Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [टिप्पनक-व्याख्या-विवृतिविभूषिता तस्मिन्नभूद् रिपुकलत्रकपोलपत्र वल्लीवितानपरशुः परमारवंशे । श्रीवैरिसिंह इति दुर्धरसैन्यदन्ति दन्ताग्रभिन्नचतुरर्णवकूलभित्तिः ॥४०॥ [ वसन्ततिलकावृत्तम् ] ॥ ॐ अस्य चत्वारिंशत्तमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ॥ ॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या के ननु ततः किमभूदिति चेत्ततः परमारवंशोऽभूत्तस्मिंश्च वंशे ये भूपा आसंस्तान् निदर्शयति, तस्मिन्निति, व्याख्या० तस्मिन् परमारवंशे वैरसिंह इति नाम्ना भूपोऽभूदथाऽस्य नामसदृशं परिणाम वर्णयति, कथंभूतोऽसौ रिपुकलत्रकपोलपत्रवल्लीवितानपरशू रिपूणां वैरिणां कलत्राणि स्त्रियस्तासां कपोलान्येव पत्रवल्ल्यस्तासां विताने परशुरिव परशुः । पुनः कथंभूतोऽसौ दुर्धरसैन्यदन्तिदन्ताग्रभिन्नचतुरर्णवकृलभित्तिर्दुर्धरे सैन्ये ये दन्तिनो हस्तिनस्तेषां दन्ताग्राभ्यां भिन्ना चतुरर्णवकूलस्य चतु:समुद्रतटस्य भित्तयो येन स तथेति वृत्तार्थः ॥४०॥ ॐ श्रीविजयलावण्यसूरिविरचितापरागाभिधा विवृतिः ॥ कैः कीदृशः ? खेचरैः-गगनविहारिभिर्विद्याधरादिभिः, कृच्छ्राल्लङ्कितदिग्विलङ्घिशिखरग्रामः कृच्छ्रात् “ स्तोकाल्पकृच्छ्रकतिपयादसत्त्वे करणे" [२, २, ७९] इति असत्त्वकरणार्थे पञ्चमीविधानात् कृच्छ्रेण कष्टेन लक्षित उल्लङघित इति कृच्छाधितः, “असत्त्वे उसेः" [३, २, १०] इत्यलुप् समासः, दिशो विलयतेऽत्युचतया अतिक्राम्यतीति दिग्विलङ्घी, शिखराणां ग्रामः समूहः शिखरग्रामः, खेचरैः कृच्छ्राहघितो दिग्विलङ्घी शिखरग्रामो यस्य स तथा, अत एव कीदृशो जात इत्याह-क्ष्माभृतां-पर्वतानां मध्ये, अग्रिमः अग्रेसरः । स कः ? येन-अर्बुदगिरिणा, एकेन-एकाकिना, हिमाचलः-हिमालयः पर्वतः, शिखरिणां-पर्वतानां मध्ये, पुत्रीति-पुत्रवानयमिति, लक्ष्यःज्ञेयः, अभूत्-जातः, हिमाचलोऽर्बुदरूपतनयेन पुत्रवान् इति ज्ञानविषयो जात इत्यर्थः, ननु हिमाचलस्य सन्तानत्रय वर्तते-पार्वती मैनाकोऽर्बुदश्चेति, तत्र सन्तानद्वयस्य किं जातं ? तेनापि पुत्रवान् भवितुमहतीत्याशङ्कापनोदायाह-मैनाकेन-मेनकायां हिमाचलपन्यां भव इति मैनाकस्तेन, मैनाकनाम्ना पर्वतरूपेण स्वपुत्रेण, महार्णवे-महासमुद्रे, सत्यापार्वतीनाम्न्या स्वसुतया च हरतनौ-शिवशरीरे, प्रवेशे कृते-विहिते सति । अयं भावः-पुरा किल पर्वताः पक्षिवत् पक्षधारिणो बभूवुरुड्डयनं च चक्रुः, एतैर्लोकव्यथा अवलोक्येन्द्रेण वज्रमादाय पक्षच्छेदनकर्म समारब्धम् , अस्मिन्नवसरे मैनाकः समुद्रं प्रविश्यादृश्यो जातः, पार्वती च शिवशरीरं प्रविश्यादृश्या जाता, अवशिष्ट एकोऽर्बुदाचल इत्येके वार्बुदगिरिणा हिमाचलः पुत्रवान् बभूवेति पौराणिककथामाश्रित्य वृत्तम् । अत्र द्वितीयचरणे छेकानुप्रासालङ्कारः । इदं शार्दूलविक्रीडितवृत्तम् , तल्लक्षणं तु “ अतिधृत्या म्सौ ज्सौतौ गः शार्दूलविक्रीडितं हैः [ मसजसततगाः, वैरिति द्वादशभिर्यतिः] ॥३८॥ निरुक्ताबुदाचले परमाराभिधस्य भोजवंशस्य परमारनामाद्यपुरुषो जात इति दर्शयितुमाह-वाशिष्ठेरित्यादिना । [स] भूपालोऽस्ति स्मेत्यन्वयः । 'स' इत्यध्याहार्यमुत्तरदले यदुपादानात् , स भूपाल:-राजा, अस्ति स्म-बभूव, कीदृशो राजा ? ख्याता प्रसिद्धः, केन नाम्ना ख्यातः ? परमार इत्यभिधया-परमारनाम्ना, कुत्र ख्यातः ? महीमण्डले-मण्डलाकारपृथिव्याम , समस्तवसुंधरायामित्यर्थः । पुनः कीदृशो राजा ? अग्निकुण्डोद्भवा अग्निकुण्डे वसिष्ठकृतहोमसत्काग्निकुण्डे उत्पत्तिर्जन्म यस्य स तथा, पुनः कैः कीदृशो राजा ? वासिष्ठैः वसिष्ठऋषिप्रदत्तैः, वरशतैः-वरदानशतैः, कृतस्मयः कृतो विहितः स्मयो गर्यो जगतां विस्मयो वा येन स तथा, स कः ? इत्या For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84