Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
३८
[टिप्पनक-व्याख्या-विवृतिविभूषिता निरोद्धं पार्यते केन, समरादि त्यजन् मनः। प्रशमस्य वशीभूतं, समरादित्यजन्मनः ॥२९॥ [ पथ्यावृत्तम् ॥
विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ निरोद्धं केन पार्यते शक्यते, न केनापीत्यर्थः, किं १ तन्मनः-चित्तं, किं कुर्वत् ? त्यजत्-मुञ्चत् , किं तत् ? समरादि-संग्राममृगयाछूतपरस्त्रीगमनप्रभृति दुष्टवस्तु, कथंभूतं ? वशीभूतं-आयत्तम् , कस्य ? प्रशमस्यउपशमस्य क्षान्तेरित्यर्थः, किंभूतस्य प्रशमस्य ? समरादित्यजन्मनः समरादित्याद् हरिभद्रसूरिकृतचरमकथायाः सकाशाद् जन्मोत्पत्तिर्यस्य स तथोक्तस्तस्य ॥२९॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या : अथ परमकविं प्रशममन्दिरं समरादित्यपुत्रं स्तुवन्नाह निरोद्धमिति । व्याख्या० समरादित्यजन्मनः समरादित्यपुत्रस्य, समरादि संग्रामादिकमधिकारं वर्णनावसरं दारुणकृत्यनिरूपणतया त्यजत् प्रशमस्योपशमस्य वशीभूतं मनश्चेतः केन निरोद्धं पार्यते न केनाऽपि रुध्यत इत्यर्थः । अयं हि पूर्वं नवरसपोषकत्वेनैकदा वीररसपोषाधिकारे मिथो वीराणां कलहे जायमाने बहुषु वीरेषु पञ्चत्वमाप्तेषु प्राप्तपरमसंवेगो वीररसपोषे चाऽनर्थहेतुतया सावद्यतां विचिन्त्य प्रशमवशीभूते मनसि "न मया अद्यप्रभृति समराधधिकारे वीररसः पोष्य" इति प्रतिज्ञां कृतपानिति तेनाऽत्राऽस्यैवं वर्णनमिति वृत्तार्थः ॥२९॥
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ करणाद् केवलं विरमन्ति, उतान्यत् किमपि कुर्वन्तीत्याह-भारवेरेव स्मरन्ति, भारवेरेव-किरातार्जुनीयाभिधकाव्यकारस्य भारविनाम्नः कवेरेव, स्मरन्ति माघसदृशत्वेन स्मरणं कुर्वन्ति, “स्मृत्यर्थदयेशः” [२-२-११ ] इति कर्मणि षष्ठी. अतो भारविमेव स्मरन्तीति बोध्यम् । अयं भाव:-भो भारवे कविवर ? माघकविना यादृशं निरुपमकाव्यं कृतं तादृशं किरातार्जुनीयाभिधं काव्यं भवतैव रचितं नास्माकं शक्तिरतो माघसदृशो भवानेवेति भारविकविं स्मरन्ति । क इव ? कपयो यथा-वानरा इव, वानरपक्षे-मान-माघमासेन, कार्यकारणयोरभेदाश्रयणाद् माघमासजन्यशीतेनेत्यर्थः । विन्नितोत्साहाः-भग्नोत्साहाः, कपयः, पदक्रमे पादनिक्षेपे, चलने इत्यर्थः, नोत्सहन्ते-नोद्यम कुर्वन्ति, तर्हि किं कुर्वन्तीत्याह-रवेः सूर्यस्य, भाः-किरणान् एव, स्मरन्ति-ध्यायन्ति, माघमासजन्यशीतदूरीकरणाय सूर्यातपमिच्छन्तीत्यर्थः । अत्र सभङ्गाभङ्गात्मकः पदश्लेषालङ्कारः । पूर्णोपमालङ्कारश्च, तयोः परस्परं नैरपेक्ष्यरूपा संसृष्टिः इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥२८॥
अथ समरादित्याभिधकथाप्रशंसया तत्कर्तुराचार्यवर्यस्य श्रीहरिभद्रसूरेः प्रशंसां सूचयति-निरोद्धमित्यादिना । समरादित्यजन्मनः प्रशमस्य वशीभूतं समरादि त्यजत् [च] मनो निरोद्धं केन पार्यत इत्यन्वयः । समरादित्यजन्मनः समरादित्यात् श्रीहरिभद्रसूरिविरचितसमरादित्यकथानकाद् जन्म उत्पत्तिर्यस्य तादृशस्य, प्रशमस्य-उपशमस्य क्षमागुणस्य, वशीभूतम् अधीनीभूतम्, परमोपशमरसपोषकसमरादित्यकथाश्रवणजनितोपशमरसनिमग्नमित्यर्थः । समरादि-संग्रामादि, आदिपदाद् मृगयाद्यूतपरदारगमनादि ग्राह्यम् । त्यजत्-मुञ्चत् , मना=चित्तम्, निरोर्बु निरोधं कर्तुम् , निरुक्तमनस उपशमरसप्रवृत्तिविघातायेत्यर्थः, केन-पुरुषविशेषेण, पार्यते-शक्यते, न केनापीति काकुः,
"भिन्नकण्ठध्वनिर्धारैः काकुरित्यभिधीयते ।" इति दर्पणोक्तेः । अत्र लाटानुप्रासाख्योऽलङ्कारः । इदं पथ्यावृत्तम्, . तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥२९॥
For Private And Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84