Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ [टिप्पनक-व्याख्या-विवृतिविभूषिता केचिद् वचसि वाच्येऽन्ये, केऽप्यशून्ये कथारसे । केचिद् गुणे प्रसादादौ, धन्याः सर्वत्र केचन ॥३७॥ [ पथ्यावृत्तम् ] ॥ अस्त्याचर्यनिधानमर्बुद इति ख्यातो गिरिः खेचरैः, कृच्छ्राल्लवितदिग्विलविशिखरग्रामोऽग्रिमः क्ष्माभृताम् । मैनाकेन महार्णवे हरतनौ सत्या प्रवेशे कृते, येनकेन हिमाचलः शिखरिणां पुत्रीति लक्ष्योऽभवत् ॥३८॥ [शार्दूलविक्रीडितवृत्तम् ] ॥ 卐 अस्य सप्तत्रिंशत्तमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पकं नास्ति ॥ ॥ " श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ कथाप्रारम्भोद्यतः कवीनां तारतम्यं दर्शयति, केचिदिति, व्याख्या० केचित् कवयो दक्षत्वेन वचसि वाकलायां धन्याः स्युर्वक्तुमेव जानन्तीत्यर्थः । केचिदन्ये कवयो वाच्येऽवसरोचितनिरूपणीये धन्याः स्युः, पूर्वेषामिवैतेषां सर्वदैव तथाविधवाकलाभावेऽप्येते सत्यवसरे तथैव वदन्ति यथा स्वार्थसिद्धिर्भवतीत्युक्त केचिदन्ये वाच्ये धन्याः स्युरिति । केऽपि कवयोऽशून्ये गुणैरवन्ध्ये गुणाढये कथारसे धन्याः स्युस्तथाविधां कथां कथयितुं प्रथितुं चाऽपि जानन्तीत्यर्थः । केचित्कवयः प्रासादादौ गुणे राजादेः प्रसन्नताकरणादौ धन्याः स्युः । केचित्कवयः स्वगुणेन राजादिकं प्रसादयन्तीत्यर्थः । केचन सर्वाद्भुतभाग्याधिकाः कवयः सर्वत्र सकलकलायां दक्षाः स्युरिति कवेस्तारतम्य दर्शितम् । एतन्निरूपणं च न केनचित्कविना स्वगुणगर्वः कार्योऽधिकाधिकदर्शनादिति सूचनार्थमिति वृत्तार्थः ॥३७॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ शोभना उक्तयो वचनानि, हृद्या हृदयानन्ददायिन्यः, कथं न सन्तु ? अर्थादवश्यं मानसामोददा भवन्तु । तस्य कस्य ? यस्य कर्दमराजकवेः, पिता-जनकः, अस्तीति शेषः । कीदृशः ? त्रैलोक्यसुन्दर्याः कविः त्रैलोक्यसन्दरीकथाकारः । पुनः कीदृशः ? प्रज्ञानिधिः प्रज्ञायाः "बुद्धिस्तात्कालिकी ज्ञेया मतिरागामिगोचरा । प्रज्ञां नवनवोन्मेषशालिनी प्रतिभा विदुः ॥” इत्युक्ताया निधिनिधानम् । एतेन कविवंशत्वमावेदितम् । यद्वा 'प्रज्ञानिधेः' इति पाठे कर्दमराजविशेषणतया व्याख्येयम् । अत्र कवेविशेषवर्णनाद् विशेषालंकारः । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३६॥ कविविशेष वर्णयति-केचिदित्यादिना । केचित्-कतिपये कवयः, वचसि वचने, धन्याः श्लाघ्याः, वक्तृत्वगुणे निपुणा इत्यर्थः । अन्ये-अपरे कवयः, वाच्ये-पदार्थे धन्याः, पदार्थज्ञाने निपुणा इत्यर्थः । केऽपि कतिपये च कवयः, अशून्ये सम्पूर्णे, कथारसे-कथाया रसे धन्याः, सम्पूर्णकथारसज्ञा इत्यर्थः । केचित् कतिपये कवयः, प्रसादादौ-माधुर्योजःप्रसादाख्ये, गुणे-काव्यगुणे धन्याः, काव्यगुणज्ञा इत्यर्थः । केचन-कतिचित् कवयः, सर्वत्र वचनार्थपूर्णकथारसप्रसादादिगुणप्रभृतिसर्वविषये धन्याः, अतोऽतीव श्लाघनीया इत्यर्थः । एतेन केनापि कविना स्वगुणगों न कर्तव्य इति सूचिम् । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३७॥ अथाधुना यदभ्यर्थनया प्रस्तुता तिलकमञ्जरी कथा विरचिता स भोजदेवो नृपः कविना वर्णनीयः, स च भोजः प्रशस्तराजवंशजो न तु प्राकृतवंशज इति दर्शनाय वंशो निरुपणीयः, अयं वंशोऽपि अर्बुदगिरौ जात इति यथोत्तर वर्णयितुकामः कविः प्रथममबुंदगिरि वर्णयति-अस्तीत्यादिना । [स] अर्बुद इति ख्यातो गिरिरस्तीत्यन्वयः । स For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84