Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी ] वृत्तोज्ज्वलवर्णशालिनी कर्णिकेवाम्भोरुहस्य मध्यभागमलङ्कृत्य स्थिता भारतवर्षस्य [आ], तुषारधवलभित्तिना विशालवप्रेण परिगता प्राकारेण [३], विपुलसोपानसुगमावतारवापीशतसमाकुलाई, विवधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ वृत्तोज्ज्वलवर्णशालिनी-शीलनिर्मला ये वर्णा ब्राह्मणादयस्तैः शालिनी च शोभायमाना पुरी, कर्णिका च बीजकोशश्च वृत्ता वर्तुला धवलवर्णशालिनी च ॥ आ॥ वप्रस्तटः ॥ ३ ॥ 5 श्रीमत्य मलागरविवुधरचिता व्याख्या 5 पुनः कथंभूताऽयोध्या, वृत्तोज्ज्वलेति, अम्भोरुहस्वेज कालस्येव भारतवर्षस्य भरतक्षेत्रस्य मध्यभागमलङ्कृत्य कर्णिकेव स्थिता, कर्णिकायोध्ययोः सान्यं दर्शयति, कथंभूताऽयोध्या कर्णिक च, वृत्तोज्ज्वलवर्णशालिनी वृनेनाऽऽचारेणोज्जलो वर्षों ब्राह्मणादिकरतेन शालिनी, क िक पक्षे तु वृत्ता वृत्ताकारोज्ज्वलवर्णः श्वेतवर्णस्तेन शालिनीति ॥ आ ॥ पुनरयोध्या कथंभूता परिगता व्यासा, केन प्राकारेण बायकोट्टेन, कथंभूतेन तुपारेति, तुपावद्धिमवद्धवला भित्तिर्यस्य स तथा तेन, कथंभूतेन विशालवप्रेण विशालो विस्तीर्णो वप्रोऽन्तः कोट्टो यत्र स तथा तेन, ॥ इ॥ पुनः कथंभूनाऽयो या, विपुलेति विपुलैदिस्ती : सोपा सुगमोऽवतार उत्तरणं यासां तास्तथैवंविधा वाप्यो दीर्घिकास्ताभिः समाकुलेति ॥ ई॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पुनः कीदृशी नगरी ? भारतवर्षस्य भरतक्षेत्रस्य, मध्यभाग-मध्यप्रदेशम् , अलङ्कृत्य-शोभयित्वा, स्थिता-स्थितिशालिनी । केव स्थिता ? कर्णिकेव-यथा कर्णिका बीजकोषः, अम्भोरुहस्य-कमलस्य, मध्यभागमा लऋत्य स्थिता तथा, कीटशी नगरी कीदृशी च कर्णिका ? वृत्तोज्ज्वलवर्णशालिनी-जनरीपक्षे वृत्तेन सदाचारेण उज्ज्वलाः पवित्रा ये वर्णा ब्राह्मणादयस्तैः शालते श्लाघावती भवतीति तथा, कर्णिकापक्षे वृत्ता वर्तुलाकारा उज्ज्वला विकासिनी वर्णशालिनी पीतादिवर्णशालिनी च यद्वा उज्ज्वलं कनकं तद्वर्णशालिनी यद्वा उज्ज्वलो विशदो दीप्तो वा यो वर्णस्तेन शालते इलाघवती भवतीत्येवंशीलेति तथा। "वृत्तं वृत्तौ दृढे गृते, चरित्रे वतुले छन्दस्यतीताधीतयोवृते।" इत्यनेकार्थसंग्रहः, “गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्तन हितानां च तत्सर्वं वृत्तमुच्यते ॥" उज्ज्वलस्तु विकासिनि, शृङ्गारे विशदे दीप्ते' इत्यनेकार्थसंग्रहः । उज्ज्वल स्वर्ण, इतिशब्दस्तोममहानिधिः । “वर्णो गुणाक्षरयशः-शुक्लादिब्राह्मणादिषु । वर्णः स्तुतौ कथायां च वर्णः स्याद्भेदरूपयोः ॥” इति शास्वतः । अत्र श्लेषानुप्राणितो. त्प्रेक्षालङ्कारः ॥ आ ॥ पुनः कीदृशी नगरी ! प्राकारेण-कोट्रेन, परिगता-वेष्टिता, कीदृशेन प्राकारेण ? तुषारधवलभित्तिनातुषारो हिमं कपूरं वा तद्वद् धवला शुभ्रा भित्तिर्यस्य स तथा तेन । पुनः कीदृशेन ? विशालवप्रेण विशालो विस्तृतो वप्रः परिखोघृतमृत्तिकास्तूपरूपा प्राकाराधारभूता मूलभूमियस्य स तथा तेन, “चयो वप्रोऽस्य पीठभूः" [ अस्य प्राकारस्य पीठभूमूलभूमिः ] इत्यभिधानचिन्तामणि: । अत्र लुप्तोपनालङ्कारः ॥ इ॥ ____ पुनः कीदृशी नगरी ? विपुलसोपानसुगमावतारवापीशतसमाकुला=विपुलैः विस्तृतैः सोपानैः पाषाणादिरचितावतरणसाधनैः सुगमः सुखकरोऽवतारोऽवतरणं यासु तादृशीनां वापीनां जलाशयविशेषाणां शतैः समाकुला व्याप्ता, “शतेन धनुभिः पुष्करणी, त्रिभिर्दीर्घिका, चतुर्भिोण: पञ्चभिस्तडागः । द्रोणाद् दशगुणा वापी ।" इति शब्दस्तोममहानिधिः ॥ ई॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84