Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी ] तज्जन्मा जनकाङ्घ्रिपङ्कजरज सेवाप्तविद्यालयो, विमः श्रीधनपाल इत्यविशदामेतामबध्नात् कथाम् । अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविद्याब्धिना, श्रीमुजेन सरस्वतीति सदसि क्षोणिभृता व्याहृतः ॥५३॥ [ शार्दूलविक्रीडितवृत्तम् ॥ ॐ अस्य त्रिपञ्चाशत्तमस्य श्लोकस्य विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकं नास्तिक ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या 5 अथ पितामहपितृवर्णनानन्तरमात्मानं कथाबन्धकत्वेन दर्शयति, तजन्मेति । व्याख्या० ततः सर्वदेवाजन्मोत्पत्तियस्याऽसौ तजन्मा तत्पुत्रोऽथ पुत्रोऽपि कश्चिदविनीतत्वेन पितृचरणसेवको न स्यादित्याह-कथंभूतोऽसौ जनकस्य पितुरंही चरणौ तावेव पङ्कजे कमले तयो रजः परागस्तस्य सेवयाऽऽप्तः प्राप्तो विद्याया लवो बिन्दुर्यन स तथा । श्रीधनपालनामा विप्र एतां कथामबध्नाद्वबन्धेत्यन्वयः । कथंभूतामविशदां तथाविधबन्धरहितामिदं च वस्त्वेतत्कवेगर्वाभावसूचनपरम् । नन्वेतत्कृतकथायास्तदाऽऽदेयत्वं स्याद्यदाऽस्य महत्पुरुषाङ्गीकृतत्वं स्यादित्येतद्दर्शयति, अक्षुण्णोऽपीति, विविक्ताः सुबद्धा याः सूक्तयः सुष्टु वचनानि तासां रचनेऽक्षुण्णोऽप्यसमर्थोऽपि यो धनपालः सदसि सभायां सर्वविद्याब्धिना श्रीमुखेन महीभृता सरस्वतीति बिरुदेन व्याहृतो भाषितः, अक्षुण्णोऽपीति वचनमात्मनोऽनौद्धत्यदर्शनार्थमन्यथैवं सति सरस्वतीबिरुदमेव न संभवेत् । तथा च मुञ्जराजाभिमतपण्डितस्याऽस्य कृतेरादेयत्वमेवेति वृत्तार्थः ॥५३॥ 卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ अथ प्रस्तुतकथाकर्तृत्वेन स्वपरिचयमाह-तज्जन्मेत्यादिना । [स] तज्जन्मा श्रीधनपाल इति विप्र एतां कथामबध्नादित्यन्वयः । 'स' इत्यध्याहार्यमुत्तरदले यदुपादानात् , तज्जन्मा-तस्मात् सर्वदेवनाम्नो विप्राद् जन्म उत्पत्तिर्यस्य स तथा, सर्वदेवविप्रपुत्र इत्यर्थः । धनपाल इति-धनपालनाम्ना प्रसिद्धः, विप्रः ब्राह्मणः, एतां प्रस्तुतां तिलकमञ्जरीनाम्नीम् , कथाम्-आख्यायिकालक्षणं प्रबन्धम् , अबध्नात्-अरचयत् , मेदविवक्षया अन्यार्थविभक्त्या निर्देशः, ननु कथाया वक्ष्यमाणत्वेन कथं भूतकालिको निर्देश इति चेदुच्यते प्राक् कथां कृत्वा तदनु पीठिकाकरणे न भूतनिर्देशो विरोधं वहति, यद्वा धनपालेन वारद्वयं तिलकमञ्जरी रचिता, तत्र पूर्वा भोजेन नाशिता, इयमुत्तरा, अस्याः पीठिकाभागे पूर्वरचितामाश्रित्य भूतकालनिर्देशो न विरोधमावहति । कीदृशो धनपाल: ? जनकाध्रिपङ्कजरजासेवाप्तविद्यालवा-जनकस्य पितुरध्रिपङ्कजयोश्चरणकमलयोर्यद् रजो धूली तस्य सेवया आप्तः प्राप्तो विद्याया लवोंऽशो येन स तथा, अनेन पितृसेवाप्रसादो गर्वपरिहारश्च दर्शितः । कीदृशोऽपि धनपाल एतां कथामबध्नात् ? विविक्तसूक्तिरचने अक्षुण्णोऽपि, विविक्तसूक्तिरचने-विवेकयुताः पवित्रा वा याः सूक्तयः सुभाषितानि तासां रचने रचनायाम् , अक्षुप्रणोऽपि-अभ्यासरहितोऽपि । स कः ? यः श्रीमुजेन क्षोणिभृता सदसि सरस्वतीति व्याहृतः, यः श्रीमुञ्जनश्रीमुञ्जनाम्ना, क्षोणिभृता-भूपालेन, सदसि-सभायाम् , सरस्वतीति-हे सरस्वति ! सरस्वतीस्वरूप ! आगच्छ, यद्वा आगतोऽयं सरस्वती सरस्वतीरूप इत्यादिना, व्याहृतः-भाषितः कथितो वा । कीदृशेन मुजेन ? सर्वविद्याब्धिनासकलविद्यासागरेण । कीदृशी कथाम् । अविशदां न विद्यते विशदा उत्तमा कथा यस्या उपरि सा तथा ताम्, अनुपमामित्यर्थः । अत्रातिशयोक्ति छेकवृत्त्यनुप्रासेन रूपकेण काव्यलिङ्गेन च संसृज्यते । इदं शार्दूलविक्रीडितवृत्तम, तल्लक्षणं तु अष्टयात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ५३ ॥ ॥ इति श्रीतिलकमञ्जरीपीठिका ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84