________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
तिलकमञ्जरी] काव्यं तदपि किं वाच्य-मवाचि न करोति यत् ।
श्रुतमात्रममित्राणां, वक्त्राणि च शिरांसि च ॥१२॥ [पथ्यावृत्तम् ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ तदपि किं काव्यं वाच्य भणनीयं न काव्यं वाच्यमित्यर्थः यन्न करोति, किं भूतं सत् ? श्रुतमात्रमाकर्णितमात्रमास्तामर्थादिनाऽवधारितम् , कानि ? वक्त्राणि मुखानि शिरांसि मस्तकानि चकारौ परस्परापेक्षया समुचयार्थों, केषाममित्राणां द्विषतां दुर्जनानामित्यर्थः, किं भूतानि न करोति ? अवाञ्चि वचनरहितानि वक्त्राणि शिरांसि चाऽधोमुखानि गुणयुक्तत्वेन दोषरहितत्वेन च ॥ १२ ॥
卐 श्रीपद्मसागरविबुधरचिता व्याख्या : अथ सत्कविकृतकाव्यस्याऽतिशयं दर्शयति, काव्यं तदपीति। व्याख्या. तदपि किं काव्यं वाच्यं नैवेत्यर्थः, किं तदित्याह-यच्छ्रतमात्रमाकर्णितमात्रं सदमित्राणां स्वस्पर्धिनां वक्त्राणि मुखानि चः पुनरर्थे शिरांसि मस्तकानि, अवाञ्चि इति वक्त्रार्थे न विद्यन्ते वाचो वचनानि येषु तान्यवाश्चि, शिरोऽर्थे तु अवाक्शब्दस्याऽग्रतः प्रथमा[द्वितीया] बहुवचनस्य विद्यमानत्वेनाऽवाचीति रूपसिद्धेरवाञ्चीत्यधःस्थानि न कुर्वन्ति, अयं भावो यस्मिन् काव्ये श्रुते सति स्पर्धिनो न किंचिद्वक्तुं शक्नुवन्ति, यतस्ते हि सर्वथा गुणपरिहारेण किंचिद्रूषणमेव वदन्ति, दूषणस्य तत्र लेशमात्रस्याऽप्यभावान्मौनवन्त एव ते स्युः । शिरांसि तु तत्र दूषणकणस्याऽप्यलाभात्तदनीप्सिततत्तद्गुणश्रवणसंजातशोका इव शिरस्यधः कुर्वन्तीति वृत्तार्थः ॥ १२॥
श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ सम्प्रति कविगुणं वनयति ‘स्वादुतामि 'त्यादिना । —किं तेऽपि कवयः' इत्यन्वयः । किम् ? ते, अपि, कवयः कवितारः, अर्थात कवय इत्यर्थः । क्व ? भुवि-जगति । ते के ? इत्याकाक्षायाम् 'मधुना स्वादुतां नीता यद्वाचः पशूनामपि मानसं न मदयन्तीत्यन्वयः । मधुना-माधुर्येण, स्वादुतां-मनोज्ञताम् , नीताः-प्रापिताः, यद्वाचः येषां गिरः, पशूनामपि-पशुसदृशानां मूर्खाणामपि, आस्तां विदुषाम् , यद्वा पशूनां देवानाम् मानसंचित्तम्, न मदयन्ति=न हर्षयन्ति ॥ कोकिलपक्षे-किं ते पिकवय इत्यन्वयः । तत्र पिकवयः-पिकपक्षिणः, कोकिला इत्यर्थः, मधुना-चैत्रमासेन, तत्र पुष्परसपानादिना स्वरमाधुर्यप्राप्तेः । पशूनामपि-मृगादीनामपि तिरश्चाम् , आस्तां मनुष्याणाम् । भुवि-पृथिव्याम् । शेषं पूर्ववत् । यद्वा ‘किं तेऽपि कवयः' इत्यत्र कवय इत्यस्यायमर्थः-कस्य जलस्य वयः पक्षिणो हंसादयः, अथवा कस्य ब्रह्मणो वयः पक्षिणो हंसवाहनत्वाद् हंसा एतचोपलक्षणं कोकिलादिपक्षिणाम् । शेषं प्राग्वत् । इदं पथ्यावृत्तम् , तलक्षणं तु अष्टमश्लोकविवृतिप्रान्तेऽभिहितम् ॥११॥
अधुना काव्यं समीक्षते 'काव्यं तदपि 'इत्यादिना । 'तदपि कि काव्यं वाच्यम्' इत्यन्वयः । तदपि, किम् ? काव्यं प्रज्ञा नवनवोल्लेख-शालिनी प्रतिभा मता । तदनुप्राणनाजीव-वर्णनानिपुणः कविः ॥१॥ तस्य कर्म स्मृतं काव्यम् ।' इत्याद्युक्तं लोकोत्तरं कविकर्म, वाच्यं-इदं काव्यमस्तीति भणनीयम् , न भणनीयमित्यर्थः, अर्थात्तन्न काव्यमिति फलितोऽर्थः । तत् किम् ? यत् श्रुतमात्रम्-श्रवणगोचरीभूतं सत्, आस्तामर्थादिनाऽवधारितम् , अमित्राणां-शत्रूणां दुर्जनानामित्यर्थः । वक्त्राणि मुखानि, शिरांसि-मस्तकामि, परस्परापेक्षया समुच्चयार्थौ चशब्दो न करोति-न विदधाति, कीदृशानि ? अवाश्चि-मुखपक्षे न विद्यते वाक् वाणी यत्र तादृशानि, वाणीरहितानीत्यर्थः, अत्र अवाच्-शब्दस्य नपुंसके द्वितीयाबहुवचने रूपं ज्ञेयम् , मस्तकपक्षे अव अधोऽचन्ति गच्छन्तीति, अवाश्चि तानि
For Private And Personal Use Only