Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] आकीर्णाघितलः सरोजकलशच्छत्रादिभिर्लान्छनैस्तस्याजायत मांसलायतभुजः श्रीभोज इत्यात्मजः। प्रीत्या योग्य इति प्रतापवसतिः ख्यातेन मुञ्जाख्यया, यः स्वे वाक्पतिराजभूमिपतिना राज्येऽभिषिक्तः स्वयम् ॥४३॥ [शार्दूलविक्रीडितवृत्तम् ]॥ ॐ अस्य त्रयश्चत्वारिंशत्तमस्य श्लोकस्य विवुधशिरोमणिश्रीशान्त्याचार्यविरचित टिप्पनकं नास्ति ॥ ॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ तत्पुत्रवर्णनमाक्षिपति, तस्य श्रीवाक्पतिराजस्याऽऽत्मजो भोज इत्यभिधानेनाऽभूत् , तस्याऽतिसुलक्षणावदातत्वेन लक्षणानि वर्णयति, कथंभूतोऽसावाकीर्णाहितल आकीर्णं व्याप्तमंहितलं यस्य स तथा, कैर्लाञ्छनैः, कथंभूतैः सरोजकलशच्छत्रादिभिः सरोजानि च कमलानि च कलशाश्च छत्राणि च तानि तथाऽऽदौ येषां तानि तथा तैरित्यादिकैश्चिकैश्चरणतलं व्याप्तमस्तीति भावः । पुनः कथंभूतो भोजो मांसलेति, मांसलौ प्रबलमांसयुक्तावायतौ दी! भुजौ यस्य स तथा । अथ भोजस्य परम्परायातराज्याधिपत्यं दर्शयति. पित्रेति यो भोजः पित्रा वाक्पतिराजभूमिपतिना स्वे राज्ये स्वयं मुञ्जाख्यया ख्यातेन कृत्वाऽयं प्रतापवसतिरिति हेतोर्योग्य इति कृत्वाऽभिषिक्तः । अस्य हि भोजस्य बालोऽयमिति कृत्वा धावनमातुः पुत्रो मुन्न एव त्वयाऽस्य वृद्धिमुपागतस्य राज्य देयमित्युक्त्वाऽभिषिक्तस्तेनाऽप्यसौ बृद्धिमुपेतः सन् स्वे राज्येऽभिषिक्त इति वृत्तार्थः ॥४३॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ शोषणस्तापनस्तथा । स्तम्भनश्चेति कामस्य शराः पञ्च प्रकीर्तिताः ॥” इति, केषां जनविशेषाणाम् , हृदि-हृदये, न लग्नान प्रविष्टाः, अर्थात् सर्वेषां हृदये प्रविष्टाः, सन्तीति शेषः । अत्र सीयकः सायका इत्यत्र छेकानुप्रासोऽलङ्कारो वृत्त्यनुप्रासश्च, मिथस्तयोः संसृष्टिः । तथा अतिशयोक्तिः, रूपकम् उत्प्रेक्षा च, एतेषामङ्गाङ्गिभावेन संकरः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु एकोनचत्वारिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥४१॥
अथ भोजपितरं वर्णयति तस्योदनेत्यादिना । तस्य स श्रीसिन्धुराजः सुतोऽभवदित्यन्वयः । तस्य-श्रीसीयकनृपतेः । स इत्याध्याहार्यमुत्तरपदे यच्छब्दोपादानात् । श्रीसिन्धुराजा श्रीसिन्धुराजनामा, सुता-पुत्रः, अभवत्-बभूव, कीदृशः सिन्धुराजः ? उदग्रयशाः-उदग्रमुच्चं यशो यस्य स तथा, " एकदिग्व्यापिनी कीर्तिः, सर्वदिग्व्यापन इत्युक्तप्रशंसा विशेषो यशः । पुनः कीदृशः ? समस्तसुभटग्रामाग्रगामी-समस्ता ये सुभटाः शोभना योद्धारस्तेषां ग्रामे समूहे अग्रगामी अग्रेसरः । पुनः कीदृशः ? सिंहा=सिंहसदृशः, कस्याः पुरतः सिंहसदृशः ? दुर्धरशत्रुसिन्धुरततेः-दुर्धरा ये शत्रुसिन्धुराः शत्रुरूपा हस्तिनस्तेषां ततेः श्रेणेः पुरतः । पुनः कीदृशः ? एकाधिज्यधनुर्जिताब्धिवलयावच्छिन्नभूः ज्यामधिरूढमधिज्यम् , एकमद्वितीयमधिज्यं च यद् धनुस्तेन जिता वशीकृता अब्धिवलयावच्छिन्ना समुद्ररूपवलयवेष्टिता भूभूमियेन स तथा, समुद्रपर्यन्तायाः सकलभूमेविजेतेत्यर्थः । स कः ? यस्य-श्रीसिन्धुराजस्य, अग्रजः ज्येष्ठो भ्राता, अस्तीति शेषः । कीदृशोऽग्रजः ? श्रीमद्वाक्पतिराजदेवनृपतिः श्रीवाक्पतिराजदेवनामा नृपतिश्च, अस्य मुञ्जक्षेत्रोपलब्धत्वाद् ‘मुञ्ज' इति द्वितीयं नाम, नृपतित्वं च प्रान्ते सिन्धुराजेन राज्यसमर्पणात् , सिन्धुराजाग्रजत्वं च प्रथमजातत्वात् श्रीसीयकेन पुत्रत्वेन पालितत्वाच्च, अराजबीजत्वाद्राज्यं तु श्रीसीयकेन न दत्तम् , नृपतिभावापेक्षया 'एकाधिज्यधनुर्जिताब्धिवलयावच्छिन्नभूः' इत्यपि योज्यम् , कीदृशोऽयमग्रजः ? वीराग्रणी:वीरेषु शूरेषु अग्रणीरग्रेसरः। ‘ग्रामाग्रगामी ' इत्यत्र छेकानुप्रासालङ्कारः' सिन्धुर सिन्धुरेत्यत्र छेकानुप्रासो वृत्त्यनुप्रासश्च, एतेषां संसृष्टिः, तथा अतिशयोक्तिलुप्तोपमा रूपकं च, एषामङ्गाङ्गिभावेन संकरः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु अष्टात्रिंशत्तमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥ ४२ ॥
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84