Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] समाधिगुणशालिन्यः, प्रसन्नपरिपक्त्रिमाः। यायावरकवेर्वाचो, मुनीनामिव वृत्तयः ॥३३॥ [ पथ्यावृत्तम् ] ॥
卐 विवुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ वाचो वर्त्तन्ते, कस्य यायावरकवे राजशेखरस्य, समाधिगुणशालिन्यः समाधिलक्षणो यो गुणः शब्दालङ्कारविशेषस्तेन शालिन्यः श्लाघावत्यः, प्रसन्नपरिपक्त्रिमाः-प्रसादवत्परिणताः । का इव केषां ? वृत्तय इव-व्यापारा इव, मुनीनां यतीनाम् , समाधिगुणशालिन्यः समाधानगुणश्लाघावत्यो यद्वा समाधिश्च गुणाश्च क्षान्त्यादयस्तैः शोभावत्यस्तथा प्रसन्नपरिपक्त्रिमा निर्मलाः स्वर्गापवर्गफलपाकनिर्वृत्ताः ॥३३॥
॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या के अथ वरकविगिरः स्तुवन्नाह-समाधे इति, व्याख्या० या या मुनीनां वृत्तय इव वरकवेर्वाचः सन्ति, कीदृशा वाचो मुनिवृत्तयश्चेत्युभयोर्विशेषणसाम्यं दर्शयति, गुणशालिन्यो गुणप्रधानाः प्रसन्नाः परिपाकशीलाः पवित्रमा इति, ताः किमित्याह समाधे स्मरामीति वृत्तार्थः ॥३३॥
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ नामधिपस्य स्वामिनः, पुनः कीदृशस्य ? श्वेताम्बरशिरोमणेः श्वेताम्बरा जैनमुनयस्तेषु शिरोमणेः मुकुटसदृशस्य, श्वेताम्बरमुनिनायकस्येत्यर्थः, कीदृशी कीर्तिः ? प्रभा-प्रकर्षण भातीति प्रभा, प्रकर्षण शोभमानेत्यर्थः । कुत्र भ्रमति ? आशा-दिशः, व्याप्तिविवक्षया द्वितीया, तथा च सर्वासु दिक्षु इत्यर्थः । केन भ्रमति ? तारागणाध्वना-तारागणस्तारागणनामा काव्यग्रन्थस्तद्रूपेणाध्वना मार्गेण, तारागणाभिधकाव्यग्रन्थद्वारेत्यर्थः, कस्य केव ? ताराधिपस्य प्रमेव, ताराधिपस्य-चन्द्रस्य, प्रमेव ज्योत्स्ना इव, कीदृशस्य चन्द्रस्य ? श्वेताम्बरशिरोमणेः=श्वेतं धवलं यद् अम्बरमाकाशं तस्य शिरोमणे: शिरोरत्नस्य । पुनः कीदृशस्य चन्द्रस्य ? भद्रकीतैः चारुयशसः । कुत्र प्रभा भ्रमति ! आशाः प्राग्वदर्थः, केन प्रभा भ्रमति ? तारागणाध्वना-तारागणस्य अध्वा मार्ग आकाशं तेन, आकाशद्वारेत्यर्थः । अत्र श्लेषानुप्राणिन्युत्प्रेक्षा, इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३२॥
यायावरापराभिधानं राजशेखरकवि वर्णयति-समाधिगुणेत्यादिना। यायावरकवेर्वाचः [सन्तीति शेषेण ] अन्वयः । यायावरकवेः-राजशेखरनाम्नः कवेः, वाचा वचनानि, सन्तीति शेषः । यद्वा वरकवेः उत्तमकाव्यकारस्य, या या वाचः-वचनानि, तास्ताः समाधिगुणादिविशेषणसहिताः सन्तीत्यर्थः । कथम्भूता वाचः ? समाधिगुणशालिन्यः प्रसन्नपरिपक्त्रिमाश्च, समाधिगुणशालिन्या-समाधिः “ समाधिः सुकरे कार्य दैवाद् वस्त्वन्तरागमाद्" इत्युक्तः समाधिलक्षणोऽलंकारः, स एव गुणस्तेन, यद्वा गुणा: " गुणा माधुर्यमोजोऽथ प्रसाद इति ते त्रिधा" इति साहित्योक्ता रसधर्मास्तैः शालन्ते श्लाघावत्यो भवन्तीति समाधिगुणशालिन्यः, “शाङ् श्लाघायाम्' इत्यस्य लत्वम् । प्रसन्नपरिपषित्रमा प्रसन्नाः “चित्तं व्याप्नोति यः क्षिप्रं शुष्कन्धनमिवानलः । स प्रसादः समस्तेषु रसेष रचनासु च ॥” इति साहित्योक्तो यः प्रसाशख्यो गुणस्तेन युक्ताः, परिपक्त्रिमाः परिपाकेन नैपुण्येन निर्वताः। का इव वाचः सन्ति ? मुनीनामिव वृत्तयः, मुनीनां संयमधारिणाम् , वृत्तय इव-अन्तःकरणपरिणामा इव । इमा अपि तादृश्यस्तथाहि-समाधिगुणशालिन्यः समाधिः ध्येयवस्तुनि एकाग्रतया मनसः स्थापनं स एव गुणस्तेन, यद्वा गुणाः क्षमाप्रभृतयस्तैः शालन्ते श्लाघावत्यो भवन्तीति समाधिगुणशालिन्यः । प्रसन्नपरिपक्त्रिमा प्रसन्ना निर्मलाः संतुष्टाः कृतानुग्रहविशेषा वा, परिपक्त्रिमाः परिपाकेन नैपुण्येन निवृत्ताः । अत्र श्लेषानुप्राणिन्युत्प्रेक्षालङ्कारः, इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥३३॥
For Private And Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84