Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] प्राकृतेषु प्रबन्धेषु, रसनिष्यन्दिभिः पदैः। राजन्ते जीवदेवस्य, वाचः पल्लविता इव ॥२४॥ [पथ्यावृत्तम् ॥ अस्य चतुर्विंशतितमस्य श्लोकस्य विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति ।
9 श्रीमत्पद्मसागरविबुधरचिता व्याख्या : अथ संस्कृता एव कथा हृद्या न तु प्राकृता इति भ्रमनिरासाथ प्राकृतकथास्तत्कर्तारं च वर्णयन्नाह-प्राकृतेष्विति । व्याख्या प्राकृतेषु शुद्धप्राकृतव्याकरणनिष्पनेषु, प्रबन्धेषु रसनिःस्यन्दिभिर्नवरसभ्राविभिः पदैः कृत्वा जीवदेवस्य महाकवेर्वाचो गिरः पल्लविता इव संस्कृतकथापेक्षयाऽऽबालगोपालप्रतीतसुललितानेकार्थसूचाचतुरशब्दसन्दोहघटितत्वेनाऽतीवाऽऽनन्ददायित्वाद्राजन्त इति वृत्तार्थः ॥२४॥
॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ प्रवरसेननाम्ना सेतुबन्धकथाकारेण कविना, जितं निरुपमकाव्यरचनया कविकुलेषु जयो लब्धः । कीदृशेन प्रवरसेनेन ? महात्मना-माहात्म्यशालिना । यच्छब्दोपादानेन तच्छब्दार्थाक्षेपात् 'तेन' इत्यध्याहार्य तेन प्रवरसेनेनेतियोजना कार्या । तेन केन ? यत्कीर्तिः सेतुः यस्य कीर्तिः-कीर्तिहेतुत्वात् कीर्तिरूपो यशोरूपो यः सेतुः-नामैकदेशे नामोपचारात् सेतुबन्धनामा कथा, स वाङ्मयवारिधेः वाचो विकारा वाङ्मयानि शास्त्राणि तान्येवानेकाभिधेयरत्नकलितत्वाद् वारिधिः जलधिस्तस्य तथा, शास्त्ररूपसमुद्रस्य, उपरि-उपरिभागे, तरति-प्लवते, सकलकाव्यग्रन्थेषु प्रधानपदवीं दधातीत्यर्थः । केनेव ? रामेणेव-यथा रामेण, तत्र रामपक्षे-रामेण जितमित्यन्वयः, रामेण दशरथसूनुना रामचन्द्रेण, जित-लोकमध्ये जयो लब्धः । कीदृशेन ? प्रवरसेनेन-प्रवरा सेना यस्य तेन तथा। पुनः कीदृशेन ? महात्मनापूज्येन, अत्रापि तेनेत्यध्याहारात् तेन रामेणेति योजना । तेन केन ? यत्कीर्तिः सेतुः यस्य कीर्तिः-कीर्तिहेतुः सेतु:-सेतुबन्धः, लङ्कागमनार्थ नलकपिद्वारा कारितः समुद्रस्योपरि पालिबन्ध इत्यर्थः, वारिधेः जलधेः, उपरिउपरिभागे, तरति-प्लवते, ग्रन्थकर्तुः साक्षाद् बुद्धिविषयत्वेन वार्तमानिको निर्देशः । तरति स्मेत्यर्थः । इदं पथ्यावृत्तम्, तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥२२॥
तरङ्गवतीकथाकारस्य श्रीपादलिप्तसूरेः कथाप्रशंसामाह-प्रसन्नगम्भीरेत्यादिना । तरङ्गवती कथा गां पुनातीत्यन्वयः । तरङ्गवती-तरङ्गवतीनाम्नी, कथा-श्रीपादलिसाचायविरचित
चिता कथा, गां-वाणीम् , पुनाति-पवित्रीकरोति. कीहशी तरङ्गवती कथा ? प्रसन्नगम्भीरथा-प्रसन्नोऽल्पसमासार्थसुगमनादिरूपप्रसादाख्यकाव्यगुणयत्त गम्भीरार्थयुक्तः पन्था वचनमार्गो रचनाशैली यस्यां सा तथा, अत्र “ऋक्पू:पथ्यपोऽत्" [७-६-७६ ] इत्यत्समासान्ते “नोऽपदस्य तद्धिते" [७-४-६१] इत्यन्त्यस्वरादिलोपे पथिन्स्थाने पथ इति । पुनः कीदृशी ? रथाङ्गमिथुनाश्रया-रथाङ्गौ चक्रवाकपक्षिणी तयोयन्मिथुनं युगलं तस्याश्रयाऽऽधारभूता, तरङ्गवत्यां चक्रवाकयुगलस्य वर्णनात् । पुनः कीदृशी ? पुण्या पवित्रा । केव ? गॉव-यथा गङ्गा, गङ्गापक्षे-गङ्गा गां पुनातीत्यन्वयः । गङ्गागङ्गानाम्नी नदी, गां-पृथ्वीम्, पुनाति-पवित्रीकरोति । “गोशब्दः पशुभूम्यंशु-वाग्दिगर्थे प्रयुज्यते । स्वर्गलोचनबाणाम्बुकुलिशार्थोऽपि दृश्यते ॥१॥” इति शास्वतः । कीदृशी गङ्गा ? प्रसन्नगम्भीरपथा-प्रसन्नो निर्मलो गम्भीरोऽतलस्पर्शो गहनो वा पन्थाः प्रवाहमार्गो यस्याः सा तथा । पुनः कीदृशी? रथाङ्गमिथुनाश्रया-रथाङ्गानां चक्रवाकपक्षिणां यानि मिथुनानि युगलानि तेषामाश्रयाऽऽधारभूता, गङ्गायास्तीरयोः कमलादौ वा चक्रवाकयुगलानां सुखेन निवसनाद्, यद्वा षष्टारकप्रान्ते रथचक्रयुगलान्तरालप्रमितो गङ्गाप्रवाहो भविष्यतीतिवृत्तमाश्रित्य व्याख्येयम् । तथाहि, रथाङ्गमिथुनाश्रया रथाङ्गे चक्रे तयोमिथुनं युगलं तदेवाश्रयो यस्याः सा तथा, चक्रयुगलान्तरालप्रमितेत्यर्थः । पुनः कीदृशी गङ्गा ? पुण्या-पवित्रा, तरङ्गवती-प्रचुरकल्लोलयुक्ता इदं भविपुलावृत्तम् , तल्लक्षणं तु प्रथमश्लोकविवृति प्रान्ते प्रोक्तम् ॥२३॥
For Private And Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84