________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] वन्यास्ते कवयः काव्य-परमार्थविशारदाः। विचारयन्ति ये दोषान् , गुणांश्च गतमत्सराः ॥८॥ [ पथ्यावृत्तम् ॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथ स्वाधिकगुणवत्पुरुषवन्दनाद्याचारालोपेनैव स्वस्याऽतिशायिनी राढा भवतीति कृत्वा सत्कवीनां वन्द्यत्वमुपवर्णयति, वन्द्यास्ते कवय इति । व्याख्या. ते कवयो वन्द्या वन्दनीयाः सन्तीति, कथंभूताः काव्यपरमार्थविशारदाः, काव्यानां स्वपरकृतानां परमार्थस्तात्पर्य तत्र विशारदा विचक्षणाः । एवंविधाश्च सन्तस्ते किं कुर्वन्तीत्याह-ये गतमत्सराः सन्तो गुणान् दोषांश्च विचारयन्ति, अरक्तद्विष्टतया दुष्टानि काव्यानि दुष्टतया सत्काव्यानि च सत्तया विचारयन्तीति वृत्तार्थः ॥ ८॥
卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ महावीरदेवस्य निरुक्तध्यानाचलता वर्णिता च, एनामसहमानः कश्चित् संगमनामा सुराधमः ‘वीरमहं चालयिष्यामि' इति प्रतिज्ञाय यत्र श्रमणो भगवान् महावीरो ध्यानमुद्रया स्थितस्तत्र गत्वा दारुणातिदारुणान् विविधान् उपसर्गान् चकार, एवं क्रियमाणेखूपसर्गेषु भगवन्तमचलितं विलोक्य दिव्यं कालचक्राभिधं महच्चक्रं जगद्वन्धोः प्रभोः शिरसि निपातितवान् , एतत्प्रहारेण जानुदन्यां भूमौ भगवान् निमग्नो जातः, जाता च महती वेदना, दृष्टयोऽपि वेदनासंकूला बभूवुः, एवं सत्यपि भगवान चलितः, अथ विगलितप्रतिज्ञः स सुराधमो लज्जितः सन् देवलोकं गच्छति, अस्मिन्नवसरे भगवान् निश्वस्य नयनयुगलमुन्मील्य च गच्छन्तं तं पश्यति, पश्यश्च भगवान् विचारयति-अहो ! मदन्तिकमागत्यानेन धर्मलेशोऽपि नासादि, प्रत्युत घोरं कर्म निबद्धं हा ! किमस्य भावीति, एतद्विचारणायां भगवतो नयनयुगलं करुणानीरप्लावितमभूदिति। इदं शार्दूलविक्रीडितं वृत्तम् , तल्लक्षणं तु 'अतिधृत्यां म्सौ ज्सौ तौ गः शार्दूलविक्रीडितं हैः' [मसजसततगाः, कैरिति द्वादशमियतिः ] इतिच्छन्दोऽनुशासने ॥६॥
___ इदानीं वाच उत्कर्षमाह-'प्रबन्धानाम् ' इत्यादिना । सा वाग् जयतीत्यन्वयः । साम्यत्पदप्रतिपाद्यत्वेन वक्तबुद्धिविषया । वागवाणी । जयति-उत्कर्षेण वर्तते । कीदृशी वाणी ? इत्याकाङ्क्षायां प्रतिपत्साम्येनाह-प्रबन्धानामनध्यायः, तत्र वाणीपक्षे प्रबन्धानां प्र प्रकृष्टा ये बन्धा अवरोधा गहनविषयप्रतिपादनासमर्थत्वादयस्तेषामनध्यायः अविषयः, सकलविषयप्रतिपादिकेत्यर्थः । यद्वा प्रकृष्टानां बन्धानां रचनानामनध्यायोऽविषयः । विशिष्टकाव्यरचनयापि यस्या यथास्थितं समग्रस्वरूपं वर्णयितुं न शक्यत इत्यर्थः, अवर्णनीयस्वरूपाऽत्युत्तमेतिफलितोऽर्थः । प्रतिपत्पक्षे तु प्रबन्धानां शास्त्राणाम् , अनध्यायः अनध्यायहेतुत्वादनध्यायः, प्रतिपदि लोके शास्त्राध्ययननिषेधात्, यदुक्तम्-"प्रतिपत्पाठलेशेन विद्या याति रसातलम् ' एवं सीतावृत्तान्तं पृष्टेन हनूमता रामायामिहितं “प्रतिपत्पाठशीलानां विद्येव तनुतां गता" इति । अनध्यायशब्दस्य वाणीविशेषणत्वेऽपि नियतलिङ्गत्वात् नपुंसकलिङ्गे निर्देशः । सा का ? ययावाचा, कीदृश्या ? शुद्धया दोषरहितया, प्रतिपदा-प्रतिपत्तिः प्रतिपत् तया, बुद्धयेत्यर्थः, क्षीणोऽपि-हीनोऽपि, कविः काव्यकारी, जीवतिउच्छसिति लोके लब्धप्रतिष्ठो भवतीत्यर्थः, यद्वा जीवो बृहस्पतिः स इवाचरतीति जीवति बृहस्पतिसमानो भवती त्यर्थः । 'जीवी जन्तुबृहस्पती' इति शास्वतः । कयेव कः ? प्रतिपदेवेन्दुः प्रतिपदा-प्रतिपद्यते पक्षस्याद्यतया ज्ञायते इति प्रतिपत् पक्षप्रथमतिथिस्तयेव, कथम्भूतया ? यया शुद्धया-धवलया, शुक्लपक्षसत्कप्रथमतिथ्येत्यर्थः, “प्रतिपत् तिथिसंविदोः" इति शास्वतः । इन्दुः चन्द्रः, कथम्भूतश्चन्द्रः ? क्षीणोऽपि शुक्ल प्रतिपदा विगलितकलोऽपि, कि करोति? जीवति-उत्तरकालिकाधिकाधिककलारूपप्राणान् धारयति । इदं पथ्यावृत्तम्, तल्लक्षणं तु 'ताजोर्जः पथ्या' [तद् 'अनुष्टुभि नाद्यात् स्नौ तुर्याद्यो वक्त्रम्' इत्युक्तं वक्त्रं युजोः पादयोस्तुर्यादक्षरात् परो जगणश्चेद् भवति तदा पथ्या ] इतिच्छन्दोऽनुशासने ॥७॥
For Private And Personal Use Only