Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ] वासिष्ठैः स्म कृतस्मयो वरशतैरस्त्यग्निकुण्डोद्भवो, भूपालः परमार इत्यभिधया ख्यातो महीमण्डले । अद्याप्युद्गतहर्षगद्गदगिरो गायन्ति यस्यार्बुदे, विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः ॥३९॥ [ शार्दूलविक्रीडितवृत्तम् ] ॥
+ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ श्रीभोजदेवराजवंशवर्णनपूर्वकभोजदेववर्णनार्थमबुंदगिरिवर्णनमाह-अस्तीत्यादि, खेचराः विद्याधरादयो, ग्रामः= समूहः, सत्या-गौर्या ॥ ३८ ॥ वासिष्ठैरित्यादि, कृतस्मयो-विहितगर्वः, विश्वामित्रजयोर्जितस्य-विश्वामित्रर्षिपराभवविस्फुरितस्य ॥३९॥
卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या ॥ अथ कृतमहानुभावतत्तत्कविनामस्मरणरूपमङ्गलोपचारः कथां ग्रथ्नाति । ननु यथाऽनेनाऽविघ्नपरिसमाप्तये मङ्गलं कृतं. तथा शिष्टाचारपरिपालनाय शिष्टप्रवृत्त्यर्थं च प्रयोजनसम्बन्धावपि दर्शनीयौ, किमर्थमसावेतां कथां ग्रथ्नाति. कि चाऽत्र वाच्यमित्याशङ्कय प्रथमं प्रयोजनदर्शनार्थमेतदारचयति, अस्त्याश्चर्येति, व्याख्या० क्ष्माभृतां पर्वतानां मध्येऽग्रिमोऽग्रेसरोऽधूदनामा गिरिः पर्वतोऽस्ति । ननु कुतोऽस्य क्ष्माभृतामनिम्त्वमित्याशक्य तत्सूचकानि विशेषणान्याह, कथंभूतोऽर्बुद आश्चर्यनिधानं विविधकौतुकान्वितत्वात् , पुनः कथंभूतः खेचरैर्विद्याधरैः कृच्छात्कष्टाल्लङ्घितो, दिशो विलम्बत इति दिग्विलम्बी, नभःप्रदेशानामेव दिक्तवेन नभो यावद् व्यापीत्यर्थः, एवंविधः शिखरग्रामः कूटसमूहो यस्य स तथा, अथ पुनरस्याऽतिशयं दर्शयति मैनाकेनेति, येनाऽबुंदेनैकेन केवलेन सता हिमाचलः पर्वतः शिखरिणां पर्वतानां मध्ये पुत्रीति पुत्रवानयमिति, लक्ष्म चिहमस्याऽस्तीति लक्ष्म्योऽभवत्, अपरे पर्वतास्तु निरपत्या एव, हिमाचलस्त्वर्बुदेन कृत्वा सापत्यो यतोऽस्य हिमाचलस्याऽपत्यत्रयं, मैनाकपर्वतः पार्वत्यर्बुदाचलश्च । नन्वस्याऽपत्यत्रयस्य सद्भावे कथमेकेनाऽर्बुदाचलेन सापत्यत्वमुक्तमित्याशङ्कय पार्वतीमैनाकाभ्यां यत्कृतं तद्दर्शयति, मैनाकेन महार्णवे महासमुद्रे प्रवेशे कृते सति सत्या पार्वत्या हरतनौ शम्भुवपुषि प्रवेशे कृते सतीति । मैनाकस्तु महार्णवे प्रविश्याऽदृश्योऽभूत् पार्वती चेश्वरवपुषि प्रविश्याऽदृश्याऽभूत्तथा चाऽपत्यद्वयमस्य निरर्थकमेव जातमेकोर्बुदस्तु स्वपितुरभ्यणे स्थितत्वेन दृश्यत्वात् सार्थक इति । तेनाऽस्य सापत्यत्वमिति वृत्तार्थः ॥३८॥ ____ अथ किमित्यत्राऽव॒दे जातमित्येतद्दर्शयति, वासिष्ठैः स्मेति । व्याख्या० अत्र चाऽबुंदेऽग्निकुण्डोद्भवोsग्निकुण्डनामकं कुलं तत्र समुत्पन्नः परमार इत्यभिधया ख्यातो भूपालो राजाऽस्ति स्मेत्यभूत् , स्मयोगे च वर्तमानाऽप्यतीतकालं वक्तीति । कथंभूतः कृतस्मयः कृतो निर्मितो स्मयोऽभिमानो येन स कृतस्मयः, कैः सह वासिष्ठवसिष्ठवंशोद्भवैःः सह, वसिष्ठवंशोद्भवास्त्वस्य वैरिण इति तैः सह, कथंभूतैर्वासिष्ठै रवशते रवानां शब्दानां शतानि वावदूकत्वेन येषां ते तथा तैः । वयमस्यैवं कुर्म इति वदनशीलैरित्यर्थः । अथाऽस्य परमारभूपालस्य स्फूर्जितं वर्णयन्नाह-अद्याप्पीति, विश्वामित्रनाम्ना ऋषिणा दत्तो यो जयस्तेन कृत्वोर्जितस्य परमौजस्विन इत्यर्थः । अस्य हि व्यक्तभक्तितुष्टेन विश्वामित्रर्षिणा सर्वत्र त्वं जयी भूया इति वरः प्रदत्त इतीत्थमुपन्यासः । यस्य परमारस्य भुजयोर्बाह्वोर्विशेषात् स्फूर्जितं सफलस्फूर्तिमत्त्वं गुर्जरा इति गुर्जरदेशजना अद्याऽपीत्येतद्ग्रन्थकर्तृकालेऽप्युद्गतः प्रकटितो यो हर्षस्तेन गद्गदा गिरो येषां ते तथैवंविधाः सन्तो गायन्ति, क्वेत्याहाऽर्बुदे पूर्वोक्तपर्वतेऽर्बुदे चाऽस्य युगपदेकबाणविद्धदृषण्मयमहिषवृन्दा दृषण्मयी मूर्तिरद्याऽपि दृश्यत इति वृत्तार्थः ॥३९॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ इत्यध्याहायमुत्तरदले यदुपादानात् , स, अर्बुद इति-अर्बुद इति नाम्ना, ख्यातः ख्यातिमान् , गिरि पर्वतः, अस्ति-विद्यते, कीदृशोऽर्बुदगिरिः ? आश्चर्यनिधानम् आश्चर्याणामाश्चर्यजनकवस्तूनां निधानं संग्रहस्थानम् । पुनः
For Private And Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84