________________
Shri Mahavir Jain Aradhana Kendra
२२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक-व्याख्या-विवृतिविभूषिता
स्वादुतां मधुना नीताः, पशूनामपि मानसम् । मदयन्ति न यद्वाचः, किं तेऽपि कवयो भुवि ? ॥ ११॥ [ पथ्यावृत्तम् ] ॥
5 विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकम्
"
किं तेऽपि कषयः = कवितारो न कवय इत्यर्थः कस्यां ? भुवि जगति, यद्वायो येषां गिरो न मदयन्ति न हर्षयन्ति, किं तत् ? मानसम् केषा ? पशूनामपि मूर्खाणामथाऽऽस्तां विदुषाम्, किंभूताः ? नीताः प्रापिताः, को ? स्वादुतां मधुरताम्, केन ? मधुना माधुर्येणेत्येकोऽर्थः । अपरश्च किं तेऽपि कवयः कं जलं तस्य वयः पक्षिणो हंसादयः कस्य ब्रह्मणो वा वयो-हंसा वाहनत्वात् एतच्चोपलक्षणं कोकिलादिपक्षिणाम्, न कवय इत्यर्थः, यद्वाचो यद्गरो भुवि पृथिव्यां पशूनां - तिरश्चामथास्तां मनुष्याणां मानसं न मदयन्ति न मतं कुर्वन्ति । किंभूता यद्वाचो ? नीताः प्रापिताः, कां ? स्वादुतां माधुर्यम्, कैन ? मधुना चैत्रेण तत्र पुष्परसपानादिना स्वरमाधुर्यप्राप्तेः, अथवा पिकवयः किं कोकिलपक्षिणस्ते भुवि - पृथिव्यां नैवेत्यर्थः ॥ ११ ॥
5 श्रीपद्मसागरविवुधरचिता व्याख्या
ननु दुर्जनपरिहारेण कवीनां वन्यत्वमुपदर्शितं ते च कवयः किं वाङ्मात्रेण स्युर्वाग्विशेषेण वेति शिष्यसन्देहनिरासार्थं वाग्विशेषेणैव कविता स्यान्न यथातथेति दर्शयन्नाह - स्वादुतामिति । व्याख्या० अत्र हि कवीनां कोकिलानां च साम्यमुपवर्णितम्, तथा च तेऽपि किं भुवि पृथिव्यां कवयः स्युर्नैव स्युरित्यर्थः । ते च क इत्याह यद्वाच इति येषां गिरो मधुना माधुर्यगुणेन स्वादुतां नीताः प्रापिताः सत्यः पशूनामपीति पशुप्रायाणामपि जनानां मानसं चेतो न मदयन्ति मदैचि हर्ष इति धातोर्न मदवद्धर्षवत् कुर्वन्ति । अयं भावः कवीनां स्ववाग्विलासफलं तु मुग्धजनबोध एव, मुग्धजनास्तु पशुप्राया एव, तथा च कविभिस्तथा स्ववाग्विलासः कर्तव्यो यथा मुग्धा बुध्यन्ते हर्षवन्तश्च भवन्ति, येषां वाचस्तु नैतादृशास्ते स्ववाक्फलाभावात् कवय एव न स्युरिति तात्पर्यम् । अथ कोकिलार्थ उपदर्श्यते, ते किं पिकाश्च ते वयश्च पक्षिणश्च पिकवयः कोकिलपक्षिणो भण्यन्ते नैव भण्यन्त इत्यर्थः, के त इत्याह-मधुना चैत्रेण स्वादुतां नीताः सत्यो यद्वाचो येषामालापा गवादीनामपि पशूनां मानसं चेतो न मदयन्ति न मदोन्मत्तं कुर्वन्ति । अयं भावः, कोकिला हि चैत्रमासे मधुरभाषिणः सन्त आस्तां विदग्धजनान् । पशूनपि रञ्जयन्ति । ये च नैवंविधाः पक्षिणो न ते कोकिलाः किन्तु काकप्राया एवेति वृत्तार्थः ॥ ११ ॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
तदन्यतद्विपरीतवदनप्रवृत्तां च जिह्वां धारयन्तीत्यर्थः, मिथ्याभाषिण इति भावः । क्व लज्जितव्यम् ? मनीषिणां विदुषाम्, ' मध्ये ' इति शेषः, निरुक्तदुर्जनैर्विद्वत्सभायामवश्यं लज्जितव्यमिति फलितोऽर्थः । मनीषिण इतिपाठे मनीषिणः पण्डितंमन्या दुर्जना इत्यर्थः । सर्पपक्षे- 'द्विजिह्नतां यान्तो ये अहीनकुलाः शेषे सेवाविशेषं न जानन्ति ते मनीषिणां [मध्ये ] किं न लज्जन्ते इत्यन्वयः । द्विजिहतां सर्पत्वम्, यान्तः = प्राप्नुवन्तः, सर्पलक्षणभूतजिह्वाद्वयधारिण इत्यर्थः, ये, अहीनकुलाः - अहीनां सर्पाणामिनः स्वामी नागराज इत्यर्थः, तस्य कुलं गोत्रं येषां ते तथा, नागराजकुलोत्पन्ना इत्यर्थः, शेषे = नागराजे, सेवाविशेषं विशिष्टाराधनाम्, न जानन्ति ते, मनीषिणां - तत्त्ववेदिनाम्, मध्ये, किं न लज्जन्ते - लज्जन्त एवेत्यर्थः, नागराजकुले समुत्पन्नैरवश्यं नागराजसेवा ज्ञातव्या भवति, अत्र तु तथात्वाभावो लज्जाकारणमिति भावः । यद्वा नकुलपक्षे - ' ही द्विजिह्वतां यान्तो नकुला मनीषिणां [मध्ये] किं न लज्जन्ते' इत्यन्वयः । ही - शब्दो विस्मये वर्तते, तथा च विस्मयोऽत्र वर्तते, कोऽयं विस्मयः ? द्विजिह्वतां = सर्पत्वम्, यान्तः प्राप्नुवन्तः, वयं सर्पा इति भाषिण इत्यर्थः, नकुलाः प्रसिद्धाः, मनीषिणां - बुद्धिमताम् मध्ये किं न लज्जन्ते, लज्जन्त एवेति । इदं पथ्यावृत्तम् तलक्षणं तु अष्टमश्लोकविवृतिप्रान्ते दर्शितम् ॥१०॥
For Private And Personal Use Only