________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] म विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ सौवर्णाद्रिरिव क्षमाधरवरी मध्यस्थभावं गतो, भक्तिभ्राजितवैबुधार्चितपदः काष्टान्तप्रापिस्थितिः । जैनेन्द्रागमजातचारुविभवः कल्याणरूपश्च यो, भव्यानां स तनोतु मङ्गलततिं श्रीनेमिसूरीश्वरः ॥१०॥ शार्दूलविक्रीडितम् ।। संसारार्णवपारप्रापणविधौ पोतायमानो नृणामत्युद्भासितभिक्षुभावगरिमा विज्ञाततन्त्रावलिः । श्रीमन्नेमिगुरुः प्रभूतकरणः सोऽयं सदा सद्गुणं दद्याञ्चामृतसद्म नन्दनतरं लावण्यसन्मन्दिरम् ॥ ११ कमालङ्काररम्या रुचिरतरपदन्याससौम्या प्रसन्ना नानाश्लेषातिदक्षा स्वरमधुरतया कर्णयुग्मापहारी । विस्फूर्जत्स्फीतभावा नवरसहृदया चारुवर्णाभिरामा कान्तेवासौ नवीना भुबि जयतितरां भारती नेमिसूरेः ॥ १२ ॥ स्रग्धरा ॥
+ परागाभिधविवृतिमङ्गलाचरणटिप्पनिका ॥ सौवर्णाद्रिरिव मेरुरिव, मेरुसदृश इत्यर्थः । श्रीनेमिसूरीश्वरपक्षे-क्षमाधरवरः क्षमाधरेषु मुनिवरेषु वरः प्रधानः । मध्यस्थभावं गतः माध्यस्थ्यगुणान्वित इत्यर्थः । भक्तिभ्राजितवैवुधार्चितपदः भक्तिभ्राजितं यद् वैबुध विबुधानां विदुषां समूहस्तेनार्चिते पदे पादौ यस्य स तथा । काष्ठान्तप्रापिस्थितिः काष्टान्तप्रापिणी दिगन्तप्रापिणी स्थितिमर्यादा यस्य स तथा । जैनेन्द्रागमजातचारुविभवः जैनेन्द्रागमजातं जिनेन्द्रप्रणीतसिद्धान्तसमुदाय एव चारुविभवो मनोहरधनं यस्य स तथा, यद्वा जैनेन्द्रागमैजिनेन्द्रभाषितसिद्धान्तैर्जातश्चारोः बृहस्पतेः विभवो यस्य स तथा । कल्याणरूपः कल्याणं शुभयुक्तं रूपं यस्य स तथा । मेरुपक्षे
क्षमाधरवर:-क्षमाधरेषु गिरिषु वरः प्रधानः, मध्यस्थभावं-मध्यस्थतां गतः, जगतो मध्ये स्थित इत्यर्थः । भक्तिभ्राजितवैबुधार्चितपदः भक्त्या रचनाविशेषेण भ्राजितं राजितं यद् वैवुधं विबुधानां देवानां मण्डलं तेनार्चितानि बहुमानितानि पदानि स्थानानि यस्य स तथा । काष्ठान्तप्रापिस्थितिः काष्टान्तप्रापिणी दिगन्तप्रापिणी स्थितिरवस्थानं यस्य स तथा । जैनेन्द्रागमजातचारुविभवः-जिनानामिन्द्राणां च य आगमो जन्मोत्सवादावागमनं तेन जातश्चारुर्विभवो यस्य स तथा । कल्याणरूपः कल्याणं सुवर्ण रूपं देहो यस्य स तथा ॥१०॥
सद्गुणमित्यत्र गुणशब्दोपादानेन मुनिप्रवरस्य गुणविजयस्य, अमृतसद्म इत्यत्र अमृतशब्दोपादानेन श्रीमद्विजयामृतसूरेः, नन्दनतरमित्यत्र नन्दनशब्दोपादानेन श्रीमद्विजयनन्दनसूरेः, लावण्यसन्मन्दिरमित्यत्र लावण्यशब्दोपादानेन च श्रीमद्विजयलावण्यसूरेः, इति सहदीक्षेच्छूनामेकग्रामजन्मनां सांसारिकमित्राणां मुनीशानां नामान्यपि सूचितानि ॥११॥ ___नवीना कान्तेव नारीव नेमिसूरे रती सुजयतीत्यन्वयः तत्र भारतीपक्षे
कम्रालंकाररम्या कनैः मनोहररलकारैः शब्दभूषणैरनुप्रासादिभिः शब्दार्थभूषणैश्वोपमादिभी रम्या । रुचिरतरपदन्याससौम्या-रुचिरतराणां पदानां विभक्त्यन्तानां न्यासेन सौम्या। प्रसन्ना-प्रसादायकाव्यगुणयुक्ता । नानाश्लेषातिदक्षा नाना विविधा ये लषा शब्दालंकारविशेषास्तैरतिदक्षाऽतिशिक्षिता । स्वरमधुरतया स्वराणामकारादीनां यद्वा स्वरस्य उदात्तानुदातस्वरितरूपस्य वर्णोच्चारणप्रयत्नविशेषस्य, मधुरतया माधुर्येण, कर्णयुग्मापहारी-अणन्ताद् डीप्रत्ययः । विस्फूर्जत्स्फीतभावा-विस्फूर्जन्तः स्फीताः समृद्धा भावाः पदार्था यया सा तथा । यद्वा तादृशो भाव आशयो यस्याः सा तथा । नवरसहृदया नव नवसङ्घयका नवीना वा रसा हृदये मध्ये यस्या सा तथा । चारवर्णाभिरामा चारवो वर्णाः ककारादयस्तैरभिरामा ।
For Private And Personal Use Only