Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
[टिप्पनक-व्याख्या-विवृतिविभूषिता कादम्बरीसहोदर्या, सुधया वैबुधे हृदि । हर्षाख्यायिकया ख्याति, वाणोऽब्धिरिव लब्धवान् ॥२७॥ [पथ्यात्तम् ॥
ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ पुनरपि बाणकविं वर्णयितुमाह
लब्धवान् प्राप्तवान् , कः? बाणः, कां ? ख्याति-प्रसिद्धिम्, कया? हर्षाख्यायिकया, उच्छासनिबद्धा कथैवाख्यायिका हर्षस्य, राज्ञ आख्यायिका तया, सुघया-अमृतेन इव आह्लादकत्वाद् , क ? हृदि-मनसि, किंभूते ! वैबुधे-विशिष्टा बुधाः पण्डिता विबुधाः तेषाम् इदं वैवुधं तत्र, किंभूतया ? कादम्बरीसहोदर्या-कादम्बरीकथाभगिन्यैकजनकत्वात् । क इव कया ? अधिरिव-समुद्र इव, सुधया-अमृतेन, किंभूतया ? हर्षाख्यायिकयाहृष्टिकथिकया, व ? हृदि-चित्ते, किंभूते ? वैबुधे-देवसत्के, तयापि किंभूतया कादम्बरीसहोया-सुराभगिन्या द्वयोः समुद्र उत्पन्नत्वात् ॥२७॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ बाणकृतकादम्बरीकथां सुधोपमानेन समुद्रोपमानेन च बाणं स्तुवन्नाह-कादम्बरीति । व्याख्या० बाणः कविरब्धिरिव समुद्र इव ख्याति लब्धवान् , ननु समुद्रः केन कृत्वा ख्याति लब्धवानित्याह-कया सुधयाऽमृतेन, कथंभूतया सुधया कादम्बरीसहोदर्या, कदम्बं रत्नादिवस्तूनां समूह रात्यादत्त इति कदम्बरः समुद्रस्तस्याऽपत्य कादम्बरी लक्ष्मीस्तस्याः सहोदर्या भगिन्या, लक्ष्मीसुधयोः समुद्र एव जातत्वान्मिथो भगिनीत्वमिति । ननु यद्विबुधहृदयहर्षदायि स्यात्तदेव ख्यातिजनकं सुधा तु व हर्षदायिनीत्याह-कथंभूतया सुधया हर्षाख्यायिकया हर्ष मोदमाख्यातीति हर्षाख्यायिका तया, हर्षस्थानदर्शनायाऽऽह-क हृदि हृदये, किंसंबन्धिनीत्याह-हृदये कथंभूते वैबुधे विबुधानां देवानां संबन्धिनीत्यर्थः । ज्ञातास्वादकत्वेन हि देवानां हृदयेऽमृतं विशेषाद्धर्ष ददातीत्युक्तम् । बाणस्तु कादम्बरीसहोदर्येति, कादम्बरीकथा तस्या एकधनिकजातत्वेन सहोदर्या भगिन्या सुधयेति सु शोभनं धत्त इति सुधा सदाचरणं तेन, यथाऽयं बाण: कादम्बर्या कथया प्रसिद्धि लब्धवान् तथा सदाचरणेनापि प्राप्तवानिति । अथ बाणकृतकादम्बरीसुधयोः समत्वेन संपन्नं समविशेषणमाह-कथंभूतया सुधया, विबुधानां पण्डितानां सम्बन्धिनि हृदये हर्षाख्यायिकयेति पूर्ववदिति वृत्तार्थः ॥२७॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ शरः पक्षिणो विमदान् करोति तदा ससाहाय्यः किं कुर्यादित्याह-क्लुप्तसन्धानपुलिन्दकृतसन्निधिः-क्लप्तं कृत संधानं धनुारोपणं येन स क्लुप्तसन्धानः, एवंविधो यः पुलिन्दो भिल्लस्तेन कृतः सन्निधिः सान्निध्यं यस्य स तथा भिल्लहस्तगतचापयोजितः शर इत्यर्थः, पुनः किमुच्यते, विशेषेण विगतहर्षान् पक्षिणः कुर्यादित्यर्थः ॥ इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविकृतिप्रान्ते प्रोक्तम् ॥२६॥
पुनरपि बाणकविं वर्णयति-कादम्बरीत्यादिना । बाणः ख्याति लब्धवानित्यन्वयः। बाणः कादम्बरीहर्षचरित्रादिकर्ता बाणनामा कविः, ख्याति प्रसिद्धिम् , लब्धवान् प्राप्तवान् । कया ख्याति लब्धवान् ? हर्षाख्यायिकया हर्षस्य हर्षनाम्नो नृपतेः हर्षनृपसम्बन्धिनीति यावत् , या आख्यायिका विदितवृत्तान्तार्था कथा तया तथा, हर्षचरित्रेणेत्यर्थः । कथम्भूतया हर्षाख्यायिकया? कादम्बरीसहोदर्या कादम्बरी वाणकविकृता स्वनामख्याता कथा तस्याः सहोदर्या भगिन्या, कादम्बरीहर्षाख्यायिकाकथयोः बाणकविरूपैकजनकजातत्वान्मिथो भगिनीत्वमित्यर्थः । पुनः कथम्भूतया ? सुधया माधुर्यादिनाऽमृतसदृश्या । कुत्र ख्याति लब्धवान् ? वैबुधे हृदि, वैबुधे-विबुधसम्बन्धिनि पण्डितसम्बन्धिनीत्यर्थः,
For Private And Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84