Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] येषां सैन्यभराहितोरगपतिश्रान्ति प्रयातां वहिर्जायन्ते स्थगिता हिमांशुमहसः श्वेतातपत्रैर्दिशः । आभान्ति प्रभवो नृणामितरवत् तेऽप्यागताः सेवया, यस्यानेकजनाकुले निजवपुर्मात्राः सभामण्डपे ॥४८॥॥ [शार्दूलविक्रीडितवृत्तम् ॥
ॐ विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ येषामित्यादि । सैन्यभराहितोरगपतिश्रान्ति सेनासंभारकृतनागराजखेदं यथा भवति तथा, प्रयातांगच्छताम् , क्व ? बहिः बहिःप्रदेशम् , मात्रा-परिग्रहः परिवारो वा ॥ ४८ ॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐
अथ कृतदिग्विजयस्याऽस्य यदभूत्तदाह-येषामिति व्याख्या० यस्य भोजस्य सेवयाऽनेकजनाकुले सभामण्डपे तेऽपि नृणां प्रभवो नरेशा इतरवत्सामान्यलोकवन्निजवपुर्मात्रास्त्यक्तसकलपरिवारा आगता आयाता इति । के ते राजान इत्याह-सैन्यभरेणाऽहिता स्थापिता उरगपतेः शेषनागस्य श्रान्तिः श्रमो यथा स्यात्तथा प्रयातां प्रगच्छतां येषां हिमांशुमहसश्चन्द्रतेजसः श्वेतैर्धवलैरातपत्रैर्दिशः स्थगिता आभान्तीति वृत्तार्थः ॥४८॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥
अथ कीदृशा नृपाः कृतदिग्विजयस्य भोजस्य सेवां कुर्वन्तीति दर्शयति-येषामित्यादिना । यस्य सभामण्डपे ते नृणां प्रभवोऽपीतरवदाभान्तीत्यन्वयः । यस्य भोजराजस्य, सभामण्डपे-सभारूपमण्डपे न तु गुप्तप्रदेशे, ते, नृणां मनुजानाम्, प्रभवोऽपि-स्वामिनोऽपि, राजानोऽपीत्यर्थः, आस्तामितरे जनाः, इतरवत्-सामान्यमनुजवत् , आभान्ति-दृश्यन्ते । कीदृशे सभामण्डपे ? अनेकजनाकुले-सचिवादिप्रचुरजनसंकुले न तु जनशून्ये । कीदृशा राजानः ? सेवया आयाताः, सेवया सेवारूपहेतुना, सेवार्थमित्यर्थः, आयाता:-आगताः । पुनः कीदृशाः ? निजव. पुर्मात्राः निजं वपुः शरीरमेव मात्रा परिच्छेदो येषां ते तथा, “ परिच्छदापमानेषु धने कर्णविभूषणे । अक्षरावयवे मात्रा मात्र कास्न्येऽवधारणे ॥” इति शास्वतः । परिच्छदशब्दश्च-उपकरणे, हस्त्यश्वरथपदातौ, वस्त्रादिभूषणे, परिवारे च वर्तते । तथा च त्यक्तोपकरणास्त्यक्तहस्त्यश्वरथपदातयस्त्यक्तवस्त्रादिभूषणास्यक्तपरिवारा वेत्यर्थः । अनेन 'इतरवत्' इति यदुक्तं तत्समर्थितम् । ते के राजानः ? सैन्यभराहितोरगपतिश्रान्ति बहिः प्रयातां येषां श्वेतातपत्रैः स्थगिता दिशो हिमांशुमहसो जायन्ते । सैन्यभराहितोरगपतिश्रान्ति-इदं प्रयाणक्रियाविशेषणम् , तदर्थस्तु सैन्यस्य यो भरो भारस्तेन आहिता स्थापिता कृता उगरपतेः शेषनागस्य श्रान्तिः श्रमो यथा भवति तथा बहिः प्रयातांस्वनगरादन्यत्र प्रयाणं कुर्वताम् , येषामू-इदानी भोजसेवार्थमागतानां नृपाणाम् , श्वेतातपत्रैः स्फटिकमुक्तादिनिमिततया धवलच्छत्रैः, स्थगिताः-आच्छादिताः, दिशः आशाः, हिमांशुमहसः-हिमांशोश्चन्द्रस्य महस्तेजो ज्योत्स्ना यासु तास्तथा, चन्द्रज्योत्स्नाकलिता इव, जायन्ते भवन्ति। अयं भावः-येषां नृपाणां प्रयाणे सति प्रचुरसैन्यभारेण शेषनागस्य श्रमो भवति, स्फटिकादिनिर्मितधवलातपत्रनिकरैश्च दिशश्चन्द्रज्योत्स्नाकलिता इव भवन्ति, एवंविधा अपि नृपाः सामान्यजनवदेकाकिनः समागत्य भोज सेवन्त इति । अत्रोत्प्रेक्षा रूपकम् , परस्परं संसृष्टिः, । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु अष्टात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ४८॥
For Private And Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84