SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी ] तत्राभूद्वसतिः श्रियामपरया श्रीहर्ष इत्याख्यया, विख्यातञ्चतुरम्बुराशिरसनादाम्नः प्रशास्ता भुवः । भूपः खर्वितवैरिगर्वगरिमा श्रीसीयकः सायकाः, पञ्चेपोरिव यस्य पौरुषगुणाः केषां न लग्ना हृदि ॥ ४१॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥ अस्यैकचत्वारिंशत्तम श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥ फ 5 श्रीमत्पद्मसागरविवुधरचिता व्याख्या फ्र अथ पुनस्त ं श्यराजानं दर्शयति, तत्राऽभूदिति, व्याख्या ० तत्र परमारवंशे, श्रीसीयकनामा भूपोऽपरया द्वितीययाऽभिधया श्रीहर्षोऽभूद्बभूव कथंभूतोऽसौ श्रियां शोभानामिन्दिराणां वा वसतिः स्थानम्, पुनः कथंभूतः प्रशास्ता प्र प्रकर्षेण शास्ता शासकः कस्या भुवः पृथिव्याः नन्वसौ कियत्या भुवः शासक इत्याशङ्कय दर्शयति, भुवः कथंभूतायाश्चतुरम्बुराशिरसनादाम्नश्चत्वारोऽम्बुराशयः समुद्रा एव रसनादाम कामाला यस्याः सा तथा तस्याः, चतुःसमुद्रपर्यन्तभुवो नायकत्वेन शासक इत्यर्थः । यतश्चैवं ततः कीदृशोऽयमित्याह - खर्वितो जग्धो ध्वस्तो वैरिवर्गस्य गरिमा गौरवं येन स तथा, अथाऽस्य राज्ञो वर्णनार्थमेवाऽऽह - पञ्चेषोरिति पञ्चेषोः कन्दर्पस्य सायका sa बाणा इव यस्य श्रीहर्षभूपस्य गुणाः केषां सचेतनानां हृदि हृदये न लग्ना ? अपि तु सर्वेषां हृदये लग्ना इत्यर्थ इति वृत्तार्थः ॥४१॥ ૪૭ 5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5 काङ्क्षायां ‘विश्वामित्रजयोर्जितस्य यस्य भुजयोर्विस्फूर्जितमद्याप्युद्गतहर्षगद्गद् गिरो गुर्जरा अर्बुदे गायन्ति इत्यन्वयः । विश्वामित्रजयोर्जितस्य = विश्वामित्रो गाधिराजपुत्रस्तस्य यो जयः पराभवस्तेन ऊर्जितस्य बलातिशययुक्तस्य, यस्य = परमार भूपतेः, भुजयोः = बाह्रोः, भुजायुगलस्येत्यर्थः, विस्फूर्जितं चेष्टितम्, पराक्रममित्यर्थः, अद्यापि - वर्तमानकालेऽपि धनपालकविकालेऽपीत्यर्थः, उद्गतहर्षगद्गदगिरः- उद्गतः परमार भूपालस्य भुजबलातिशयावबोधेन उत्पन्नो यो हर्ष आनन्दस्तेन गद्गदा अस्पष्टा गिरो वाचो येषां तादृशा गुर्जराः = गुर्जरदेशवासिनो लोकाः, अर्बुदे - अर्बुदगिरौ, गायन्ति स्तुवन्ति । अत्रेयं किंवदन्ती- पुरा किलार्बुदाचले वशिष्टऋषिर्वसति स्म, तस्य नन्दिनी धेनुः गाधिराजपुत्रेण विश्वामित्रेण छलादपहृता, अतः कुपितेन वशिष्टऋषिणा मन्त्रानुच्चार्य स्वाभिकुण्डे आहुतिर्दत्ता, ततस्तस्माद् एको धूमराजनामा वीरः समुत्पन्नः तेन विश्वामित्रसैन्यं संहृत्य नन्दिनी प्रत्यानीता, एतत्कार्येण प्रसन्नो वसिष्टऋषिस्तस्य धूमराजस्य परं शत्रु मारयतीति परमार इति गुणनिष्पन्नं नाम कृतवानिति, एतद्विशेषस्तु पद्मगुप्त [परिमल ]रचितात् नवसाहसाङ्कचरित्राद्विलोकनीयः । अत्रातिशयोक्त्यलंकारः, इदं शादूलविक्रीडितवृत्तम्, तल्लक्षणं तु “ अतिधृत्यां म्सौ ज्सौ तौ गः शार्दूलविक्रीडित ठै: " [ मसजसततगाः, वैरिति द्वादशभिर्यतिः ] इति छन्दोऽनुशासने ॥३९॥ For Private And Personal Use Only तस्मिन् परमारवंशे श्रीवैरिसिंह इति [ नृपः ] अभूदित्यन्वयः । तस्मिन् अनन्तरश्लोकाभिहिते, परमारवंशे= परमारनृपवंशे, श्रीवैरिसिंह इति - श्रीवैरिसिंह इति नाम्ना प्रसिद्धः श्रीवैरिसिंहनामेत्यर्थः, नृपवंशप्रस्तावान्नृपः, अभूद् बभूव । कीदृशोऽयं नृपः ? रिपुकलत्रकपोलपत्रवल्लीवितानपरशुः = रिपूणां शत्रूणां यानि कलत्राण नार्यस्तेषां ये कपोला गण्डस्थलानि तत्र याः पत्रवल्ल्यो द्राविडकालिङ्गादिभेदेन कस्तूरिकादिभिरालिख्यमाना तिलकाकाराः पत्ररचनास्तासां यद् वितानं समूहस्तत्र परशुस्तस्य छेदने कुठारसदृश इत्यर्थः । पुनः कीदृश: ? दुर्धर सैन्यदन्तिदन्ताग्रभिन्नचतुरर्णवकूलभित्तिः - दुर्धरा दुर्धर्षा ये सैन्यदन्तिनः सेनाहस्तिनस्तेषां ये दन्ता दशनास्तेषामयैरप्रभागैः
SR No.020833
Book TitleTilak Manjri
Original Sutra AuthorN/A
AuthorDhanpal, Padmasagar, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy