Book Title: Tilak Manjri
Author(s): Dhanpal, Padmasagar, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ [ टिप्पनक-व्याख्या-विवृतिविभूषिता उत्पतन्त्यजवद् व्योम्नि, केचित् माप्तपदत्र्याः । विशन्त्यन्ये प्रबन्धेऽपि, लब्धे बलिरिव क्षितिम् ॥१३॥ [ पथ्यावृत्तम् ॥] ॐ विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ कधिविशेषमाह-उत्पतन्ति उद्गच्छन्ति उदयन्त इत्यर्थः । केचित् कवयः। क्व ? व्योम्नि-आकाशमपि बुद्धया व्याप्नुवन्ति । किंभूताः सन्तः ? प्राप्तपदत्रया उत्पात-व्यय-ध्रौव्यलक्षणं पदत्रयं प्राप्ता यद्वा सुबन्ततिअन्तपत्रयं प्राप्ताः, अन्ये तु विशन्ति, कां ? क्षितिं क्षयं बुद्धिरहिततां यान्ति, कस्मिन् सत्यपि ? प्रबन्धेऽपि शास्त्रेऽपि, किंभूते ? लब्धे प्राप्ते, क इवोत्पतन्ति ? क इव विशन्ति ? अजवत् विष्णुवत् , यथा विष्णुराकाश उत्पतितः, किंभूतः ? प्राप्तपदत्रयो लब्धाधऊर्ध्वतिर्यक्क्रमत्रितयः, बलिरिव यथा बलि: प्रबन्धे प्रकृष्टबन्धने प्राप्ते क्षिति भूमि प्रविष्टो विभक्तिपरिणामेनैकवचनं योजनीयम् ॥ १३॥ ॥ श्रीपद्मसागरविबुधरचिता व्याख्या ॥ __ अथ परमोत्कर्षवतां कवीनां हीनोपमया तिरस्कारपूर्व सत्कवीन् प्रशंसयन्नाह-उत्पतन्त्यजवद् व्योम्नि । व्याख्या० अजवद्विष्णुवत् केचित्कवयः प्राप्तपदत्रयाः सन्तो व्योम्नि गगन उत्पतन्त्यूयं गच्छन्ति, अयं भावः, यथाहि प्राप्तपदत्रयः कृतत्रिपादो विष्णुर्गगन उत्पतितवानयं हि लोकसमये यदलिभूपालस्य पातालक्षेपावसरे पादत्रयं विकृत्य व्योम्न्युत्पपात तथा च केचित् कवयोऽप्येकद्वित्रिपदबोधेनोत्कर्षिणः सन्तो व्योम्न्युत्पतन्त्युद्गच्छन्तीत्यर्थः । अत्र चाऽजशब्दवाच्यबुत्कटस्य व्यङ्गयत्वेन हीनोपमानादुत्कर्षवतां कवीनां तिरस्कारः कृतो भवतीति । अथ शान्तोत्कर्षान् कवीनुत्तमोपमानेन प्रशंसयन्नाह-विशन्तीति, अन्ये पूर्वोक्तेभ्यः कविभ्योऽन्यस्वभावतया इतरे कवयः, प्रकृष्टो बन्धो रचना यत्र तत्प्रबन्धं सुशास्त्रं तस्मिन् लब्धे प्राप्ते सच्छास्त्रेऽधीते सत्यपीत्यर्थः । सर्वथा गलितोत्कर्षतया जनैः श्लपिताः सन्तो वलिरिव बलिभूपालवत् क्षिति पृथ्वी विशन्ति प्रविशन्ति । अयं भावः, अधीतसच्छास्त्रत्वेन गलितोत्कर्षतया च ते साधुकवयो जनैः प्रशंसिताः सन्तो न मनागप्युच्छ्वसन्ति किन्तु जनप्रशंसावसरे सलजत्वेनाऽधोमुखाः सन्तो ज्ञायते पृथ्वीं प्रविशन्तीति । बल्यर्थे तु प्रबन्धे प्र प्रकर्षण बन्धे बन्धने वाग्यन्त्रणरूपे लब्धे सति क्षिति पातालं प्रविष्टवानिति । अत्र च बलिदृष्टान्तस्योत्तमत्वेन तद्दार्टान्तिककवीनां प्रशंसा कृता भवतीति वृत्तार्थः ॥ १३ ॥ 9 श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ तथा अधोगतानीत्यर्थः, अत्र अवोपसर्गपूर्वकेण विबन्तेन अञ्चधातुना निष्पन्नस्य अव-अच् अवाच्-शब्दस्य नपुंसके द्वितीयाबहुवचने रूपम् । अभिमतकाव्यस्य गुणयुक्तत्वेन दोषरहितत्वेन च दुर्जनानां मुखानि वचनरहितानि मस्तकानि चाधोगतानि भवन्तीति भावः । इदं पथ्यावृत्तम् , तल्लक्षणं तु अष्टमश्लोकविवृतिप्रान्ते दर्शितम् ॥१२॥ अथाल्पज्ञकवेदप्ततामुपहसन् बहुश्रुतकवेर्नम्रतां प्रशंसन् प्राह-उत्पतन्तीत्यादि । प्राप्तपदन्नयाः केचिद् व्योम्नि उत्पतन्तीत्यन्वयः । प्राप्तपदत्रयाः प्राप्तमवगतं पदानां पदसंज्ञकानां 'राज्ञोऽयं ग्रामः' इत्यादिस्याद्यन्तशब्दानां 'जयति नयति पचति' इत्यादि त्याद्यन्तशब्दानां वा त्रयं यैस्ते तथा, अल्पज्ञा इत्यर्थः । विभक्त्यन्तशब्दस्य वैयाकरणैः पदसंज्ञा कृता, सा च विभक्तिद्विधा स्यादिरूपा त्यादिरूपा चेति तदन्तस्य पदत्वं सिद्धमेव । केचित्-कतिपये, कविप्रस्तावात् कवयः । व्योम्नि आकाशे, उत्पतन्ति-उड्डयन्ते, वागाडम्बरबहुला भवन्तीत्यर्थः, क इव ? अजवत्-विष्णुरिव, यथा विष्णुबलिनाम्नो राशः सकाशात् पदत्रयं पदत्रयप्रमाणभूमि वरेणासाद्याकाशे उत्पतितः । अन्ये-निरुक्ताल्पज्ञदृप्तकविव्यतिरिक्ताः कवयः, प्रबन्धे-शास्त्रे, लब्धेऽपि अधिगतेऽपि, क्षिति-पृथिवीम् , विशन्ति-प्रविशन्ति, नम्रा भवन्तीत्यर्थः । क इव ? बलिरिव-बलिभूपाल इव, यथा बलिराजः, प्रबन्धे पदत्रयप्रमिता भूमिर्मया दत्ता' इति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84