Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [टिप्पनक-व्याख्या-विवृतिविभूषिता शास्त्रेष्वधीती कुशलः क्रियासु, बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा, देवः स्वयम्भूरिव सर्वदेवः ॥५२॥ [ इन्द्रवज्रावृत्तम् ] । 卐 विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ शास्त्रेष्वित्यादि । आत्मजन्मा-पुत्रो ब्रह्माप्यात्मना जन्म यस्य स तथोक्त उभयोः सर्वविशेषणानि योज्यानि ॥ ५२॥ 卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ तत्पुत्रं स्वस्य पितरं स्तुवन्नाह-शास्त्रेष्विति, व्याख्या० तस्य देवरात्मजन्मा पुत्रः स्वयम्भूर्देव श्व शम्भुरिव सर्वदेवः परिणामतो नामतश्च समभूद्वभूव । कथंभूतः शास्त्रेष्वधीती पण्डितः, पुनः कथंभूतः कलासु कुशलो दक्षः, चः पुनरर्थे पुनः कथंभूतो गिरां वाचां बन्धे रचनायां, बोधे सम्यग्ज्ञाने, प्रकृष्टः प्रधान इति वृत्तार्थः ॥५२॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ दानवमुनिरपि, देवर्षिः देवमुनिः, इति-एवंप्रकाराम् , ख्याति-प्रसिद्धिम् , अलब्ध-लब्धवान् , अत्र यो दानवमुनिः स देवमुनिन भवितुमर्हति देवदानवयोविरोधादिति विरोधस्तत्परिहारेऽयं प्रकारः-दानवर्षित्वविभूषितः दानं वर्षयति दीनानाथादिभ्यो ददातीति दानवर्षी तस्य भावेन विभूषितः देवर्षिरिति- देवर्षि ' इतिनाम्ना ख्याति प्रसिद्धिम् , अलब्ध-लब्धवान् , देवर्षिनामेत्यर्थः । अत्र विरोधाभासालङ्कारः, छेकानुप्रासवृत्त्यनुप्रासाभ्यां संसृष्टिः । इदमुपजातिवृक्तम् . प्रथमचतुर्थपादयोरिन्द्रवज्रा, द्वितीयतृतीयपादयोरुपेन्द्रवज्रा, एतयोः संकरेणोपजातिः, यदुक्तं छन्दोऽनुशासने-" तौ जगाविन्द्रवज्रा” “जतजा गावुपेन्द्रवज्रा" " एतयोः परयोश्च संकर उपजातिश्चतुर्दशधा" [ एतयोरिन्द्रवज्रोपेन्द्रवज्रयोः सङ्करोऽन्योऽन्यपादमीलनमुपजातिरिति ] ॥ ५१॥ अथ सर्वदेवाभिधं निजपितरं स्तौति-शास्त्रेष्वधीतीत्यादिना । तस्य सर्वदेव आत्मजन्मा समभूदित्यन्वयः । तस्य श्रीदेवर्षिनाम्नो विप्रस्य, सर्वदेवः सर्वदेवनामा, आत्मजन्मा-पुत्रः, समभूत् सम्बभूव, संजात इत्यर्थः । कीदृशः ! शास्त्रेष्वधीती-शास्त्राणि अधीतानि येन स शास्त्रेषु अधीती, अधीतशास्त्रनिकर इत्यर्थः । “ व्याप्ये केन" [२, २, ९९] इति कर्मणि सप्तमी । पुनः कीदृशः ? क्रियासु-धर्मकार्येषु व्यवहारकार्येषु च, कुशल:= चतुरः । पुनः कीदृशः ? गिरां बन्धे बोधे प्रकृष्टः, गिरां-वाणीनाम् , बन्धे-रचनायाम् , ग्रन्थकरण इत्यर्थः, बोधे-ज्ञाने, शास्त्रप्रतिपादितार्थज्ञाने इत्यर्थः, प्रकृष्टः प्रधानः । पुनः कीदृशः ? महात्मा-महान् गुणगणाढ्य आत्मा यस्य स तथा । क श? स्वयम्भूर्देव इव-ब्रह्मा इव । कीदृशो ब्रह्मा ? आत्मजन्मा-आत्मना स्वयं जन्म यस्य स तथा, यदुक्तं पुराणे “ हिरण्यवर्णमभवदत्राण्डमुदकेशयम् । तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूर्लोकविश्रुतः ॥" पुनः कीदृशो ब्रह्मा ? महात्मा-परमात्मा तन्मतानुसारिभिस्तथाङ्गीकारात् । पुनः कीदृशो ब्रह्मा ? सर्वदेवा-सर्वेषां प्राणिनां देवः, पुनः कीदृशो ब्रह्मा ? शास्त्रवधीती-शास्त्राणि वेदा अधीतानि 'इंक् स्मरणे' इति वचनात् प्रथमतः स्मृतानि येन स तथा, प्रथमतः स्मृतसकलवेद इत्यर्थः । पुनः कीदृशो ब्रह्मा ? क्रियासु-जगद्रचनासु कुशलः निपुणः । पुनः कीदृशो ब्रह्मा ? गिरां-वाणीनाम् , बन्धे-रचनायाम् , बोधे-ज्ञाने च, प्रकृष्टः प्रधानः, विविधग्रन्थरचनाशक्तियुक्तः, विविधग्रन्थबोधयुक्तश्चेत्यर्थः । यद्वा गिरां-वेदरूपवाणीनाम् , बन्धे-मुखरूपस्थानस्थापने प्रकृष्टः प्रधानः, चतुर्भिमुखैश्चतुणी वेदानां धारणे निपुण इत्यर्थः, यद्वा गिरां-निजतनयायाः सरस्वत्याः, बन्धेपुत्रीस्नेहेनालिङ्गनादौ हस्तादिना बन्धने वेष्टने, बोधे-तन्मनोभावविज्ञाने च प्रकृष्टः-निपुणः, अत्र पूपिमालङ्कारः । तृतीयपादेऽन्त्यानुप्रासः, द्वितीयपादे छेकानुप्रासः, एषां परस्परनरपेक्ष्यात् संसृष्टिः । इदमिन्द्रवज्रावृत्तम्, तल्लक्षणं तु गतश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ५२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84