Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir _ [ टिप्पनक-व्याख्या-विवृतिविभूषिता अखण्डदण्डकारण्य-भाजः प्रचुरवर्णकात् । व्याघ्रादिव भयाघ्रातो, गद्याद् व्यावर्तते जनः ॥१५॥ [ पथ्यात्तम् ] ॥ + विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ ईदृशं गयं न कार्यमिति दर्शयितुमाह-गद्याच्छन्दोरहितवचनाद्वयावर्त्तते निवर्तते, जनो लोको न स्वीकरोतीत्यर्थः । किंभूतः सन् ? भयाघ्रातो भीग्रस्तः । कस्मादिव ? व्याघ्रादिव पुण्डरीकादिव । कीदृशात् गद्यात् ? कीदृशाच्च व्याघ्राद् ? अखण्डदण्डकारण्यभाजा-अखण्डा परिपूर्णा ये दण्डका बह्वक्षरबहुसमासवचनानि त एवाऽरण्यमतिगम्भीरार्थत्वात्तद्भजते यद्गद्यं तत्तथोक्तं तस्मात्तयुक्तादित्यर्थः, तथा प्रचुरवर्णकात् प्रचुरबहुतरा [प्रचुरा बहुतरा वर्णा ] वर्णनानि यस्मिन् तत्तथोक्तं तस्माद् , बहुवर्णकं हि गद्यमुद्वेजनीयं भवति तथा अखण्डदण्डकं च । व्याघ्रादपि कीदृशादखण्डं निरन्तरं यद्दण्डकारण्यमतिप्रचुरो मानुषरहितो देशस्तद्भाजस्तत्सेविनः, तथा प्रचुरवर्णकादनेकवर्णात् ॥१५॥ + श्रीमत्पद्मसागरविवुधरचिता व्याख्या + अथ पद्यमयकाव्यवर्णनानन्तरं गद्यस्वरूपव्यावर्णनाथ व्याघ्रोपमानेन गद्यस्य दुरधिगमत्वं दर्शयति, अखण्ड० इति । व्याख्या० व्याघ्रादिव गद्याद्भयाघ्रातो जनो व्यावर्तते निवृत्तिमान् भवतीत्यन्वयः । अथ व्याघ्रगद्ययोरौपम्योपमेययोर्विशेषणसाम्यं दर्शयति, कथंभूताद्द्यादखण्डदण्डकारण्यभाजः, अखण्डाः शब्दार्थासमाप्तप्राया ये दण्डका आलापकास्तेष्वासमन्ताद् व्याप्तिमन्तो द्वित्र्याद्यथनिरूपणनिपुणा अण रण इति दण्डकधातो रणन्तीति रणाः शब्दास्तेषां समूह आरण्य, समूहाथै यणिति सिद्धेस्तद् भजत इति तद्भाक् तस्मात्तद्भाजः, अखण्डदण्डकेषु हि गोषु प्राय एवंविधा एव शब्दा भवन्तीति । व्याघ्रार्थे तु कथंभूताद् व्याघ्रादखण्डदण्डकारण्यभाजोऽखण्डाः पूर्णा आद्यन्तवन्तो वंशादीनां दण्डा यत्र तत् स्वार्थे कात् , अखण्डदण्डकमेवंविधं यदरण्यमटवी तद्भाज इति, घोराटवीवासिन इत्यर्थः । पुनः कथंभूताद्द्यात् प्रचुरवर्णकात् प्रचुरा घना वर्णा अक्षराणि यत्र तत्तस्मात् । व्याघ्रार्थे तु प्रचुरश्चित्रो रक्ततादिरूपो वर्णों यस्य स तथा तस्मात् , यथैवंविधाद् व्याघ्राद्भयाघ्रातो जनो व्यावर्तते तथैवंविधाद्गद्याद् व्यावर्तते कथमहमेवंविधस्यैतस्य पारं यास्यामीति भीतो जनः प्रायो गद्यानिवर्तते, इति गद्यस्य दुरधिगमत्वं दर्शितं तथा चाऽस्याः कथाया गद्यमयत्वेन दुरधिगमता वर्णितेति वृत्तार्थः ॥ १५ ॥ ॥ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ बन्धने लब्बे सति क्षिति-क्षयं निरुद्धत्वात् पर्युषितत्वादिना विनाशं प्राप्नोतीति, यद्वा प्राग्वद् भावना कार्या । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते प्रदर्शितम् ॥१३॥ ___अथ काव्यगुणकथने दुर्जनरीतिं दर्शयति कषाश्मनेवेत्यादिना । दुर्जनः काव्यहेम्नो गुणान् वक्तीत्यन्वयः, दुर्जनः खलः, काव्यहम्नः काव्यमेव सुकृतिसमुपादेयत्वादिना हेम सुवर्णं तस्य, गुणान्-रसोत्कर्षहेतून माधुर्योजःप्रसादाख्यान् श्लेषादीन् वा, वक्ति-कथयति, कीदृशो दुर्जनः ? अधोमुखेक्षणः- मुखं च ईक्षणे नयने चैषां समाहारो मुखेक्षणम् “प्राणितूर्य" [३, १, १३७ ] इत्येकवद्भावः, अधोऽधःस्थितं मुखेक्षणं यस्य स तथा, अयम्भावः-खलः काव्ये दोषाभावेन मुखमूर्चीकृत्य दोषकथनतत्परो न भवितुमर्हति किन्तु गुणदर्शनेन निम्नं मुखं कृत्वा भूतलं पश्यति, केन गुणान् वक्ति ? मुखेन वक्त्रेण, कीदृशेनेव ? कषाश्मनेव श्यामेन-कषाश्मा यत्र रेखां कृत्वा सुवर्ण परीक्ष्यते तादृशः पाषाणखण्डविशेषस्तेनेव श्यामेन कृष्णवर्णेन मलिनेनेत्यर्थः, अयं भावः-काव्ये दोषादर्शनेन दुर्जनस्य मुखं श्याम मलिनं भवति, एतादृशेन मुखेनापि यद्यपि दुर्जनत्वात् स्वयं काव्यगुणान् न वदेत् तथापि तादृशं मलिनं मुखमवलोक्येतरे विचक्षणा जानन्ति, यदुत-अस्मिन् काव्ये गुणाः सन्ति, अन्यथाऽस्य मुखं मलिनं न स्यादिति ‘मुखेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84