Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७ तिलकमञ्जरी] मावेन विघ्नितोत्साहा, नोत्सहन्ते पदक्रमे । स्मरन्ति भारवेरेव, कवयः कपयो यथा ॥२८॥ [ पथ्यावृत्तम् ] ॥ ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ नोत्सहन्ते-नोद्यम कुर्वन्ति, व ? पदक्रमे सुबन्ततिङन्तपदन्यासे, काव्यकरणे इत्यर्थः, कवयः कवितारः, कीदृशाः सन्तः ? विनितोत्साहाः भग्नोद्यमाः, केन ? माघेन-काव्येन कविनाऽतिगम्भीरार्थपदरचितमहाकाव्यत्वात् , तर्हि किं कुर्वन्ति ! स्मरन्ति-ध्यायन्ति, कस्य ? भारवेरेव-कवेः, कर्मणि षष्टीयम् , भारवि कविं स्मरन्ति, भारविरेव माघतुल्य इत्यर्थः । क इव नोत्सहन्ते स्मरन्ति च ? कपयो-यथा वानरा नोत्सहन्ते, व पदक्रमे-पदन्यासे, किंभूताः सन्तः ? विभिनतोत्साहा भग्नोद्यमाः, केन ? माघेन माघमासेनातिशीतेन, केवलं स्मरन्ति ध्यायन्ति, काः ? भा-रश्मीन् , कस्य ? रवे आदित्यस्य, कदा रवेः रश्मयः प्रकटीभविष्यन्तीति ॥२८॥ 卐 श्रीमत्पद्मसागरविबुधरचिता व्याख्या के अथ माघकविं स्तुवन्नाह-मायेनेति । व्याख्या० माघेन माघमासेन विनितः स्खलितः प्रतितरुप्रतिशाखपर्यटनसत्क उत्साहो येषां ते चैवंविधाः कपयो वानरा यथा पदक्रमे चरणसंचारे नोत्सहन्ते नैवोत्साहवन्तो भवन्ति शीतार्त्तत्वात् , तथा माघेन माघनाम्ना कविना विनितस्तच्छक्तिविशेषापेक्षया स्वशक्त्यल्पीयस्त्वदर्शनेन काव्यरचनाभ्यासे भग्न उत्साहो येषां ते तथा, कवयः पण्डिताः पदक्रमे पदरचनायां नोत्सहन्ते, माघकविविरचितशास्त्रं दृष्ट्वा नाsस्माफमीदृशं कल्पान्तेऽप्यायास्यतीत्युत्साहभङ्गपुरःसरं पदमात्रमपि नैव रचयन्तीत्यर्थः । अथ यद्येवं तर्हि कवयः कपयश्च किं कुर्वन्तीत्याह-माघमासशीतात हि कपयो रवेः सूर्यस्य भाः किरणान् स्मरन्ति, कदा शीतापहारी सूर्योदयो भावीति चिन्तयन्तीत्यर्थः । कवयस्तु माघकविशक्तिदर्शनाद्गलितस्वशक्तयो भारवेरिति भारविनाम्नः कवेः शक्तिं स्मरन्ति, माघतुल्यस्तु भारविकविरेव जात इति चिन्तयन्तीति वृत्तार्थः ॥२८॥ 4 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 卐 हदि-हृदये । कया क इव ख्याति लब्धवान् ? सुधया अधिरिव, अब्धिरिव-यथा समुद्रः, सुधया अमृतेन, ख्याति-प्रसिद्धिम् , लब्धवान् , कीदृश्या सुधया ? कादम्बरीसहोदर्या-कादम्बरी मदिरा तस्याः सहोदर्या भगिन्या, सुधामदिरयोः समुद्रजातत्वप्रवादादुभयोमिथो भगिनीत्वम्, पुनः । कीदृश्या सुधया ? हर्षाख्यायिकया-हर्षस्यानन्दस्य आख्यायिकया प्रतिपादिकया, सुधामास्वाद्य वक्ति जनोऽतीवानन्दो जात इति । कुत्र ख्याति लब्धवान् ? वैबुधेविबुधसम्बन्धिनि देवसम्बन्धिनि, हदि-हृदये, सुधामास्वादयन्ति देवा इति कविजनप्रसिद्धिः । इदं पथ्यावतम तालक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥२७॥ माधकवि भारविकवि च वर्णयति माघेनेत्यादिना । 'माघेन विनितोत्साहाः कवयः पदक्रमे नोत्सहन्ते, किन्तु भारवेरेव स्मरन्ति' इत्यन्वयः । मान-शिशुपालवधाभिधकाव्यकारेण माघनाम्ना कविना, विधिनतोत्साहाः हतोत्साहा विगलितकाव्यकरणरसाः सन्तः, कवयः-काव्यकाराः, पदक्रमे-पदानां पदसंज्ञकानां विभक्त्यन्तशब्दानां क्रमे नियतपूर्वापरभावरूपेऽनुक्रमे रचनायामिति यावत् , काव्यकरणे इति भावः, नोत्सहन्ते-नोद्यम कुर्वन्ति, काव्यकरणाद् विरमन्तीत्यर्थः । अयं भावः-माघकविनिर्मितं निरुपमकाव्यगुणकलितं शिशुपालवधाभिधकाव्यमवलोक्य काव्यकरणेच्छवः कवयश्चिन्तयन्ति, यदुत-एतादृशकाव्यकरणपटौ माघकवौ विद्यमाने सति अस्मन्निर्मितकाव्यस्य विद्वत्परिषदि कदापि नादरो भविष्यत्यतः काव्यमेव न करणीयमिति माघेन हतोत्साहा सन्तः काव्यकरणाद् विरमन्तीति । ननु कवयः काव्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84