Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० Ees [ टिप्पनक-व्याख्या-विवृतिविभूषिता भद्रकीत्तेर्धमत्याशाः, कीर्तिस्तारागणाध्वना । प्रभा ताराधिपस्येव, श्वेताम्बरशिरोमणेः ॥३२॥ [ पथ्यावृत्तम् ] ॥ 卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ भद्रकीतः बप्पभट्ट्याचार्यस्य भ्रमति-पर्यटति, का ? कीर्तिः, का ? आशाः=दिशः, केन ? तारागणाध्वना-तारागणाभिधानकाव्यमार्गेण, किंभूतस्य भद्रकीर्तेः ? श्वेताम्बरशिरोमणेः श्वेतपटमुनिनायकस्य, कस्येव का भ्रमति ? प्रभा-कान्तिः, यथा ताराधिपस्य-चन्द्रस्य भ्रमति, का ? आशाः दिशः, केन ? तारागणाध्वना आकाशेन, ताराधिपस्यापि किंभूतस्य ? श्वेताम्बरशिरोमणे: श्वेतश्चासौ अम्बरशिरोमणिश्चाकाशमूर्ध्नरत्नं च स तथोक्तस्तस्याकाशभूषणस्येत्यर्थः ॥३२॥ 卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ श्वेताम्बरशासनोन्नतिकारिणं भद्रकीर्तिनामानं कविं स्तौति, भद्रकीतैरिति-व्याख्या० भद्रकीतः कवीश्वरस्य कीर्तिस्तारागणाध्वना व्योममार्गेणाऽऽशा दिशः प्रति भ्रमति पर्यटति, इव यथा ताराधिपस्य चन्द्रस्य प्रभा कान्तियोममार्गेण दिशः प्रति भ्रमति । अथौपम्योपमेययोश्चन्द्रभद्रकीयाविशेषणसाम्यं दर्शयति, कथंभूतस्य भद्रकीर्तः रशिरोमणेः श्वेतवासोधारिसाधशिरोरत्नस्येत्यर्थः. चन्द्रस्य कथंभूतस्य श्वेताम्बरशिरोमणे: श्वेतं यदम्बरमाकाशं तत्र सर्वग्रहाधिपत्येन शोभाकारित्वाच्छिरोमणेरिति वृत्तार्थः ॥३२॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ नाटकेषु-ख्यातवृत्तेषु वीरचरित्रादिषु नाटकग्रन्थेषु, कैः प्रनर्तिता ? पदन्यासैः-पदानां विभक्त्यन्तशब्दानां न्यास रचनाभिः, कीदृशैः पदन्यासैः ? चित्रैः समासादिभेदेन विविधप्रकारैः । प्रनर्तिता सती भारती कीदृशी जाता ? स्पष्टभावरसा स्पष्टो व्यक्तो भावोऽभिप्रायो रसः शृङ्गादिर्यस्यां सा तथा । केव ? नटस्त्रीव-नटी इव, तत्र नटीपक्षे भवभूतिना-भवस्य महादेवस्य भूतिर्नृत्यकलारूपा विभूतिर्यस्य स भवभूतिनृत्यकलाकुशलो नटस्तेन, नटस्त्री-नटी, प्रनर्तिता-प्रकर्षेण नर्तनं कारिता, कैः प्रनर्तिता ? पदन्यासः-चरणविन्यासः, कीदृशैः पदन्यासैः ? चित्रैः-जनाश्चर्यकारिभिः विविधप्रकारैर्वा, कुत्र प्रवर्तिता ? नाटकेषु-नाटकक्रियासु, प्रनर्तिता सती नटी कीदृशी जाता ? स्पष्टभावरसा स्पष्टो व्यक्तोऽभिनयेन ज्ञाप्यमानो भावो भ्रविक्षेपादिरूपः रसः शृङ्गारादिको यस्या सा तथा, उभयत्रास्तीति शेषः । अत्र श्लेषानुप्राणिन्युत्प्रेक्षालकृतिः ॥ इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३०॥ ___अथ वाक्पतिराजनामानं कविं वर्णयति-दृष्ट्वेत्यादिना । वाक्पतिराजस्य गौडवधोद्धुरा शक्तिं दृष्ट्वा बुद्धिः साध्वसरुद्धेव वाचं न प्रतिपद्यत इत्यन्वयः । वाक्पतिराजस्य-गौडवधकाव्यकारस्य वाक्पतिराजनाम्न: कवेः, गौडवधोद्धरा-गौडवधे 'गउडवहो' इति प्रसिद्ध गौडवधनाम्नि काव्ये उद्धरां दृढाम् , शक्ति-बुद्धिवैभवम् , दृष्ट्वाअवलोक्य, बुद्धिः मतिः, साध्वसरुद्धव-साध्वसेन भयेन रुद्धा इव प्रतिहता इव, वाचं-वचनम्, न प्रतिपद्यतेन गृह्णाति, काव्यकरणे न प्रवर्तत इत्यर्थः, केषां बुद्धिरिति जिज्ञासायां कविजनानामिति शेषः, इत्येकोऽर्थः, अयं द्वितीयोऽर्थः-वाक्पतिराजस्य-गौडवधकाव्ये वर्णितस्य यशोवर्मराजस्य, गौडवधोरां गौडानां गौडदेशनृपाणां वधे मारणे उद्धरामुद्भटां दृढाम्, शक्तिं-प्रहरणविशेषं सामर्थ्य वा, दृष्ट्वा अवलोक्य, बुद्धिः-मतिः, साध्वसरुद्धवभयप्रतिहतेव, वाचं वचनम्, न प्रतिपद्यते-न गृह्णाति, भयेन मुखाद् वचनं न निस्सरतीत्यर्थः । अत्रोत्प्रेक्षालङ्कारः ॥ इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविश्रुतिप्रान्ते प्रदर्शितम् ॥३१॥ अथ बप्पभट्टिसरिवरं प्रशंसति-भद्रकीर्तेरित्यादिना । भद्रकीतः कीर्तिभ्रंमतीत्यन्वयः । भद्रकीतैः श्रीबप्पभट्टयाचार्यस्य, कीत्तिः यशः, भ्रमति-विचरति । कीदृशस्य भद्रकीर्तेः ? ताराधिपस्य-ताराणां निर्मलानां जना For Private And Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84