Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
[ टिप्पनक-व्याख्या-विवृतिविभूषिता अत्र यस्य दोष्णीत्यादयश्चत्त्वारः श्लोका मुद्रितग्रन्थे न दृश्यन्ते, किन्त्वये मेघवाननृपवर्णने सन्तीति नास्मामिरत्र व्याख्याताः, टिप्पनिकाकारेण तु भोजवर्णनपरत्वेनात्र व्याख्याताः, ते चेमे
5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥
यस्य दोणि स्फुरद्धेतौ प्रतीये विबुधैर्धवम् । बौद्धतर्क इवार्थानां राज्ञां नाशो निरन्वयः ॥ १
[पथ्यावृत्तम् ]॥ लतावनपरिक्षिप्ते निन्ये यदरिभिनिशा । विन्ध्याद्रेस्तल्परुचिरे न वेश्मनि नवेऽश्मनि॥ २
[ नविपुलावृत्तम् ॥ अन्तर्दग्धागुरुशुचावाप यस्य जगत्पतेः । नारीणां संहतिश्चारुवेषाकारागृहे रतिम् ॥ ३
[नविपुलावृत्तम् ॥ दृष्ट्वा वैरस्य वैरस्यमुज्झितास्त्रो रिपुव्रजः । यस्मिन् विश्वस्य विश्वस्य कुलस्य कुशलं व्यधात् ॥ ४
[पथ्यावृत्तम् ॥
यस्येत्यादि । प्रतीये प्रतीतः, को ? नाशो-विघातः, केषां ? राज्ञाम्-अरिनृपाणाम् , किंभूतो ? निरन्वयोऽपगतवंशः, कैः प्रतीये ? विबुधैः देवैः, कस्मिन् सति ? दोष्णि-बाहौ, कीदृशे ? स्फुरद्धेतौ-देदीप्यमानप्रहरणे, कस्य ? यस्य-भोजराजस्य, कस्मिन्निव केषां ? बौद्धतर्क इवार्थानां यथा बौद्धप्रमाणशास्त्रे नाशो विबुधैः विशिष्टपण्डितैः, प्रतीये-प्रतीतोऽर्थानां घटादीनाम् , कीदृशो ? निरन्वयो-ऽनुगमरहितो न[ष्ट] स्यापि द्रव्यस्योत्तरक्षणाऽनुसरणमस्तीत्यर्थः, किंभूते बौद्धतर्के ? स्फुरद्धेतौ-देदीप्यमानस्वभावादिलिङ्गे, कथं प्रतीये ? धुवंनिश्चितम् ॥१॥ लतेत्यादि, यदरिभिः यस्य भोजनृपस्यारिभिः शत्रुभिः, निशा रात्रिः, निन्ये-नीता, कस्मिन् ? अश्मनि दपदि, न वेश्मनि-न गृहे, कस्य अश्मनि ? विन्ध्यान्द्रेः, भयेन विन्ध्यगिरिमारूढा अरय इत्यर्थः, कीदृशेऽश्मनि वेश्मनि च ? तल्पं-शयनीयं तद्वद्रुचिरे-सुकुमारपृथुवादिगुणै रम्ये तल्पेन रुचिरे दीप्ते, तथा नवेनूतने, तथा लतावनपरिक्षिप्ते-अशोकचम्पकलतावनपरिवेष्टिते वेश्मनि वल्लीवनगहनच्छन्नेऽश्मन्यदृश्य इत्यर्थः ॥२॥
अन्तरित्यादि । यस्य-भोजराजस्य, किंभूतस्य ? जगत्पतेः-भुवनरक्षकस्य, नारीणां संहतिः स्त्रीवृन्दम् , आप-लेभे, कां ? रति-प्रीतिमासक्तिं वा, क्व ? गृहे वेश्मनि, कीदृशी ? चारुवेषाकारा-चारु रम्यौ वेषाकारौ नेपथ्याकृती यस्याः सा तथोक्ता, चारुवेषो वा आकारो यस्याः सा तथोक्ता, कीदृशे गृहे ? अन्तर्दग्धागुरुशुचौअन्तर्मध्ये दग्धं यदगुरु कृष्णागुरुकाष्टं तेन शुचि-पवित्रं सुगन्धीत्यर्थोऽन्यत्र यस्य जगत्पतेररीणां सहति वाप न प्राप्तवती, कां ? रति-सुखम् , क्व ? कारागृहे-गुप्तौ, कीदृशी ? चारुवेषा-रम्यनेपथ्या, पुनः किंभूता ! दग्धा-संतप्ता, क्व ? अन्तः-मध्ये चित्त इत्यर्थः, केन ? गुरुशुचा-बृहच्छोकेन ॥ ३ ॥
[दृष्ट्वेत्यादि] रिपुव्रजः अरिसमूहः, व्यधात्-कृतवान्, किं ? कुशलं-कल्याणम् , कस्य ? कुलस्यवंशस्य, किंभूतस्य ? विश्वस्य-सर्वस्य, किं कृत्वा ? विश्वस्य-विश्वास कृत्वा, कस्मिन् ? यस्मिन्-भोजदेवे, कथंभूतो रिपुत्रजः ? उज्झितास्त्रः त्यक्तायुधः, किंकृत्वा ? दृष्ट्वा अवलोक्य, किं ? वैरस्यं विरसतां, कस्य ? चैरस्य-विरोधस्य ॥ ४ ॥
For Private And Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84