Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी ]
केवलोsपि स्फुरन् बाणः, करोति विमदान् कवीन् ।
किं पुनः क्लृप्तसंधान - पुलिन्दकृतसन्निधिः ||२६|| [ पथ्यावृत्तम् ] ॥
३५
5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् 55
करोति - विदधाति कः ? बाणः - बाणनामा कविः, कान् ? कवीन् = काव्यकर्तृन, किंभूतान् ? विमदान - विगतदर्पान् किं कुर्वन् ! स्फुरन् - द्योतमानः किंभूतः ? केवलोऽपि - असहायोऽप्येकाक्यपीत्यर्थः, किं पुनः = किमुच्यते पुनः ? विशेषेण विमदान् करोति, किंभूतः ? क्लृप्तसन्धानपुलिन्दकृतसन्निधिः क्लृप्तसन्धानः कृतकादम्बरीपरिसमाप्तिर्यः पुलिन्दः पुलिन्दाख्यः सुतस्तेन कृतं संनिधानं यस्य स तथोक्तः, स्वपुत्रकवियुक्त इत्यर्थः । अन्यत्र केवलोऽपि =नरादिरहितोऽपि बाणः शरः करोति, कवीन् कं जलं तत्र वयः पक्षिणः हंसादयस्तान् पक्षिणः, किंभूतान् ? विमदान् = हर्षरहितान् विषादवत इत्यर्थः । किं कुर्वन् ? स्फुरन् देदीप्यमानः, किं पुनर्न करोति ? कथंभूतः ? क्लृप्तसंधानपुलिन्दकृतसंनिधिः = क्लृप्तं कृतं संधानं धनुष्यारोपणं येन स तथोक्तः स चासौ पुलिन्दश्च शरश्च तेन कृतः संनिधिः = संनिधानं यस्य स तथोक्तः, आरोपितचापनाहलविहितसामीप्यः ||२६||
5 श्रीमत्पद्मसागरविवुधरचिता व्याख्या 5
अथ कादम्बरीकारं स्तुवन्नाह - केवलोऽपीति । व्याख्या • केवलोऽयपरसहायनिरपेक्षोऽपि बाणो बाणनामा कविरपरान् कवीन् विमदान् गताभिमानान् करोति, काऽस्येदृशी शक्तिरिति विशेषणमुखेन तां दर्शयति, कथंभूतो • बाणः ? स्फुरन् स्फुर्तिमान् स्फुर्तिं दृष्ट्वाऽस्याऽपरकवयो मदं त्यजन्तीत्यर्थः । ययसौ सहायनिरपेक्ष एवैवं करोति तर्हि ससहायः किं कुर्यादिति दर्शयति, किं पुनरिति क्लृप्तं रचितं सन्धानं ' मया स्वपितुर्ग्रन्थाः शोध्या' इति प्रतिज्ञा येन स चाऽसौ पुलिन्दः शबरनामा बाणपुत्रस्तस्य संनिधेः साहाय्यादपरकविविमदीकरणे किं भण्यमिति । अथ बाणपदस्य व्यङ्गार्थत्वेन काण्डार्थ उपदर्श्यते, बाणः पृषत्कः केवलो धनुर्निरपेक्षोऽपि कः कलापः, तेनोपलक्षिता वयः पक्षिणो मयूरा इत्यर्थस्तान् विमदान् बाणदर्शनानन्तरं भयविक्लवत्वेन गतहर्षान् करोति, बाणस्य ससहायत्वेऽतिशयं दर्शयति, किं पुनरिति, क्लृप्तं सन्धानं धनुर्ज्यायोजनं यैस्ते च ते पुलिन्दाश्च भिल्लास्तैः कृतः संनिधिर्धरणं तस्मात् । भिल्लहस्तस्थधनुरायुक्तो वाणः कथं न तान् पक्षिणो विमदान् करोतीति भावः इति वृत्तार्थः ||२६||
,,
For Private And Personal Use Only
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः 5
बाणकविं वर्णयति - केवलोऽपीत्यादिना । बाणः कवीन् विमदान् करोतीत्यन्वयः । बाणः = कादम्बरीप्रमुखग्रन्थकर्ता बाणनामा कविः । कवीन् = काव्यकर्त्तन् । विमदान् = विगताभिमानान् । करोति विदधाति । कीदृशो बाणः ? केवलोऽपि - इतरसाहाय्य रहितोऽपि, एकाक्यपीत्यर्थः । कीदृशः सन् ? स्फुरन् - ईषत् स्पन्दमानः सन् । ननु यदि केवलोsपि बाणः कवीन् विमदान् करोति तदा ससाहाय्यः किं कुर्यादित्याह -क्लुप्तसंधानपुलिन्दकृतसन्निधिः किं पुनः । क्लृप्तसन्धानपुलिन्दकृतसन्निधिः- क्लृप्तं विहितं सन्धानं निजजनकनिर्मितकादम्बरीसम्बन्धिनोऽशिष्टभागस्य समाप्तिपर्यन्तमनुसन्धानं येन स क्लृप्तसन्धानः, एवंविधो यः पुलिन्दः पुलिन्दनामा बाणकवितनयस्तेन कृतः सन्निधिः सामीप्यं यस्य स तथा पुलिन्दाभिधनिजतनयकविवरसहित इत्यर्थः । किं प्रश्न वितर्के वा, पुनः = पक्षान्तरयोतने, ससाहाय्यपक्षे किमुच्यते ? विशेषेण कवीन् विमदान् कुर्यादित्यर्थः । इत्येकोऽर्थः । अयं द्वितीयार्थ:बाणः शरः, कवीन् कस्य जलस्य वयः पक्षिणो हंसादयस्तान्, यद्वा कः कलापस्तेनोपलक्षिता वयः पक्षिणः कवयः, कलापिनो मयूरास्तान् विमदान् = विगतहर्षान् विषादयुक्तानिति यावत् करोति - विदधाति । कीदृशः शरः ? केवलोऽपि = धनुरादि साहाय्यरहितोऽपि । कीदृशः सन् ? स्फुरन् = वाय्वादिना ईषत् स्पन्दमानः सन् । ननु केवलोऽपि

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84