Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिलकमञ्जरी ] निःशेषवाङ्मयविदोऽपि जिनागमोक्ताः, श्रोतुं कथाः समुपजातकुतूहलस्य । तस्यावदातचरितस्य विनोदहेतो, राज्ञः स्फुटाद्भुतरसा रचिता कथेयम् ॥५०॥ [ वसन्ततिलकात्तम् ] सप्तभिः कुलकम् ।। आसीद् द्विजन्माखिलमध्यदेश-प्रकाशसाङ्काश्यनिवेशजन्मा । अलब्ध देवर्षिरिति प्रसिद्धिं, यो दानवर्पित्वविभूषितोऽपि ॥५१॥ [ उपजातिवृत्तम् ] ॥ 卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ अलब्ध देवर्षिरिति प्रसिद्धि [ अलब्ध- ] यो लब्धवान् प्राप्तवान् , कां ? प्रसिद्धि प्रख्याम् , कथं ? देवर्षिरिति-देवमुनिरिति, स कथं ? दानवर्षित्वविभूषितो-दानवमुनित्वशोभितोऽपि, विरोधसूचकपरिहारः पुनर्देवपिरिति नाम दानवर्षित्वं-वितरणवर्षिवं तेन विभूषितो दीनानाथादिदातेत्यर्थः ॥ ५१ ॥ ॥ श्रीमत्पनसागरविबुधरचिता व्याख्या 卐 अथ कथाकारः पितामहपितृस्तवनपूर्वकं स्वनामाऽऽविष्करोति, आसीदिति, व्याख्या० अखिलः समस्तो यो मध्यदेशस्तस्य प्रकाशः प्रकटनं यस्मात् स एवंविधो यः शांङ्कास्यनामा निवेशस्तस्मिन् जन्म उत्पत्तिर्यस्य स तथा तादृशो द्विजन्मा ब्राह्मण आसीत् । मध्यदेशमध्यवर्तिशांकास्यनिवेशोत्पन्नब्राह्मण इत्यर्थः । स किंनामा ब्राह्मण इत्याह अलब्धेति, व्याख्या० यो ब्राह्मणो नाम्ना देवर्षिरिति प्रसिद्धिमलब्ध प्राप्तवानिति, अत्र विशेषणव्यङ्गयतां दर्शयति, यः कथंभूतो दानवर्षिन्वविभषितोऽपि, यो हि दानवर्षिः स्यात् स कथं देवर्षिः, अयं च देवर्षिरपि दानवर्षित्वविभूषित इत्येतचित्रम् । स्पष्टार्थस्तु दानवर्षिचं दानवृष्टिस्तया विभूषितो देवर्षिरिति च नाम्ना प्रतीत इति वृत्तार्थः ॥५१॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ मातिरिक्तसकलशास्त्रज्ञातुरपि, जिनागमोक्ता:-जिनप्रवचनप्रतिपाहिताः कथाः-चरित्राणि, श्रोतुम्-आकर्णयितुम् , श्रवणायेत्यर्थः, समुपजातकुतूहलस्य-समुपजात कुतूहलगपूर्वरसो यस्य स तथा तस्य । पुनः कीदृशस्य ? अवदातचरितस्य अवदातं भनोज्ञं चरितं चरित्रं यस्य स तथा तस्य । कीदृशी कथा रचिता ? स्फुटाद्भुतरसा स्फुटाः प्रकटा अद्भुता आश्चर्यजनका रसाः शृङ्गारादयो यस्यां सा तथा । अत्र रूपककाव्यलिङ्गालङ्कारौ । इदं वसन्ततिलकावृत्तम् तलक्षणं तु पञ्चमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ५० ॥ अथ निजपितामहं वर्णयति-आसीदित्यादिना । [स] द्विजन्मा आसीदित्यन्वयः । 'स' इत्यध्याहार्यमुत्तरदले यदुपादानात् , द्विजन्मा ब्राह्मणः, आसीद-अभवत् । कीदृशः ? अखिलमध्यदेशप्रकाशसाङ्काश्यनिवेशजन्मा अखिल: समग्रो यो मध्यदेशः “हिमपद्विन्ध्ययोर्मध्यं यत् प्राक् विनशनादति । प्रत्यगेव प्रयागाच मध्यदेशः प्रकीर्तितः ॥” इत्युक्तो देशविशेषस्तत्र प्रकाश:-प्रकाशते इति प्रकाशः प्रकाशनशाली यः सांकाश्यनिवेशः साकाइयाभिधानं नगरं तत्र जन्म उत्पत्तियस्य स तथा । सङ्काशेन निवृत्तम् , “ सुपन्थ्यादेयः" [ ६, २, ८४ ] इति व्यत्ययः । साङ्काश्य चासौ निवेशो नगरं च साङ्काइयनिवेशः । “निवेश: सैन्यविन्यासे न्यासे द्रङ्गविवाहयोः ।" इत्यनेकार्थसंग्रहः, द्रको नगरम् , यथा--" द्विषां निवेशेषु वरप्रवेशः कार्यों नूपैः..." । एतन्नगरनाम “अपायेऽवधिरपादानम्" [२, २, २९ ] इतिसूत्रबृहद्वृत्तौ कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरैः प्रदर्शितम् , यथा-साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति, [अत्र साङ्काश्यकैः पाटलिपुत्रकाणां समगुणत्वाद् यः साम्यं ज्ञातवान् स प्रकर्षाश्रयेण पुनर्बुद्धया पृथक् कृत्वा वाक्यं प्रयुङ्क्ते इति सिद्धापादानसंज्ञा, इति तदुपरिबृहन्यासे ] एतन्नगरमिदानीमिदानीन्तनाः संयुक्तप्रान्ते फरुखाबाद जिल्ला इति प्रसिद्ध विभागे ‘संकिस' इति ख्यातं दर्शयन्ति । अथ प्रस्तुतमनुसरामः स कः ? यो दानवर्षित्वविभूषितोऽपि देवर्षिरिति ख्यातिमलब्ध, या ब्राह्मणः, दानवर्षित्वविभूषितोऽपि-दानवमुनित्वेनालङ्कृतोऽपि, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84