SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६६ [ टिप्पनक - व्याख्या- विवृतिविभूषिता धृतोद्धुरप्राकारपरिवेषरभ्रंकषप्रतोलिभिरुत्तुङ्गमकरतोरणावनद्धहरितवन्दनमालै दौलाविभूषिताङ्गणवेदिभिरश्रान्तकालागुरुधूपधूमा श्लेषभयपल। यमानदन्तवलभिकाभित्तिचित्रानिव विचित्रमयूखजालकमुचो माणिक्यजालकान् कलयद्भिरद्भुताकारैरनेक भूमिका भ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचन्द्रोदया [], Acharya Shri Kailassagarsuri Gyanmandir 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या फ्र पुनरयोध्या कथंभूता प्रवर्तिताविरतचन्द्रोदया प्रवर्तितोऽविरतं निरन्तरं चन्द्रस्योदयो यस्यां सा तथा, कैः सौधैर्मन्दिरैः कथैभूतैरनेकभूमिका भ्राजिष्णुभिः सप्तादिभूमिकायुक्तः, सौधैः किं कुर्वद्भिर्माणिक्यजालकान् कलयद्भिः, कथंभूतान् विचित्रेति, विचित्रा विविधा ये मयूखाः किरणास्तेषां जालक समूहं मुञ्चतीति तन्मुचो विचित्रकिरणान् विस्तारयत इत्यर्थः । पुनर्माणिक्यजालकान् कथंभूतान्, अथान्तेति, अश्रान्तोत्क्षेपणादविरतो यः कालागुरुधूपस्तस्य यो धूमस्तदा श्लेषभयात् पलायमानानि दन्तवलभिकया दन्तमयछदिराधारेणोपलक्षितभित्तौ चित्राणीव भवन्ति ये ते तान् । इवोत्प्रेक्षायां तत्किरणानि हि दन्तवलभिकाधोभित्तौ चित्राकारेण निपतन्ति तेनैवमुत्प्रेक्ष्यते, यत्तथाविधधूमाश्लेषभयेन जाने गृहमध्यस्थितभित्तित्तः पलाय्याऽत्राऽऽयातानि चित्राणीतितात्पर्यम् । शेषं सौधविशेषणत्रयं तु स्पष्टमेव । एवंविधैश्व सौधैः सर्वदा प्रकाशादविरतचन्द्रोदयत्वमस्याः सिद्धमिति ॥ 11 ह 5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5 पुनः कीदृशी नगरी ? सौघैः= राजमन्दिरैः, प्रवर्तिताविरतचन्द्रोदया - प्रवर्तितः प्रकर्षेण विहितोऽविरो बिरामरहितश्चन्द्रस्योदयः प्रकाशो यस्यां सा तथा । कीदृशैः सौधैः ? धृतोद्धुरप्राकारपरिवेषैः धृत उद्धरैः प्राकारैः कोट्टैः परिवेषो वेष्टनं यैस्ते तथा तैः । पुनः कीदृशैः सौधैः ? अभ्रंकषप्रतोलिभिः = अभ्रंकषा अत्युच्चाः प्रतोलयः ‘पोळ' इति प्रसिद्धानि प्रवेशद्वारस्थानानि येषु ते तथा तैः पुनः कीदृशैः सौधैः ? उत्तुङ्गमकर०= उत्तुङ्गा उच्चा मकरतोरणा उत्कीर्णमकराख्यजलजन्तुसम्बद्ध स्तोरणा बहिर्द्वाराणि तेष्ववनद्धा बद्धा हरितवन्दनमाला हरितवर्णा आम्रदलादिनिर्मिता 'तोरण' इति लोकप्रसिद्धा मङ्गलार्थं मालाविशेषा येषु ते तथा तैः ८८ 1 तोरणोतु मङ्गल्यं दाम वन्दनमालिका ”[ तोरणस्योपरि मङ्गलार्थं सहकारादिपल्लवनिर्मितं दाम माला वन्दनाय माला वन्दनमाला ] इत्यभिधानचिन्तामणिः । पुनः कीदृशैः सौधैः ? दोलविभूषिता० - दोलाभिर्हिण्डोलकाख्यदोलनयन्नैर्विभूषिता अङ्गणस्य वेदयः परिष्कृताश्चतुरखा भूमयो येषु तथा तैः । पुनः कीदृशैः सोधैः ? माणिक्यजालकान् = मणिखचितगवाक्षान्, कलयद्भिः = दधानैः, कीदृशान् माणिक्यजालकान् ? विचित्रमयूखजालक मुचः - विचित्रा विविधा ये मयूखाः किरणास्तेषां जालकं समूहं मुञ्चन्तीति तथा तान्, गवाक्षवृन्ददम्भेषु जालं मत्स्यादिबन्धने । ” इति शास्वतः, जालशब्दात्के जालकान् । कीदृशानिव माणिक्यजालकान् ? अथान्तकालागुरु० =अथान्तः पुनः पुनः प्रक्षेपणाद् विरामरहितः कालागुरुधूपस्य यो धूमस्तस्याश्लेषभयेन संबन्धभयेन पलायमाना या दन्तवलभयछदिराधारभूता हस्तिदन्तमया वक्रदारवस्तासां भित्तिचित्रानिव भित्तिषु प्रतिविम्वतया दृश्यमानविचित्रवर्णानिव । वलभी छदिराधारः " इत्यभिधान चिन्तामणिः । पुनः कीदृशैः सौधैः ? अद्भुताकारैः अद्भुत आकारोरा येषां ते तथा तैः । पुनः कीदृशैः ? अनेक भूमिका भ्राजिष्णुभिः = अनेका या भूमिका गर्भगृहास्ताभिर्भ्राजिष्णुभिर्दीप्तिशीलैः । अतिशयोक्तिः, रूपकम्, उत्प्रेक्षा च । एषां संकरः ॥ ॥ (* 86 For Private And Personal Use Only
SR No.020833
Book TitleTilak Manjri
Original Sutra AuthorN/A
AuthorDhanpal, Padmasagar, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages84
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy