Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिलकमञ्जरी] सत्कथारसवन्ध्येषु, निबन्धेषु नियोजिताः । नीचेष्विव भवन्त्यर्थाः, प्रायो वैरस्यहेतवः ॥१८॥ [ पथ्यावृत्तम् ] ॥ नमो जगन्नमस्याय, मुनीन्द्रायेन्द्रभूतये । यः प्राप्य त्रिपदी वाचा, विश्व विष्णुरिवानशे ॥१९॥ [ पथ्यावृत्तम् ] ॥
卐 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ तथा यत्र कुत्रापि शास्त्रेऽर्था न योजनीया इति दर्शयति-भवन्ति जायन्तेऽर्था अभिधेयाः, कीदृशा भवन्ति ? वैरस्यहेतवो विगतशृङ्गारादिरसकारणभूताः, कथं ? प्रायो बाहुलकेन, किंभूताः सन्तो ? नियोजिताः संघटिताः, केषु ? निबन्धेषु शास्त्रेषु, कीदृशेषु ! सत्कथारसवन्ध्येषु सन्तः शोभना ये कथारसाः शृङ्गारादयस्तैः वन्ध्येषु, शून्येषु, केष्विव ? नीचेष्विव यथा नीचेषु हीनेषु नियोजिताः समर्पिता अर्था धनानि प्रायो भवन्ति, कीदृशा ? हेतवः कारणानि, कस्य ? वैरस्य विरोधस्य, किंभूतेषु ? नीचेषु, सत्कथारसवन्ध्येषु सतां सत्पुरुषाणां कथा वार्ता तस्या रस आदरस्तेन वन्ध्येषु रहितेषु नीचत्वादेव ॥१८॥ अथ गौतमगणधरस्य नमस्कारमाह-त्रिपदी. पूर्ववद् व्याख्येया ॥१९॥
ॐ श्रीमत्पद्मसागरविबुधरचिता व्याख्या 卐 अथ यत्र तथाविधपद्याभावात् कथारसो न भवति तत्र नियुक्तानामप्यर्थानां प्रायो वैरस्य भवतीति दर्शयति, सत्कथेति । व्याख्या० श्रोतृणामानन्दकत्वेन सन् प्रधानो यः कथारसस्तेन वन्ध्येषु शून्येषु तद्रहितेष्वित्यर्थः । निबन्धेषु प्रबन्धेषु नियोजिता अर्था नीचेष्विवाऽधमेष्विव प्रायो वैरस्य द्वेषस्य हेतवः कारणानि भवन्ति तथा तथाविधप्रबन्धेषु नियोजिता अर्था वैरस्थं विरसता तद्धतवो भवन्ति वैरस्यं कुर्वन्तीत्यर्थ इति वृत्तार्थः ॥ १८ ॥
___ अथाऽऽदीश्वरादिदेवस्तवनरूपमङ्गलाचरणपूर्व ग्रन्थप्रस्तावनां विधाय तदभिधेयं विवक्षुर्बिद्धं सुबद्धं भवतीति न्यायेनाऽखिलविघ्नोपशमनसमर्थस्याऽऽदेयनाम्नो भगवतो गौतमस्य नमस्काररूपं पुनर्मङ्गलमाचरति । नमो जगदिति । व्याख्या० इन्द्रभूतय इन्द्रभूतिनाम्ने श्रीमञ्चरमजिनप्रथमगणाधिपाय नमोऽस्त्विति तावदन्वयः । कथंभूतायेन्द्रभूतये ? मुनीन्द्राय, चरमजिनप्रदत्तगच्छाधिपत्येन समस्तमुनिस्वामिने । नन्वेतस्यैव कवेः किमयं प्रणामाई उताऽपरस्याऽपीत्याशङ्कयाऽऽह-कथंभूतायेन्द्रभूतये जगन्नमस्याय जगतां प्रणामार्हायेत्यर्थो, ननु जगन्नपस्यत्वं विष्णोरेव स्यात् तस्यैव तदधीशत्वान्नाऽपरस्येति चेन, अस्याऽपि विष्णुसमत्वात् , ननु कथमस्य विष्णुसमत्वमित्याशङ्कय तद्दर्शयति, यो भगवान् विष्णुरिव त्रिपदीमुत्पादत्र्ययध्रौव्यरूपं पदत्रयं प्राप्य लब्ध्वा वाचा द्वादशाङ्गीरचनासमर्थया वाण्या विश्वं जगदानशे व्याप्तवान्, भगवानिद्रभूतिश्चरमजिनशासने प्रथमं द्वादशाङ्गी रचितवानिति जगद्विख्यातत्वात् , विष्णुपक्षे तु बल्यधःक्षेपावसरे त्रिपदी चरणत्रयं प्राप्य त्रिलोकी व्याप्तवान् , अत्र वाचेति बलेः प्रतिज्ञाभञ्जकवचनेन कृत्वेति करणपदमिति विष्णुसमत्वेन विष्णोरिवाऽस्य जगन्नमस्यत्वं सिद्धमिति वृत्तार्थः ॥ १९ ॥
卐 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ " गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते ।" इत्युक्तलक्षणा चम्पूरूपापि कथा, कथारसं-कथायाः शृङ्गारादिकं रसम् , जहाति त्यजति, चम्पूकाव्येऽल्पपद्यत्व रसप्रदं भवतीति चम्पूकाव्यमपि पद्यप्रचुरं न विधेयमिति भावः । यद्वा चम्पूरपि यदि अश्रान्तगद्यसन्ताना सती श्रोतृणां निर्विदे भवति, पद्यप्रचुरा सती च कथारसं जहाति, अन्यकथायास्तहि का वार्ता ॥ इदं मविपुलावृत्तम् तल्लक्षणं प्रथमश्लोकविवृतिप्रान्तेऽभिहितम् ॥१७॥
For Private And Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84