Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक - व्याख्या- विवृतिविभूषिता
म्लायति सकलाः कालिदासेनासन्नवर्तिना ।
गिरः कवीनां दीपेन, मालतीकलिका इव ||२५|| [ मविपुलावृत्तम् ] ॥
अस्य पञ्चविंशतितमस्य श्लोकस्य विबुधशिरोमणि श्रीशान्त्याचार्यविरचितं टिप्पनकं नास्ति । 5 श्रीमत्पद्मसागरविबुधरचिता व्याख्या फ
अथायं कविः स्वकालवर्तिनं कालिदासनामानं महाकविं स्तुवन्नाह - म्लायन्तीति व्याख्या० आसन्नवर्तिना स्वचक्षुर्गोचरमायातेन, कालिदासेन कालिदासनाम्ना महाकविना कृत्वाऽपरेषामस्मदादीनां कवीनां सकलाः समस्ताः कलान्विता वा गिरो वाचो म्लायन्ति म्लाना भवन्ति, समीपोपविष्टे कालिदासे सति ये कवयः स्ववाग्विलासं कुर्वन्ति तेषां वाग्विलासस्य तदपेक्षयाऽकिंचित्करत्वेन म्लानीभवनात् । अत्र दृष्टान्तमाह- केन का इव इव यथाऽऽसन्नवर्तिना समीपस्थेन दीपेन कृत्वा मालतीकलिका म्लायन्ति तथाऽनेन ता अपीति वृत्तार्थः ॥२५॥
5 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः फ
जीवदेवाभिधकविवरकृतप्राकृतनिबन्धसन्दोहगतवाण्याः प्रशंसामाह - प्राकृतेष्वित्यादिना । जीवदेवस्य वाचो राजन्त इत्यन्वयः । जीवदेवस्य = जीवदेवसूरेः कविवरस्य वाचो - वचनानि राजन्ते - शोभन्ते । क्व राजन्ते ? प्राकृतेषु - प्राकृतभाषाविरचितेषु, प्रबन्धेषु ग्रन्थेषु । कीदृश्य इव ? पल्लविता इव पल्लवानि नूतनपत्राणि संजातानि यासां तास्तथा, नूतनपत्रयुक्ता इव, कैः ? पदैः = विभक्तयन्तशब्दैः । कीदृशैः पदैः ? रसनिष्यन्दिभिः शृङ्गारादिरसवर्षिभिः । अयं भावः- यथा तरुः शाखाप्रशाखादिभिः शोभते, शाखाप्रशाखाः स्तबकैः शोभन्ते, स्तबका नूतनपत्रैः नूतनपत्राणि स्निग्धता रसवर्षीणीव दृश्यन्ते, तथा तरुस्थानापन्नः प्राकृतग्रन्थसन्दोहः, शाखा प्रशाखास्थानापन्नास्ते ते ग्रन्थाः, स्थानापन्ना वाचः, दलस्थानापन्नानि पदानि दलान्तर्गतरसंस्थानापन्नाः शृङ्गारादयो रसाः । इदं पथ्यावृत्तम्, तलक्षणं तु अष्टम श्लोकविवृतिप्रान्तेऽभिहितम् ॥२४॥
स्तबक
कालिदासकविं वर्णयति-म्लायन्तीत्यादिना । कवीनां सकला गिरो म्लायन्तीत्यन्वयः । कवीनाम् इतरकवीनाम्, सकलाः = कलासहिता निखिला वा गिरो वाचः, म्लायन्ति =म्लानिं प्राप्नुवन्ति, हतप्रभावा भवन्तीत्यर्थः । केन ? कालिदासेन - कालिदासनाम्ना कविना, कथम्भूतेन कालिदासेन ? आसन्नवर्तिना - समीपस्थेन । केन क इव ? दीपेन मालतीकलिका इव, दीपेन - प्रसिद्धेन कीदृशेन ? आसन्नवर्तिना - समीपस्थेन, मालतीकलिका इव - मालती पुष्पजातिविशेषः, तस्याः कलिका इव । अयं भावः - यावत् कालिदासकविः समीपवर्ती न भवति तावद् इतरकवीनां वाचो मालतीकलिका इव विकसन्तु समीपवर्तिनि तु कालिदासकवौ दीपसान्निध्ये मालतीकलिका इव ता म्लाना भवन्ति । द्वौ कालिदासावास्तामिति विद्वन्मतम्, तत्रैको विक्रमादित्यसमकालीनोऽपरो भोजसमकालीनः, द्वावप्यनेन लोकेन संगृहीतौ । यदि विशेषतो भोजसमकालीनः कालिदासो वर्णनीयस्तदा 'आसन्नवर्तिना ' इत्यस्य भोजसदसि मम समीपे वर्तमानेनेत्यर्थः करणीयः । इदं मविपुलावृत्तम्, तल्लक्षणं तु प्रथम श्लोकविवृतिप्रान्ते प्रोक्तम् ॥२५॥
For Private And Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84