Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
[ टिप्पनक-व्याख्या-विवृतिविभूषिता तस्योदग्रयशाः समस्तसुभटयामाग्रगामी सुतः, सिंहो दुर्धरशत्रुसिन्धुरततेः श्रीसिन्धुराजोऽभवत् । एकाधिज्यधनुर्जिताब्धिवलयावच्छिन्नभूर्यस्य स, श्रीमद्वाक्पतिराजदेवनृपतिवीराग्रणीरग्रजः ॥ ४२ ॥ [शार्दूलविक्रीडितवृत्तम् ] ॥ ॐ अस्य द्वाचत्वारिंशत्तमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचित टिप्पनकं नास्ति ॥
ॐ श्रीमत्पद्मसागरविवुधरचिता व्याख्या के अथ तत्पुत्रं स्तौति, तस्योदेति, व्याख्या० तस्य श्रीहर्षस्य सुतः सिन्धुराजोऽभवत् , कथंभूतः सिंहः सिंहपराक्रमी, कस्याः पुरो दुर्धरशसिन्धुरततेर्दुधराश्च ते शक्रसिन्धुराश्चैरावणादयस्तेशं ततेः श्रेणे: पुरः । अस्य हि महामदोन्मत्तमतङ्गजवशीकरणसामथ्यं जगदद्भुतमासीत्तेनेत्यमुपन्यासः । पुनः कथंभूतोऽसौ समस्तसुभटग्रामाग्रगामी समस्तानां सुभटानां ग्रामः समूहस्तस्मिन्नग्रगामी पुरोगत इत्यर्थः, एवंविधोऽपि कश्चिद्यशस्वी न स्यादित्याहपुनः कथंभूतोऽसावुदग्रयशा उत्कटकीर्तिरित्यर्थः । अथ साम्राज्याधिपस्य तज्ज्येष्ठभ्रातुवर्णनमाह-एकाधीति-व्याख्या० यस्य सिन्धुराजस्याऽग्रजो ज्येष्टबन्धुः श्रीमद्वाक्पतिराजदेवनृपतिरितिनामा, एकमद्वैत ज्यामधि लक्षीकृतमधिज्यं यद्धनुस्तेन कृत्वा जिताऽब्धिवलयावच्छिन्ना समुद्रवलयपर्यन्ता भूमिर्येन स तथाऽस्तीति वृत्तार्थः ॥४२॥
+ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥
भिन्नाः खण्डिताश्चतुर्णामर्णवानां समुद्राणां कूलभित्तयस्तटभित्तयो येन स तथा, एतेन सर्वदिग्विजयः सूचितः । अयं भावः-अनेन राज्ञा चतुस्समुद्रपर्यन्ता भूमिर्जिता, तत्र तत्र वर्तमानानां नृपाणां पराजयात् शोकप्रस्तास्तेषां राश्यो विषादग्रस्ततया कपोलस्तनमण्डलादिषु कस्तूरिकादिभिः पत्रवलीनामालेखनं न कुर्वन्तीति । अत्र लुप्तोपमा, रूपकमतिशयोक्तिश्च, एतेषामझाङ्गिभावेन संकरः । इदं वसन्ततिलकावृत्तम्, तल्लक्षणं तु पञ्चमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥४०॥
परमारवंशीयं श्रीवैरिसिंहनृपतिं वर्णयित्वाथ तत्पुत्रं श्रीसीयकनामानं नृपतिं वर्णयति-तत्राभूदित्यादिना । तत्र [स] श्रीसीयको भूपोऽभूदित्यन्वयः । तत्र-निरुक्तपरमारवंशे, तत्रस्थाने तस्येति पाठे तस्य श्रीवैरिसिंहनृपतेरित्यर्थः । अस्मिन् पक्षे 'भूप:' स्थाने ' सूनुः' इति पाटे सूनुः पुत्र इत्यर्थः 'स' इत्यध्याहार्यमुत्तरदले यदुपा दानात् । स श्रीसीयकाश्रीसीयकनामा, भूपः राजा, अभूत्-वभूव, कीदृशोऽयं राजा ? श्रियां वसतिः, श्रियां-शोभादीनाम, आदिना वाणीधर्मार्थकामसम्पत्तिबुद्धिविभूतिप्रभाकीर्तिवृद्धिसिद्धयादीनां ग्रहणम् । वसति-निवासस्थानम् । पुनः कीदृशः ? श्रीहर्ष इत्यपरया आख्यया विख्यातः श्रीहर्ष इति द्वितीयनाम्ना प्रसिद्धः, अनेन प्रस्तुतस्य राज्ञो नामद्वयं ज्ञापितम्, एक 'श्रीसीयक' इति द्वितीयं 'श्रीहर्ष' इति । पुनः कीदृशोऽयं राजा? भुनः प्रशास्ता, भुवा-पृथिव्याः, प्रशास्ता=अनुशासनकर्ता, कथम्भूताया भुवः ? चतुरम्बुराशिरसनादाम्नः चत्वारश्चतुर्दिगवस्थितत्वेन चतुःसंख्यका ये अम्बुराशयः समुद्रास्त एव रसनादाम कटीसूत्रं यस्याः सा तथा तस्याः, निखिलमहीमण्डलाधिप इत्यर्थः । पुनः कीदृशो नृपः ? खर्वितवैरिगर्वगरिमा-खवितो धातूनामनेकार्थत्वाद् नाशितो वैरिणां गर्वगरिमा अभिमानगौवं येन स तथा, खर्वितस्थाने ' चर्वित' इति पाठे तु चर्वितो जग्यो विनाशित इति यावत् । स कः ? यस्य पौरुषगुणाः पञ्चेषोः सायकाः इव केषां हृदि न लग्नाः सन्ति] इत्यन्वयः । यस्य-श्रीसीयकनृपतेः । पौरुषगुणा पराक्रमगुणा उद्यमगुणा वा, पञ्चोषोः कामदेवस्य सायका इव-बाणाः इव, कामस्येमे पञ्च बाणाः-सम्मोहनोन्मादनौ च,
For Private And Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84