Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ टिप्पनक-व्याख्या-विवृतिविभूषिता अश्रान्तगद्यसन्ताना, श्रोतृणां निर्विदे कथा । जहाति पद्यप्रचुरा, चम्पूरपि कथारसम् ॥१७॥ [ मविपुलावृत्तम् ] ॥ 9 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ ईदृशी कथा न कार्येति दर्शयति-निविंदे या विरागार्था भवति, का ? कथा, केषां ? श्रोतृणां श्रावकाणाम् , कीदृशी ? अश्रान्तगद्यसंताना निरन्तरगयप्रवाहा, तथा जहाति त्यजति, कं ? कथारसं कथाया रसः शृङ्गारादिस्तम् , कासौ ? चम्पूरपि गद्यपद्यमय्यपि कथा, कीदृशी ? पद्यप्रचुरा निरन्तरपद्या, तस्मादीदृश्यपि न कार्या ॥१७॥ ॥ श्रीमत्पद्मसागरविबुधरचिता व्याख्या के अथैवंविधगद्यबन्धविरचिता कथा श्रोतृणां तोषाय स्यादितरा तु खेदाय भवतीति दर्शयति अश्रान्ततिति । व्याख्या० श्रान्तिः समाप्तिस्तया रहितोऽश्रान्तो गयवंशो यस्यां सा तथा, एवंविधा च कथा श्रोतृणां निर्विदे खेदाय स्यात् , यस्यां हि कथायां महागद्यवंश एवं स्यात् समाप्तिसूचकपदाभावात् , सा हि कथा कदाचिदप्यथोसमाप्त्या खेदाय स्यादिति तात्पर्यम् , ननु तर्हि अश्रान्तगद्यसन्ताना चम्पूरपि कथ कथारसं दास्यतीति चेन्न कथमपि ददातीति यति पद्यप्रचरेति. अर्थसमाप्तिपदस्य दूरस्थत्वेन पद्यविकला चम्परपि चम्पुकथाऽपि कथारसं जहाति त्यजति । रसवत्यपि चम्पूकथा तथाविधपद्याभावाच्छ्रोतॄणामुद्वेजकत्वेन नीरसा भवतीति वृत्तार्थः ॥ १७ ॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ पारं यास्यामीति धिया भीतिग्रस्त इव ततो निवर्तत इत्यर्थः । कस्मादिव ? व्याघादिव कीदृशाद् व्याघ्राद् ? अखण्डदण्डकारण्यभाज: अखण्डं निरन्तरं यद् दण्डकारण्यमतिप्रचुरो मनुषरहितो देशोऽटवीविशेषो वा तद्भाजः, यद्वा अखण्डाः परिपूर्णा दण्डा वंशादीनां दण्डा यस्मिन् तदखण्डदण्डकं तादृशंयद्अरण्यं तद्भाजस्तत्सेविनः, घोराटवीवासिन इत्यर्थः । पुनः कीदृशाद् व्याघ्राद् ? प्रचुरवर्णकात्-प्रचुरा घना वर्णा पीतादयो यस्य स तथा तस्मात् । इदं पथ्यावृत्तम् , तलक्षणं तु अष्टमश्लोकविवृतिप्रान्तेऽभिहितम् ॥१५|| ___ अन्यगुणकलिताऽपि विपुलश्लेषा काव्यरचना श्लाघनीया न भवतीत्याह-वर्णयुक्तिमित्यादिना । कृतिः श्लाघां नारनुत इत्यन्वयः । कृतिः काव्यरचना, श्लाघां-प्रशंसाम् , नाश्नुतेन प्राप्नोति । का इव? लिपिरिव-यथा पत्रादावक्षरविन्यासरूपा लिपिः । कीदृशी कृतिः कीदृशी च लिपिरित्याह-अतिश्लेषघना अतिशयेन ये श्लेषा अनेकार्यप्रतिपादकवचनानि तैर्घना निरन्तरा, लिपिपक्षे-अतिश्लेषो लिखिताक्षराणामविभागेन मीलनं तेन घना निरन्तरा, कीदृश्यपि कृतिलिपिर्वा ? दधानाऽपि-विभ्राणाऽपि, कां दधाना ? वर्णयुक्तिवर्णनयोगम् , लिपिपक्षे-लिखिताक्षररचनाम् । कीदृशी वर्णयुक्तिं ? स्निग्धाञ्जनमनोहरां-स्निग्धां रसकलितत्वेन स्नेहलां न तु रुक्षाम् , माधुर्यादिरसयुक्तामित्यर्थः, जनमनोहरां जनमनोरखिकाम् , लिपिपक्षे स्निग्धं यद् अञ्जनं मषी तेन मनोहरामतिकृष्णत्वाद् रमणीयाम् । यद्वा लिपिरिव कृतिः श्राघामश्नुत इत्यर्थः । अन्यत्सर्वमुक्तवत्, केवलं ‘नातिश्लेषणघना' इत्यस्यायमर्थः-न अतिश्लेषण घना, अर्थात् अल्पश्लेषा इत्यर्थः, अल्पश्लेषस्य गुणत्वेन श्लाघां प्राप्नोतीति भावः । इदं पथ्यावृत्तम् , तालक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रोक्तम् ॥१६॥ ईदृशी कथा न कार्येति दशर्यति-अश्रान्तेत्यादिना । अश्रान्तगद्यसन्ताना कथा श्रोतृणां निर्विदे इत्यन्वयः । अश्रान्तगद्यसन्ताना अश्रान्तः समाप्त्यर्थकपदसान्निध्याभायाद् असमाप्तो गद्यस्य सन्तानः प्रवाहो यस्यां सा तथा, निरन्तरगोत्यर्थः । कथा-प्रसिद्धा, श्रोतृा-श्रवणकर्तृणाम् , निर्विदे-उद्वेगाय, स्यादित्यध्याहार्यम् । अतो नेदृशी कथा कार्येति भावः । तथा पद्यप्रचुरा चम्पूरपि कथारसं जहाति, पद्यप्रचुरा-पद्यैः श्लोकः प्रचुरा विशाला, चम्पूरपि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84