________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७१
तिलकमञ्जरी ] इतराभिरपि त्रिभुवनपताकायमानाभिः कुवेरपुरपण्याङ्गनाभिरिव कृतपुण्यजनोचिताभिः पादशोभयाऽपि न्यक्कृतपद्माभिरूश्रियाऽपि लघूकृतरम्भास्तम्भाभि¥र्यापि च्छायया सौभाग्य
विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ इतराभिरपि त्रिभुवनपताकायमानाभिः, यदीतराः सामान्याः कथं त्रिभुवनपताकायमाना इति विरोधः, विरोधपरिहारे तु इतराभिः अन्याभिः । कृतपुण्यजनोचिताभिः एकत्र कृतं पुण्यं शुभकर्म यैस्ते तथोक्तास्ते च ते जनाश्च कृतपुण्यजनास्तेषामुचिता योग्या, अन्यत्र पुण्यजना यक्षाः कृतं पुण्यजनानामुचितमनुरूपं यकाभिस्तास्तथोक्तास्ताभिः, न्यक्कृतपद्माभिः, पद्म-कमलं पद्मा लक्ष्मीः । लघुकृतरम्भास्तम्भाभिः तिरस्कृतकदलीस्तम्भाभिरपनीतरम्भाप्सरोदप्पामिश्च । गौर्यापि-सुवर्णवर्णया भवान्यापि ।
श्रीमत्पद्मसागरविबुधरचिता व्याख्या + पुनः कथंभूताऽयोध्या वितीर्णत्रिभुवनजिगीषुकुसुमसायकसाहायका, वितीर्णो विस्तारितस्त्रिभुवनं जिगीषुर्जेतुमिच्छुः कुसुमसायकः कन्दर्पः साहायकः सखा यस्यां सा तथा । ननु काभिः कन्दर्पो विस्तारित इत्याहविलासिनीभिः साधारणस्त्रीभिः, कथंभूताभिर्विलासिनीभिस्त्रिभुवनेति, त्रिजगत्युत्तमाभिः । पुनः कथंभूताभिर्विलासिनीभिः कृतपुण्यजनोचितेति, कृतं पुण्यं यैस्ते तथैवंविधा जना लोकास्तेषां योग्याभिः । अत्र दृष्टान्तमाह कुबेरेति, यथा कुबेरपुरस्य धनदपुरस्य पण्याङ्गनाः साधारणस्त्रियः । कृतेति, कृतं निर्मितं पुण्यजनानां यक्षाणामुचितं याभिस्तास्तथैता अपि सन्तीति तर्दृष्टान्तेन विलासिनीविशेषणमिदम् , पुनः कथंभूताभिर्विलासिनीभिः पादेति, पादशोभया रक्तत्वसौकुमार्यादिरूपया न्यक्कृतं पद्म कमलं याभिस्तास्तथा ताभिः । व्याथार्थत्वे तु पादशोभयाऽपि चरणशोभयापि न्यक्कृता तिरस्कृता पद्मा याभिस्तास्तथा तामिर्लक्ष्मीतोऽप्येतासां चरणशोभाऽधिकेति भावः । पुनः कथंभूताभिस्ताभिरुश्रियेति, ऊर्वोः शोभया लघूकृतो रम्भास्तम्भः कदलीस्तम्भो याभिस्तास्तथा ताभिः । पुनः कथंभूताभिस्ताभिर्याऽपीति, गौर्या पार्वत्या, छाययेति, छायामिषेण, सौभाग्यहेतोः सौभाग्यार्थमुपासिताभिः सेविताभिः ।
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? विलासिनीभिः विलासप्रधाननारीभिः, वैश्याभिरित्यर्थः । वितीर्णत्रिभुवनविजिगीषुकुमुमसायकसाहायका-वितीर्णं दत्तं त्रिभुदनविजिगीषोर्भुवनत्रयजयाभिलाषुकस्य कुसुमसायकस्य कामस्य साहायक सहायता यया सा तथा । कीदृशीभिर्विलासिनीभिः ? इतराभिरपि त्रिभुवनपताकायमानाभिः, इतराभिरपि पामराभिरपि, त्रिभुवनपताकायमानाभिः त्रिभुवने भुवनत्रये पताकायमानाभिजायमानाभिः, याः पामरास्ताः कथं त्रिभुवने पताकायमानाः स्युरिति विरोधः, तत्परिहारे, इतराभिः अन्याभिः कुलवधूभिन्नाभिरित्यर्थः । “ इतरः पामरेऽन्यस्मिन्" इति शास्वतः । अत्र विरोधाभासालङ्कारः । पुनः कीदृशीभिः ? कुबेरपुरपण्याङ्गनाभिरिव-कुबेरपुरस्य यक्षराजनगरस्य अलकापुर्या इत्यर्थः, पण्याङ्गनाभिरिव वेश्याभिरिव, कृतपुण्यजनोचिताभिः कृतं पुण्यं शुभकर्म यैस्तेषामुचिताभिोग्याभिः, पक्षे कृतं पुण्यजनानां यक्षाणामुचितं योग्यं याभिस्तास्तथा ताभिः “यक्षः पुण्यजनः" इत्यभिधानचिन्तामणिः । अत्र पूर्णोपमालङ्कारः। पुनः कीदृशीभिः ? पादशोभयापि-पादयोश्चरणयोः शोभयापि आस्तामन्येषामवयवानां नयनकरादीनाम् , न्यक्कृतपद्माभिः न्यक्कृतं तिरस्कृतं पद्मं कमलं याभिस्तास्तथा ताभिः, यद्वा पादशोभयापि-पादश्चतुथांशस्तन्मितयापि शोभया, आस्तां सम्पूर्णया, न्यक्कृतपद्माभिः न्यक्कृता तिरस्कृता पद्मा लक्ष्मीर्याभिस्तास्तथा ताभिः । कमलतोऽप्यधिका या पादशोभा लक्ष्मीतोऽप्यधिका वा या शोभा तां दधानाभिरित्यर्थः । अत्र काव्यलिङ्गातिशयोक्त्यलंकारौ । पुनः कीदृशीभिः ? अरुधियापि-ऊर्वोः जानूपरिभागयोः श्रियापि शोभयापि, लघुकृतरम्भास्तम्भाभिः लघुकृतोऽधरीकृतो रम्भास्तम्भः कदलीकाष्ठमप्सरोगौं वा याभिस्तास्तथा ताभिः । पुनः कीदृशीभिः ? गौर्यापिगौरवर्णयापि पार्वत्यापि वा, छायया कान्त्या, सौभाग्यहेतोः सौभाग्यार्थम् , उपासिताभिः सेविताभिः, आश्रिताभिरित्यर्थः। अतिगौरवर्णाभिरिति भावः । अन काव्यलिङ्गातिशयोक्त्यलंकारौ ।
For Private And Personal Use Only