Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ तिलकमञ्जरी ] सत्यं बृहत्कथाम्भोधे,-बिन्दुमादाय संस्कृताः। तेनेतरकथाः कन्थाः, प्रतिभान्ति तदग्रतः ॥२१॥ [ पथ्यावृत्तम् ॥ २१ एतस्य श्लोकस्योपरि टिप्पनकं नोपलभ्यते । 卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथैतादृशकविकृतकथाम्भोधि वर्णयन्नाह-सत्यमिति । व्याख्या० सत्यमिति वितर्कणार्थ पदं, कथाम्भोधेविन्दुमंशमात्रं व्यङ्गयार्थत्वे त्वनुसारमादाय गृहीत्वा संस्कृताः पद्यगद्यादिवंशेन संस्कृतिमापादिता इतरैरस्मदादिभिः कृताः कथा इतरकथाः कन्या इव तदग्रत इति कथाम्भोधेः पुरस्तात् प्रतिभान्ति कन्था इव दृश्यन्त इत्यर्थः, एतेन पूर्वक्रविकृतकथाम्भोधेरुत्कर्षों वर्णितः स्वस्य गर्वोद्धत्यं च परिहृतं भवतीति वृत्तार्थः ॥२२॥ 卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ देवसकाशाद् अवगम्य, वाचा-स्वोपज्ञद्वादशाङ्गीरूपवचनेन, विश्व-निखिलं जगत्, आनशे-व्याप, द्वादशाङ्गयां निखिलजगन्निरूपणात द्वादशाङ्गीरूपेण विश्वं व्याप्तवान् कक्षीकृतवानित्यर्थः । क इव ? विष्णुरिव-यथा विष्णुः कृष्णो विष्णुकुमारमुनिर्वा, तत्र कृष्णपक्षे-वाचा-वचनेन, त्रिपदी-पदत्रयमेयभूमिम् , प्राप्य-बलिनुपाद् वरेणासाद्य, विश्व मानवलोकाकाशदेवलोकरूपं जगद्, व्यानशे-व्याप्तवान् , एतद्भावना उत्पतन्त्यजवदिति लोकविवृतौ दर्शिता । विष्णुकुमारमुनिपक्षे वाचा-वचनेन, त्रिपदी-पदत्रयमेयभूमिम्, प्राप्य-चक्रवर्तिस्थानीयनमुचिमन्त्रिणः सकाशाद् आसाद्य, विश्व-लक्षयोजनमितजम्बूद्वीपस्य पूर्वापरपर्यन्तरूपं जगद् , व्यानशे-व्याप्तवान् । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टम लोकविवृतिप्रान्तेऽभिहितम् ॥१९॥ ___ लोके प्रथमकवित्वाद् वाल्मीकिव्यासयोः स्तुतिमाह-प्रस्तावनादीति । वाल्मीकिकानीनौ वन्दे इत्यन्धयः । वाल्मीकिकानीनौ-वल्मीकः कीटविशेषकृतो मृत्तिकास्तूपस्तत्र भव इति वाल्मीकिः, रामायगग्रन्थकर्ता ऋषिविशेषः, कन्याया अनूढाया अपत्यमित्यणि कानीनादेशे च कानीनः, महाभारतग्रन्थकर्ता व्यासः, तौ, वन्दे-स्तुवे, कीदृशौ तौ ? रघुकौरववंशयोः प्रस्तावनादिपुरुषौ । रघुकौरववंशयोः रघुः सूयवंशीयदिलीपसूनुर्नपतिविशेषः, कुरुश्चन्द्रवंशीयराजविशेषस्तस्यायमिति कौरवः, धृतराष्ट्रात्मजरूपा पाण्डवरूपा वा कुरुनृपसन्ततिरुभयोरपि कुरुवंशजातत्वात् , तयोर्योवंशः पुत्रपौत्राद्यपत्यवर्गस्तयोः प्रस्तावनादिपुरुषौ प्रस्तावनायां वर्णनायामादिपुरुषौ, वाल्मीकिना रामायणे रघुवंशस्य कानीनेन महाभारते कौरववंशस्य प्रथम वर्णनं कृतमिति भावः । काविव ? सूर्याचन्द्रमसाविव-सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ यथा, " वेदसह. " [ ३-२-७९ ] इति दीर्घत्वम् । कीदृशौ सूर्याचन्द्रमसौ ? रघुकौरववंशयोः-उक्तस्वरूपयोः, प्रस्तावनादिपुरुषौ-प्रस्तावना प्रारम्भस्तत्रादिपुरुषौ आदिभूती, सूर्यतो रघुवंशस्य प्रारम्भश्वान्द्रतः कौरववंशस्य प्रारम्भो जात इति भावः । इदं मविपुलावृत्तम् , तल्लक्षणं प्रथम लोकविवृतिप्रान्तेऽभिहितम् ॥२०॥ गुणाढ्यकविविरचितबृहत्कथायाः प्रशंसामाह-सत्यमित्यादिना । [येन तदअत इतरकथाः कन्याः प्रतिभान्ति तेन बृहत्कथाम्भोधेर्बिन्दुमादायेतरकथाः संस्कृता इति सत्यमित्यन्वययोजना कार्या । तच्छब्दोपादानेन यच्छब्दार्थाक्षेपाद् येनेत्यध्याहार्यम् , येन कारणेन, तदग्रतः तस्या बृहत्कथाया अग्रतः समीपे, इतरकथा:- इतरकविविरचिताः कथाः, कन्थाः-जीर्णवस्त्रखण्डानादाय निर्मिताः प्रावरणविशेषाः कन्याः, उपमाया गम्यमानत्वात् कन्या इव प्रतिभान्तिदृश्यन्ते, तेन तेन कारणेन, बृहत्कथाम्भोधेः बृहत्कथा गुणाढयकविना पैशाचिकभाषायां विरचितः कथाविशेषः, सैवानेककथारत्नकलितत्वाद् अम्भोधिः समुद्रस्तस्माद्, बिन्दु-कथालेशम् , आदाय-गृहीत्वा, इतरकथा: इतरकविकृतकथाः,संस्कृताः-संस्कृतप्राकृतगद्यपद्यादिरूपेण संस्कारमापाद्य विरचिताः, इति, सत्यम्-यथार्थम् , एतां कल्पनां स्वीकरोमीत्यर्थः । इदं पथ्यावृत्तम् , तल्लक्षण तु अष्टम लोकविवृतिप्रान्ते प्रोक्तम् ॥२१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84