाये राजसमुदाये च । चक्रिण चक्रवर्तिनम् , तीर्थकरं चक्रवर्तिनं चेति भावः । तत्र तीर्थकरपक्षे___ भव्यग्रामानुशासी=भव्यानां मुक्तिगमनाहजीवानां यो प्रामः समुदायस्तदनुशासी तस्य धर्मोपदेशदातेत्यर्थः ।
चरणजयकृतौ चरणस्य चारित्रस्य जयः सर्वोत्कर्षभावः तत्कृतौ, सिंहकल्पः-तत्करणे सिंहसदृशः शूर इति यावत् , चारित्रग्रहणे चारित्रपालने चारित्रदाने चातीव शूर इति भावः । शास्त्रविद्यादक्षः शास्त्राणामागमानां विद्यायां दक्षो निपुणः । प्रतिदिनरजनि-सर्वदा, क्षेत्रभृद्राज्यभीतः क्षेत्रभृतां शरीरिणां या राजिः पङ्क्तिस्तस्या अभीतेरभयस्य, प्रदाता-प्रकर्षण दायकः । दान्तराजैः-दान्ता इन्द्रियदमनकारिणो मुनिजनास्तेषां ये राजानः, प्रवरमुनिजना इत्यर्थः, तैस्तथा, विहरति-महीतले विचरति; सदाचारलब्धखरूपः सदाचारेण विमलचारित्रेण लब्धं प्राप्तं खरूपमात्मीयवास्तविकरूपं येन स तथा नन्नमीमि-भृशं पुनःपुनर्वा नमामीत्यर्थः । चक्रवर्तिपक्षे
भव्यग्रामानुशासी-भव्या रमणीया ये ग्रामा उपलक्षणत्वाद् नगरजनपदादयस्तदनुशासी प्रजापतित्वेन तदनुशिप्टिकृत् , च रणजयकृतौ चशब्दः समुच्चये, रणे संग्रामे जयकृतौ विजयक्रियायाम् , सिंहकल्पः=सिंहसदृशः, अत्यन्तशूर इत्यर्थः । शास्त्रविद्यादक्षः शास्त्रविद्या नीतिशास्त्रादिज्ञानं शस्त्रसम्बन्धि ज्ञानं वा तत्र दक्षश्चतुरः । क्षेत्रमृद्राज्यभीतेःक्षेत्रमृद् यद् राज्यं तस्य भीतेर्भयस्य, प्रदाता प्रकर्षेण छिन्दानः । दान्तराजैः= दन्तिनां करिणां समूहो दान्त तस्य राजभिः, प्रवरहस्तिभिरित्यर्थः । विहरति-क्रीडति । सदा चारलब्धखरूपः सदा नित्यं चाराश्चरपुरुषास्तैलब्धमवगतं स्वरूपं स्वकीयवृत्तान्तं येन स तथा ॥३॥
For Private And Personal Use Only